________________
भगवती वृत्ति
४८३
सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृह्णाति ?, सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्युच्यत इति । 'कम्मासरीरकायप्पओगपरिणए ति इह कार्म्मणशरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवति। उक्तं च-‘कार्म्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये चे ति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनां व्याख्या शतकटीकाऽनुसारतः पुनर्मिश्रकायप्रयोगाणामेवंऔदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दधि, न गुडतया नापि दधितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्र कार्मणेनैव नौदारिकतया नापि कार्म्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति । नवरं 'बायरवाउक्काइए' इत्यादि, यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौ दारिक मिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो, नवरमयं विशेषः- तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरवायुकायिका गर्भपञ्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकापर्यातकविशेषणा अध्येतव्याः, शेषस्त्वपर्याप्तकविशेषणा एव यतो बादरवायुकायिकादीनां पर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे' ति प्रज्ञापनायामेकविंशतितमपदे तत्र चैवमिदं सूत्रं 'जड़ वाउक्काइय एगिंदियवे उव्वियसरीरकायप्पयोगपरिणए किं सुहुमवाउक्काइयएगिंदिय जाव परिणए बादरवाउक्काइयएगिंदिय जाव परिणए ?, गोयमा ! नो सहुम जाव परिणए बायर जाव परिणए' इत्यादीति ।
'एवं जहा ओगाहणसंठाणे' त्ति तत्र चैवमिदं सूत्रं - 'गोयमा ! णो अमणुस्साहारगसरीरकायप्पओगपरिणए मणुस्साहारगसरीरकायप्पओगपरिणए' इत्यादि । ' एवं जहा ओगाहणासंठाणे कम्मगस्स भेओ' ति स चायं भेद:- 'बेइंदिय कम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिंदिय' इत्यादिरिति ॥
अथ द्रव्यद्वयं चिन्तयन्नाह
८/ ७३. 'दो भंते!' इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट् ।
८/ ७४. एवं मनः प्रयोगादित्रयेऽपि ।
८/ ७५. सत्यमनः प्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश ।
८/ ७६. आरम्भसत्यमनः प्रयोगपरिणतादीनि च षट् पदानि तेष्वेकत्वे षड् द्विकयोगे तु पञ्चदश सर्वेऽप्येकविंशतिः ६, एकत्वे १-२-३-४-५-६ ॥ द्वित्वे १५
Jain Education International
परिशिष्ट- ५ : श. ८ : उ. १ : सू. ७२-७९
१-२ २-३ ३ ४ ४-५ ५-६ १-३ २-४ ३५ ४-६ (१५) १-४२-५ ३-६ १-५ २-६ १-६
सूत्रे च 'अहवा एगे आरंभसच्चमणप्पओगपरिणए' इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको दर्शितः शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनर्दर्शयतोक्तम् एवं एएणं गमेणं' इत्यादि एवमेतेन गमेनारम्भसत्यमनः प्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं द्रव्यद्वयसूत्रं द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्यं, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणितव्याः, तत्र चारम्भसत्यमनःप्रयोगा दर्शिता एव, आरम्भादिपदषट्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनः प्रयोगादिषु चतुर्षु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशतिः, औदारिकशरीरकायप्रयोगादिषु तु सप्तसु पदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति ( एकत्वे १-२-३-४-५-६७ द्वित्वे २१ ।
१-२।२-३ | ३-४४-५ ५-६ / ६-७ १-३ २-४ ३-५ ४-६ ५-७ १-४ २-५ ३-६ ४-७ १-५ २-६ ३-७ २-७
एवमेकेन्द्रियादिपृथिव्यादिपदप्रभृतिभिः पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्रव्यद्वयं प्रपञ्चनीयं कियद्दूरं यावत् ? इत्याह-'जाव सव्वट्ठसिद्धग' त्ति एतच्चैवं-'जाव सव्वट्ठसिद्ध अणुत्तरोववाइयकप्पातीतगवेमाणियदेवपंचेंदियकम्मासरीरकायप्पओगपरिणया किं पज्जत्तसव्वट्ठसिद्ध जाव परिणया अपज्जत्तसव्वट्टसिद्ध जाव परिणया वा ? गोयमा ! पज्जत्तसव्वट्ठसिद्ध जाव परिणया वा अपज्जत्तसव्वट्ठसिद्ध जाव परिणया वा अहवा एगे पज्जत्तसव्वट्टसिद्ध जाव परिणए एगे अपज्जत्तसव्वट्टसिद्ध जाव परिणए' त्ति ।
८/ ७८. एवं वीससापरिणयावि' त्ति एवमिति प्रयोगपरिणतद्रव्यद्वयवत्प्रत्येक विकल्पैर्द्धिकसंयोगैश्च विस्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियद्दूरं यावत् ? इत्याह- 'जाव अहवेगे' इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति || अथ द्रव्यत्रयं चिन्तयन्नाह
८/७९. 'तिन्नी' त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः द्विकसंयोगे तु षट्, कथम् ?, आद्यस्यैकत्वे शेषयोः क्रमेण द्वित्वे द्वौ तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ ४ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः ५ तथा द्वितीयस्य द्वित्वे तृतीयस्य चैकत्वेऽन्यः ६ इत्येवं षट्,
For Private & Personal Use Only
www.jainelibrary.org