________________
श.७: उ.८: सू.१६१-उ.९: सू.१७३
५६०
भगवती वृत्ति
क्रियैव संज्ञायतेऽनयेति लोकसंज्ञा, ततश्चौघसंज्ञा दर्शनोपयोगो लोकसंज्ञा तु ज्ञानोपयोग इति। व्यत्ययं त्वन्ये। अन्ये पुनरित्थमभिदधति—सामान्यप्रवृत्तिरोघसंज्ञा, लोकदृष्टिस्तु लोकसंज्ञा। एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पंचेन्द्रियानधिकृत्योक्ता एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्ध
नकोदयादिरूपा एवावगंतव्या इति। जीवाधिकारात्७/१६२ 'नेरइये' त्यादि 'परज्झ' त्ति पारवश्यम्। प्राग् वेदनोक्ता सा च
कर्मवशात् तच्च क्रियाविशेषात्। सा च महतामितरेषां च
समैवेति दर्शयितुमाह७/१६३ ‘से नूणं भंते! हत्थिस्से' त्यादि, अनन्तरविरतिरुक्ता सा च
संयतानामप्याधाकर्मभोजिनां कथंचिदस्तीत्यत: पृच्छति ७/१६५ 'अहे' त्यादि, 'सासए पंडिए पंडियत्तं असासयं' ति अयमर्थः
जीवः शाश्वत: पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति।।
।। सप्तमशते अष्टमोद्देशकः ।।
नवम उद्देशकः पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकेऽपि
तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम्७/१६७ 'असंवुडे ण' मित्यादि, 'असंवृतः' प्रमत्तः। ७/१६९-१७२ ‘इहगए' त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्द
वाच्यो मनुष्यलोकस्ततश्च ‘इहगतान्' नरलोकव्यवस्थितान् 'तत्थगए' त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अण्णत्थगए' त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं' ति अयं विशेष:-'इहगए' इति इहगत: अनगार इति इहगतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्तमिति। अनन्तरं पुद्गलपरिणामविशेष उक्तः, स संग्रामे सविशेषो भवतीति संग्रामविशेष
वक्तव्यता-भणनाय प्रस्तावयन्नाह७/१७३ ‘णायमेय' मित्यादि ज्ञातं सामान्यतः 'एतत्' वक्ष्यमाणं वस्तु
'अर्हता' भगवता महावीरेण सर्वज्ञत्वात् तथा 'सुयं' त्ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्। विज्ञातं विशेषतः, किं तत्? इत्याह—'महासिलाकंटए संगामे' त्ति महाशिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र 'तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स संग्रामो महाशिलाकण्टक
एवोच्यते। द्विवचनं चोल्लेखस्यानुकरणे। एवं च किलायं संग्राम: संजात:-चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकाभिधानगन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिकौ सान्त:पुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ, न च तेन प्रेषितौ, तत: कूणिकेन भाणितं-यदि न प्रेषयसि तौ तदा युद्धसज्जो भव, तेनापि भाणितम्-एष सज्जोऽस्मि, तत: कूणिकेन कालादयो दश स्वकीया भिन्नमातृता भ्रातरो राजानश्चेटकेन सह संग्रामायाहूता: तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिस्र: तिस्र: कोटयः कणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मीलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघबाणश्च सः। तत्र च कणिकसैन्ये गरुड़व्यूह':, चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कृणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम् , एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतौ, ततः शक्रो बभाण-चेटक: श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ संग्रामौ विकुर्वितवान्महाशिलाकण्टकं रथमुशलं चेति। 'जइत्थ' त्ति जितवान् 'पराजइत्थ' त्ति पराजितवान् हारितवानित्यर्थ: 'वज्जि' त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते' त्ति कोणिकः। एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ' त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छई' ति लेच्छकिनामानो राजाविशेषा एव 'कासीकोसलग' त्ति काशी-वाणारसी तज्जनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोपि कोशला तत्सम्बन्धिनो नव द्वितीया:। 'गणरायाणो' त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजा: सामन्ता इत्यर्थः। ते च तदानीं
१. क्वचित् तृणशलाकादिना शूका-अग्रभागः । २.ग्रन्थान ७०००।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org