________________
भगवती वृत्ति
श.७: उ.९: सू.१७३-१७६
चेटकराजस्य वैशालीनगरनायकस्य साहाय्याय गणं कृतवन्त इति। अथ महाशिलाकण्टके संग्रामे चमरेण
विकुर्विते सति कूणिको। यदकरोत्तद्दर्शनार्थमिदमाह७/१७४ 'तए ण' मित्यादि, ततो महाशिलाकण्टकसंग्रामविकद्ध
णानन्तरम् उदाइंति उदायिनामानं 'हत्थिरायं' ति हस्तिप्रधानं 'पडिकप्पेह' त्ति सन्नद्धं कुरुत ‘पच्चप्पिणह' त्ति प्रत्यर्थयत
निवेदयतेत्यर्थः। ७/१७५ 'हट्ठट्ठ' इह यावत्करणादेवं दृश्यम्-'हट्ठतट्ठचित्त
माणंदिया नंदिया पीइमणा' इत्यादि। तत्र हृष्टतुष्टम्अत्यर्थं तुष्टं हृष्टं वा–विस्मितं तुष्टं च-तोषवच्चित्तंमनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमु-पगता:, ततश्च नन्दिता:-समृद्धितरतामुपगता: प्रीति:-प्रीणनम् आप्यायनं मनसि येषां ते प्रीतिमनस: 'अंजलिं कट्ट' त्ति, इदं त्वेवं दृश्यं—'करयलपरिगहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट' तत्र शिरसा अप्राप्तम्-असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः। ‘एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेति' त्ति एवं स्वामिन्! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा, तेन वचनं राज्ञः संबंधि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति। 'छेयायरिओवएसमइकप्पणाविगप्पेहिं त्ति छेको-निपुणो य आचार्य:-शिल्पोपदेशदाता तस्योपदेशाद् या मति:--- बुद्धिस्तस्या ये कल्पना-विकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योग: 'सुनिउणेहिं' ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः ‘एवं जहा उववाइए' त्ति तत्र चेदं सूत्रमेवम्-'उज्जलनेवत्थहव्वपरिवच्छियं' उज्ज्वलनेपथ्येन -निर्मलवेषेण 'हवं' ति शीघ्रं परिपक्षित:-परिगृहीत:
-परिवृतो यः स तथा तं, सुसज्जम् ७/१७६ 'वम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेज्जग
बद्धगलगवरभूसणविराइयं' वर्मणि नियुक्ता वार्मिकास्तै: सन्नद्धः-कृतसन्नाह वार्मिकसंनद्धः बद्धा कवचिका-- सन्नाहविशेषो यस्य स बद्धकवचिकः उत्पीड़ितागाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्य स तथा ग्रैवेयकं बद्धं गलके यस्य स तथा वरभूषणैर्विराजितो यः स तथा तत: कर्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरस ललियपलंबावचूलचामरोयरकयंधयारं' विरचिते वरकर्णरेप्रधानकर्णाभरण विशेषो यस्य स तथा सललितानि प्रलम्बानि अवचूलानि---यस्य स तथा चामरोत्करेण
कृतमन्धकारं यत्र स तथा तत: कर्मधारयोऽतस्तं 'चित्त१. सातौ स्फुरककण्टकादीनां......... क्वचितमपि
परिच्छोयपच्छयं' चित्तपरिच्छोको लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणभरियजुज्झसज्झ' बहूनां प्रहरणानामा-वरणानां च-स्फुरकककण्टकादीनां भृतो युद्धसज्जश्च य: स तथाऽतस्तं 'सछत्तं सज्झयं सघंट 'पंचामेलियपरिमंडियाभिराम' पंचभिरापीडिकाभि:-चूडाभिः परिमण्डितोऽभिरामश्च-रम्यो यः स तथाऽतस्तं 'ओसारियजमलज्यलघंट' अवसारितअवलम्बितं यमलयुगलंद्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना कालत्वाच्च गजस्य मेघसमतेति 'उप्पाइयपव्वयं व सक्खं' औत्पातिकपर्वतमिव साक्षादित्यर्थ: 'मत्तं मेहमिव गलगुलंतं' मणपवणजइणवेगं मन:पवनजयी वेगो यस्य स तथाऽतस्तं, शेषं तु लिखितमेवास्ति, वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति। 'कयबलिकम्मे' त्ति देवतानां कृतबलिका 'कयकोउयमंगलपायच्छित्ते' त्ति कृतानि कौतुकमंगलान्येव प्रायश्चित्तानीव दुःस्वप्ना दिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स तथा। तत्र कौतुकानि-~-मषीपुण्ड्रादीनि मंगलानि-सिद्धार्थकादीनि । 'सन्नद्धबद्धवम्मियकवए' त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो, वर्मितो वर्मतया कृतोऽगे निवेशनात् कवच:--कंकटो येन स तथा ततः कर्मधारयः। 'उप्पीलियसरासणपट्टिए' त्ति उत्पीडिता- गुणसारेण कृतावपीडा शरासनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा-बाहौ बद्धा शरासनपट्टिका - बाहुपट्टिका
येन स तथा, पिणद्धगेवेज्जविमलवरबद्धचिंधपट्टे 'त्ति पिनद्धं'-परिहितं ग्रैवेयकं-ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो–योधचिह्नपट्टो येन स तथा, ततः कर्मधारयः। 'गाहियाउहपहरणे' त्ति गृहीतानि आयुधानि-शस्त्राणि प्रहरणाय-परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्राणि खड्गादीनि, प्रहरणानि तु-क्षेप्यशस्त्राणि नाराचादीनि। ततो गृहीतान्यायुधप्रहरणानि येन स तथा 'सकोरेंटमल्लदामेणं' ति सह कोरेंटप्रधानै:--कोरिण्टकाभिधानकुसुमगुच्छर्माल्यदामभि:--पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे' त्ति चतुर्णां चामराणां वालैवींजितमंगं यस्य स तथा, 'मंगलजयसद्दकयालोए' त्ति मंगलो-मांगल्यो जयशब्द: कृतो-जनैविहित आलोके-दर्शने यस्य स तथा। ‘एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम्-'अणेगगणनाय
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org