________________
भगवती वृत्ति
दारूणि यत्र स तथा तं सुसंविद्धचक्कमंडलधुरागं सुष्ठु संविद्धे चक्रे यत्र मण्डला च वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्मं' कालायसेन लोहविशेषेण सुष्ठु कृतं मे - चक्रमण्डलमालाया यंत्रकर्म - बंधनक्रिया यत्र स तथा तं 'आइण्णवरतुरयसुसंपउत्तं' जात्यप्रधानाश्वैः सुष्ठु संप्रयुक्तमित्यर्थः ' कुसलनरच्छेयसारहिसुसंपग्गहियं ' कुशलनररूपो यश्छेकसारथिः - दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तम्। 'सरसयबत्तीसयतोणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशतास्तैर्द्वात्रिंशता तोणैःशरधिभिः परिमण्डितो यः स तथा तं, सकंकडवडेंसगं सह कंकटैः – कवचैरवतंसैश्च - शेखरकैः शिरस्त्राणभूतैर्य: स तथा तं, सचावसरपहरणावरणभरियजोहजुद्धसज्जं' सह चापशरैर्यानि प्रहरणानि – खड्गादीनि आवरणानि चस्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च — युद्धप्रगुणो यः स तथा तं, 'चाउग्घंटं' 'आसरहं जुत्तामेव' त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यत इति । 'अयमेयारूवं' ति प्राकृतत्वादिदं एतद्रूपं वक्ष्यमाणरूपम् ॥
७ / १९८ 'सरिसए' त्ति सदृशक: - समान: 'सरित्तए' त्ति सदृशत्वक् 'सरिव्वए' त्ति सदृग्वयाः 'सरिसभंडमतोवगरणे' त्ति सदृशी भाण्डमात्रा — प्रहरणकोशादिरूपा उपकरणं च-कंकटादिकं यस्य स तथा 'पडिरहं' ति रथं प्रति।
७ / २०१ 'आसुरुत्ते ' त्ति आशु शीघ्रं रुप्तः - कोपोदयादिविमूढः 'रूप लुप विमोहने' इति वचनात् स्फुरितकोपलिंगो वा, यावत्करणादिदं दृश्यं 'रुट्ठे कुविए चंडिक्किए' त्ति तत्र रुष्टः उदितक्रोधः कुपित: प्रवृद्धकोपोदयः चाण्डिकितः सञ्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे' त्ति क्रोधाग्निना दीप्यमान इव एकार्थिका चैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं' ति पादन्यासविशेषलक्षणं 'ठाति' त्ति करोति 'आययकण्णाययं' ति आयत: - आकृष्टः सामान्येन स एव कर्णायतः - आकर्णमाकृष्ट आयत कर्णायतस्तम्।
७ / २०२ 'एगाहच्च' ति एका हत्या- हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति । 'कूडाहच्च' ति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधर्म्यादाहत्या — हननं यत्र तत् कूटाहत्यम्
७/२०३ 'अत्थामे' त्ति अस्थामा सामान्यतः शक्तिविकलः 'अबले' त्ति शरीरशक्तिवर्जितः 'अवीरिए' त्ति मानसशक्तिवर्जितः 'अपुरिसक्कारपरक्कमे' त्ति व्यक्तं नवरं पुरुषकार: पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः
५६३
Jain Education Intemational
श. ७ : उ. ९ : सू. १९५-उ.१०: सू. २१३ ‘अधारणिज्जं' त्ति आत्मनो धरणं कर्तुमशक्यं 'इतिकट्टु' त्ति इतिकृत्वा इतिहेतोरित्यर्थ: 'तुरए णिगिण्हइ' त्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतं' ति एकान्तं विजनं अन्तं भूमिभागं ।
७/२०४ 'सीलाई' ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाई' ति अहिंसादीनि 'गुणाई' ति गुणव्रतानि 'वेरमणाई' ति सामान्येन रागादिविरतय: 'पच्चक्खाणपोसहोववासाई' ति प्रत्याख्यानं – पौरुष्यादिविषयं पौषधोपवासः - पर्वदिनोपवासः
७/२०५ 'गीयगंधव्वनिनाए' त्ति गीतं गानमात्रं गन्धर्वं-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः - शब्दो गीत - गन्धर्वनिनादः ।
७/२०६ ‘कालमासे’ त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यम् ।
७ / २०६ 'कहिं गए कहिं उववण्णे' त्ति प्रश्नद्वये 'सोहम्मे' त्याद्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति ।
७/२०८ 'आउक्खणं' आयुः कर्मदलिकनिर्जरणेन 'भवक्खएणं' ति देवभवनिबंधनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खएणं' ति आयुष्कादिकर्म्मणां स्थितिनिर्जरणेनेति ।
॥ सप्तमशते नवमोद्देशकः ॥
दशम उद्देशक :
अनन्तरोद्देशके परमतनिरास उक्तो, दशमेऽपि स एवोच्यते, इत्येवं सम्बन्धस्यास्येदं सूत्रम्
-
७/२१२ 'ते' मित्यादि
७ / २१३ ' एगयओ समुवागयाणं' ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च सन्निविद्वाणं' ति उपविष्टानां उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह— 'सन्निसन्नाणं' ति संगततया निषण्णानां सुखासीनानामिति । यावत् 'अत्थिकाए' त्ति प्रदेशराशीन् 'अजीवकाए' त्ति अजीवाश्च — ते अचेतना: कायाश्च राशयोऽजीवकायास्तान् 'जीवत्थिकाय' मित्येतस्य स्वरूपविशेषणायाह— 'अरूविकाय' ति अमूर्तमित्यर्थः 'जीवकायं' ति जीवनं जीवोज्ञानाद्युपयोगस्तत्प्रधानः कायो जीवकायोऽतस्तम् कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदा
For Private & Personal Use Only
www.jainelibrary.org