________________
परिशिष्ट - ५
अभयदेवसूरि - कृता भगवती - वृत्ति
Jain Education International
सर्वज्ञमीश्वरमनन्तमसङ्गमग्र्यं, सर्व्वयमस्मरमनीशमनीहमिद्धम् । सिद्धं शिवं शिवकरं श्रीमज्जिनं जितरिपुं नत्वा श्रीवर्द्धमानाय, श्रीमते सर्वानुयोगवृद्धेभ्यो, वाण्यै
प्रयतः
एतट्टीकाचूर्णी
जीवाभिगमादिवृत्तिलेशांश्च ।
संयोज्य पञ्चमाङ्गं विवृणोमि विशेषतः किञ्चित् ॥ ३ ॥
करणव्यपेतं,
प्रणौमि ॥ १ ॥ सुधर्म्मणे ।
च
सर्वविदस्तथा ॥ २ ॥
अथ अष्टमशतकम्
प्रथम उद्देशकः
पूर्वे पुद्गलादयो भावाः प्ररूपिता । इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विव्रियते । तस्य चोद्देशसङ्ग्रहार्थं 'पुग्गले' त्यादिगाथामाहपोग्गल त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १. आसीविस' ति आशीविषादिविषयों द्वितीयः २ 'रुक्ख' त्ति संख्यातजीवादिवृक्षविषयस्तृतीयः ३ 'किरिय' त्ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः ४ 'आजीव' त्ति आजीविकवक्तव्यतार्थः पंचमः ५ 'फासुग' त्ति प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते' त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिणीय' त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः ८ 'बंध' त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः ९ 'आराहण' त्ति देशाराधनाद्यर्थो दशमः १० ॥
८/१. 'पओगपरिणय त्ति जीवव्यापारेण शरीरादितया परिणताः 'मीससापरिणय' त्ति मिश्रकपरिणताः - प्रयोगविस्रसाभ्यां परिणताः । प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता मुक्तकडेवरादिरूपाः, अथवौ दारिकादिवर्गणारूपा विस्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणैकेन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः । ननु
प्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेषः ?, सत्यं किन्तु प्रयोगपरिणतेषु विस्रसा सत्यपि न विवक्षिता इति । 'वीससापरिणय' त्ति स्वभावपरिणताः ।
अथ 'पओगपरिणयाण' - मित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान् निरूपयति, तत्र च
८/४.
एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिण तानां पुद्गलानां प्रथमो दण्डकः । तत्र च 'आउक्काइय- एगिदिय एवं चेव' त्ति पृथिवीकायिकै केन्द्रियप्रयोगपरिणता इव अप्कायिकैकेन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः एवं दुयओ' त्ति पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः - सूक्ष्मबादरविशेषणः कृतस्ते (स्तथा ते) जः कायिकैकेन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थ । ८/५. 'अणेगविह' त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां, त्रीन्द्रियप्रयोगपरिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां, चतुरिन्द्रियप्रयोगपरिणता अप्यनेकविधा एव मक्षिकामशकादि-भेदत्वात्तेषाम् । एतदेव सूचयन्नाह - ' एवं तेहंदी'
त्यादि ॥
'सुहुमपुढविकाइए' इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तका
For Private & Personal Use Only
www.jainelibrary.org