________________
श.७: उ.९:सू.१७६-१९५
५६२
भगवती वृत्ति
गदंडनाय-गराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणग-दोवारियअमच्चचेडपीढमद्दणगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिपालसद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्थतारागणाण मज्झे ससिव्व पियदसणे नरवई मज्जणधराओ पडिनिक्खमइ जेणेव बाहिरिया उवट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छइ, ति तत्रानेके ये गणनायका:-प्रकृतिमहत्तरा: दण्डनायका:-तंत्रपाला: राजानो-माण्डलिका: ईश्वराः
-युवराजा: तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीया माण्डम्बिका:-छिन्नमडम्बाधिपाः कौटम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगका: मंत्रिण:-प्रतीता: महामंत्रिणो-मंत्रिमंडलप्रधानाः गणका:-ज्योतिषिका: भाण्डागारिका इत्यन्ये दौवारिका:-प्रतीहारा: अमात्या---राज्याधिष्ठायका: चेटा:-पादमूलिका पीठमर्दा:-आस्थाने आसनासीनसेवका: वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्रकृतयः निगमा:-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमांगा: सेनापतयो-नृपतिनिरूपितचतुरंगसैन्यनायकाः सार्थवाहा: प्रतीताः दूता—अन्येषां राजादेशनिवेदका: सन्धिपाला:राज्यसन्धिरक्षकाः एतेषां द्वन्द्वस्ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्य: ‘सद्धिं' ति सार्द्ध सहेत्यर्थः न केवलं तत्सहितत्वमेव अपि तु तैः समितिसमन्तात् परिवृत:
परिकरित इति। ७/१७७ 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन–हारावच्छादनेन
सुष्ठु कृतरतिकं वक्ष:-उरो यस्य स तथा 'जहा उववाइए' त्ति तत्र चैवमिदं सूत्रम्-पालंबपलंबमाणपडसुकयउत्तरिज्जे' इत्यादि तत्र प्रालम्बेन-दीर्घेण प्रलम्बमानेनझुम्बमानेन पटेन सुष्ठु कृतमुत्तरियं-उत्तरासंगो येन स तथा 'महया भडचडगरवंदपरिक्खित्ते' त्ति महाभटानां विस्तारवत्संघेन परिकरित इत्यर्थः। 'ओयाए' त्ति उपयात: उपागतः 'अभेज्जकवयं' ति परप्रहरणाभेद्यावरणं 'वइरपडिरूवर्ग' त्ति वज्रसदृशं “एगहत्थिणावि' ति एकेनापि गजेनेत्यर्थः
'पराजिणित्तए' त्ति परानभिभवितुमित्यर्थः। ७/१७८ 'हयमहियपवरवीरघाइयविवडियचिंघद्धयपडागे' त्ति हता:
प्रहारदानतो मथिता--माननिर्मथनत: प्रवरवीरा:-प्रधानभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजा:चक्रादिचिह्नप्रधानध्वजा: पताकाश्च तदन्या येषां ते तथा, तत: कर्मधारयोऽतस्तान् ‘किच्छपाणगए' त्ति कृच्छ्रगतप्राणान्-कष्टपतितप्राणानित्यर्थ: दिसो दिसिं ति दिश: सकाशादन्यस्यां दिशि अभिमतदिक्त्यागाद्दिगन्तराभि
मुखेनेत्यर्थः अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिक् तद्यथा भवत्येवं, 'पडिसेहित्थ' त्ति
प्रतिषेधितवान् युद्धान्निवर्तितवानित्यर्थः। ७/१७१ 'सारु?' ति संरुष्टाः मनसा 'परिकविय' त्ति शरीरे
समन्ताद्दर्शितकोपविकाराः 'समरवहिय' त्ति संग्रामे हताः। ७/१८२ 'रहमुसले' ति यत्र रथो मुशलेन युक्तः-परिधावन्
महाजनक्षयं कृतवान् असौ रथमुशलः ७/१८६ 'मग्गओ' त्ति पृष्ठतः 'आयसं' ति लोहमयं 'किढिण
पडिरूवगं' ति किठिनं वंशमयस्तापससम्बन्धी भाजन
विशेषस्तत्प्रतिरूपकं तदाकारं वस्तु। ७/१८८ 'अणासए' त्ति अश्वरहित: 'असारहिए' त्ति असारथिक:
'अणारोहए' त्ति अनारोहक: योधवर्जित: ‘महताजणक्खयं' ति महाजनविनाशं 'जणवहं' ति जनवधं जनव्यथां वा 'जणपमई' ति लोकचूर्णनं 'जणसंवट्टकप्पं ति जनसंवत
इव-लोकसंहार इव जनसंवर्तकल्पोऽतस्तम्। ७/१९० 'एगे देवलोगेसु उववण्णे एगे सुकुलपच्चायाए' त्ति
एतत्स्वभावत एव वक्ष्यति। ७/१९१ 'पूव्वसंगइए' त्ति कार्तिकश्रेष्ठ्यवस्थायां शक्रस्य कूणि
कजीवो मित्रमभवत् परियायसंगइए' त्ति पूरणता
पसावस्थायां चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति। ७/१९२ 'जण्णं से बहुजणो अपणमण्णस्स एवमाइक्खइर'
इत्यत्रैकवचनप्रक्रमे जे ते एवमांहसु 'इत्यत्र यो बहुवचननिर्देश: स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुण्णपावा' इत्यादि दृश्यम् 'पडिलाभेमाणे' त्ति इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे
विहरइ' इत्येवं दृश्यम्। ७/१९४ 'चाउग्घंट' ति घण्टाचतुष्टयोपेतम् 'आसरहं' त्ति अश्व
वहनीयं रथं 'जुत्तामेव' त्ति युक्तमेव रथसामग्र्येति गम्यम्। ७/१९५ 'सज्झय' मित्यत्र यावत्करणादिदं दृश्यं----सघंट सपडागं
सतोरणवरं सणंदिघोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिंकिणीकेन–क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानिहिमवगिरिजातानि चित्राणि--विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढो भवतीति तद्ग्रहणं कनकनियुक्तानि–नियुक्तकनकानि
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org