________________
परिशिष्ट - ५ : श. ८ : उ. २ : सू. ९७-१११
४८६
शेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं
चेति केवलज्ञानम् । ८/९८. 'उग्गहो' त्ति
सामान्यार्थस्य-अशेषविशेषनिरपेक्ष
स्थानिर्देश्यस्य रूपादेः अव इति प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः । 'ईह' त्ति सदर्थविशेषालोचनमीहा । 'अवाओ' त्ति प्रक्रान्तार्थविनिश्चयोऽवायः । 'धारणे' ति अवगतार्थविशेषधरणं धारणा। ‘एवं जहे' त्यादि, 'एवम् उक्तक्रमेण यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भणितस्तथैवेहापि भणितव्यः । स चैवम्८/१०१. 'से किं तं उग्गहे ?, उग्गहे दुविहे पन्नत्ते, तं जहा अत्थोग्गहे य वंजणोग्गहे य' इत्यादिरिति यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा ये' त्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्–'इच्चेयंमि दुवालसंगे गणिपिडए अनंता भावा अणंता अभावा जाव अणंता भवसिद्धिया अणंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा पन्नत्ते' ति अस्य च सूत्रस्य या सङ्ग्रहगाथा'भावमभावा' हे उमहेउ कारणमकारणा जीवा ।
अजीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ॥ १ ॥' इत्येवंरूपा तस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्-तत्र 'अन्नाणे' त्ति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात् उक्तञ्च - ‘अविसेसिया' मइच्चिय सम्मद्दिट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छदिट्टिस्स सुयंपि एमेव ॥ १ ॥' 'विभंगणाणे ति विरुद्धा भङ्गा - वस्तुविकल्पा यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च अथवा विरूपो भङ्गः - अवधिभेदो विभङ्गः स चासौ ज्ञानं चेति विभङ्गज्ञानम्, इह च कुत्साविभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नञा विशेषितः, 'अत्थोग्गहे यत्ति अर्ध्यत इत्यर्थस्तस्यावग्रहः अर्थावग्रहः सकलविशेषनिरपेक्षानिर्देश्यार्थग्रहणमेकसामयिकमिति भावार्थ:, 'वंजणोग्गहे यत्ति व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा ततश्च व्यञ्जनेन- उपकरणेन्द्रियेण व्यञ्जनानां वा-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाच्च प्रथममुपन्यासः, 'एवं जहेवे' त्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं, तच्चैवम्- 'से किं तं वंजणोग्गहे ?, २ चउव्विहे पन्नत्ते, तं जहा
च
१. भावा अभावा हेतवोऽहेतवः कारणान्यकारणानि जीवा अजीवा भव्या अभव्यास्ततः सिद्धा असिद्धाः || (द्वादशाङ्गीरूपगणिपिटके) ।
Jain Education International
भगवती वृत्ति
सोइंद्रियवंजणोग्गहे घाणिदियवंजणोग्गहे जिब्भिंदियवंजणोग्गहे फासिंदियवंजणोग्गहे' इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगट्टियवज्जं ति इहाभिनिबोधिकज्ञाने' "उग्गिण्हणया अवधारणया सवण्या अवलंबणया मेहे' त्यादीनि (पञ्च) पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, 'जाव नोइंद्रियधारण' ति इदमन्त्यपदं यावदित्यर्थः ।
८ / १०२. जं इमं अन्नाणिएहिं' ति यदिदम् 'अज्ञानिकैः' निज्ञनैः, तत्राल्पज्ञानभावादधनवदशीलबद्वा सम्यग्दृष्टयोऽप्य-ज्ञानिकाः प्रोच्यन्तेऽत एवाह--मिथ्यादृष्टिभिः 'जहा नंदीए त्ति, तत्रैवमेतत्सूत्रम्- 'सच्छंद्रबुद्धिमइविंगप्पियं तं जहा भारहं रामायण' मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणे च मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारि य वेय' त्ति साम ऋक् यजुः अथर्वा चेति 'संगोवंग' ति इहाङ्गानि - शिक्षादीनि षट् उपाङ्गानि च तद्व्याख्यानरूपाणि । ८/१०३. 'गामसंठिए 'त्ति ग्रामालम्बनत्वाद् ग्रामाकारम, एवमन्यान्यपि,
नवरं 'वाससंठिए' त्ति भरतादिवर्षाकारं 'वासहरसंठिए' ति हिमवदादिवर्षधरपर्वताकारं 'ह्यसंठिए अश्वाकारं पसय ति पसयसंठिए, तत्र पसयः - आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति ॥
अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह
८/१०४. 'जीवा णं भंते!" इत्यादि ।
८/१०५. इह च नारकाधिकारे 'जे नाणी ते नियमा तिन्नाणी' ति
सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमात्त्रिज्ञानिनः । 'जे अन्नाणी ते अत्येगतिया दुअन्नाणी अत्येगतिया तिअन्नाणी' ति, कथम् ?, उच्यते, असञ्जिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते द्व्यज्ञानिनः ये तु मिथ्यादृष्टिसनिभ्य उत्पद्यन्ते तेषां भवप्रत्ययो विभङ्गो भवतीति ते व्यज्ञानिनः । एतदेव निगमयन्नाह - ' एवं तिन्नि अन्नाणाणि भयणाए ति । ८/१०८. 'बेइंदियाण' मित्यादि द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यग्दर्शनभावेनापर्यासकावस्थायां भवन्तीत्यत
उच्यते । 'नाणीव अन्नाणीवित्ति ॥ अनन्तरं जीवादिषु षइविंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गतीन्द्रियकायादिद्वारेषु चिन्तयन्नाह
८ / १११. 'निरयगइया ण मित्यादि, गत्यादिद्वाराणि चैतानि
२. अविशेषिता मतिरेव सा सम्यग्दृष्टेर्मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org