SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - ५ : श. ८ : उ. १ : सू. १७७२ पर्याप्तकविशेषणो द्वितीयो दण्डकः, तत्र 'एक्केक्के' त्यादि एकैकस्मिन् काये सूक्ष्मबादरभेदाद्द्द्विविधाः पुद्गला वाच्याः, . ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः ॥ ८/१८. 'जे अपज्जत्ता सुमपुढवी त्यादिरौदारिकादिशरीरविशेषणस्तृतीयो दण्डकः । ८/२७. तत्र च 'ओरालियतेयाकम्मसरीरपओगपरिणय' त्ति औदारिकतै जसकार्मणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीति कृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्तकवायूनां त्वाहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह - नवरं 'जे पज्जते' त्यादि । ४८२ ८/३०. 'एवं गब्भवक्कंतिया वि अपज्जत्तग' त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिका अप्यपर्याप्तका मनुष्यास्त्रिशरीरा एवेत्यर्थः ॥ 'जे अपज्जता सुहुमपुढवी' त्यादिरिन्द्रियविशेषणश्चतुर्थो दण्डकः ॥ 'जे अपज्जन्त्ता सुहुमढवी 'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः पञ्चमः ॥ 'जे अपज्जत्ता सुमपुढवी' त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ६ ॥ एवमौदारिकादिशरीरवर्णादिभावविशेषणः सप्तमः ७॥ इन्द्रियवर्णादिविशेषणोऽष्टमः ८॥ शरीरेन्द्रियवर्णादिविशेषणो नवम इति अत एवाह - एते नव दण्डकाः ॥ ८/४१. मिश्रपरिणतेष्वप्येत एव नव दण्डका इति || अथ विस्रसापरिणतपुद्गलांश्चिन्तयति ८/ ४२. 'वीससापरिणया ण मित्यादि, एवं जहा पन्नवणापए' ति तत्रैवमिदं सूत्रं - 'जे रसपरिणया ते पंचविहा पन्नत्ता, तं जहा - तित्तरसपरिणया एवं कडुयकसाय अंबिलमहुररसपरिणया, जे फासपरिणया ते अट्ठविहा प० नं०-कक्खडफासपरिणया एवं मउयगरूयलहुयसीयउसिणनिद्धनुक्खफासपरिणया य इत्यादि ॥ अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह - ८ / ४३, ४४. 'एंगे' इत्यादि, मणपओगपरिणए' त्ति मनस्तया परिणतमित्यर्थः 'वइप्पयोगपरिणए' त्ति भाषाद्रव्यं काययोगेन गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए' त्ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते । ८/४५. 'सच्चमणे त्यादि सद्भूतार्थचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनः प्रयोग उच्यते, एवमन्येऽपि, नवरं मृषाअसद्भूतोऽर्थः सत्यमृषा मिश्रो यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा - सत्यमृषास्वरूप Jain Education International भगवती वृत्ति मतिक्रान्तो यथा देहीत्यादि । ८/४६. 'आरंभसच्चे' त्यादि, आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनः प्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमनारम्भो जीवानुपघातः 'सारंभ त्ति संरम्भो - वधसङ्कल्पः समारम्भस्तु परिताप इति । ८/४९-७२. 'ओरालिए' त्यादि, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वाद काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायप्रयोगः स तथा । अयं च पर्यासकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा । 'ओरालिय मिस्सासरीरकायप्पयोगपरिणय' त्ति औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् मिश्रं कार्म्मणेनेति औदारिकमिश्रं तदेवौदारिकमिश्रकं तल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्तत्तथा अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह 'जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥१॥' (उत्पत्त्यनन्तरं जीव: कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः (शरीरपर्याप्तिः) तावदौदारिक मिश्रेणाहारयति ॥ १ ॥ ) एवं तावत् कार्म्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्रित्य तस्य प्रधानत्वात् यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग एव वर्त्तमानः प्रदेशान विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद् वैक्रियशरीरपर्याप्त्या न पर्याप्तिं गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात्. एवमाहार केणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति, 'वेडव्वियसरीरकायप्पओगपरिणए' ति इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति । 'वेडव्वियमीसासरीरकायप्पओगपरिणए ति इह वैक्रियमिश्रकशरीरकायप्रयोगों देवनारकेषूत्पद्यमानस्यापर्यातकस्य, मिश्रता चेह वैक्रियशरीरस्य कार्मणेनैव. लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्वायामौदारिकोपादानाय प्रवृ वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति । आहारगसरीरकायप्पयोगपरिणए' ति हाहारकशरीरकायप्रयोग आहारकशरीरनिर्वृत्तौ सत्यां तदानी तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणए त्ति इहाहारकमिश्रशरीरकायप्रयोग आहारकस्यौदारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य । एतदुक्तं भवति यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy