________________
भगवती वृत्ति
५५९
श.७ : उ.८: सू.१५६-१६१
अष्टम उद्देशकः सप्तमोद्देशकस्यान्ते छामस्थिकं वेदनमुक्तमष्टमे त्वादावेव
छद्मस्थवक्तव्यतोच्यते, ७/१५६ 'छउमत्थे ण' मित्यादि, एतच्च यथा प्राग् व्याख्यातं तथा
द्रष्टव्यम् अथ जीवाधिकारादिदमाह७/१५८ 'से गुण' मित्यादि एवं जहा रायप्पसेणइज्जे ति, तत्र
चैतत्सूत्रमेवं - समे चेव जीवे, से णूणं भंते! हत्थीओ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए
चेव कुंथुओ हत्थी महाकम्मतराए चेव ........ हंता गोयमा! ७/१५९ 'कम्हा णं भंते! हत्थिस्स य कुंथुस्स स समे चेव जीवे?
गोयमा! से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा अहे णं केइ पुरिसे पईव च जोइं च गहाय तं कूडागारसालं अन्तो अन्तो अणुपविसेइ अणुपविसेइ तीसे कूडागारसालाए सव्वओ समंता घणनिचियनिरन्तरनिच्छिड्डाई दुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाए तं पईव पलीवेज्जा, से य पईवे कूडागारसालं अंतो अंतो ओभासति उज्जोएइ तवइ पभासेइ नो चेव णं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईव इड्डरेणं पिहेई, तए णं से पईवे इड्डरस्स अंतो अंतो ओभासेइ नो चेव णं इइरस्स बाहिं, एवं गोकिलंजएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवणं अद्धकुलवेणं चउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए, तए णं से परिसे तं पइवं दीवगचंपएणं पिहेइ, तए णं से पईवे तं दीवगचंपणयं अंतो अंतो ओभासइ नो चेव णं दीवगचंपणयस्स बाहिं नो चेव णं चउसट्ठियाए बाहिं जाव नो चेव णं कूडागारसालाए बाहिं, एवामेव गोयमा! जीवेवि जारिसियं पुवकम्मनिबद्धं बोदिं निव्वत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरेइ शेषं तु लिखितमेवास्ति। अस्य चायमर्थ:--कूटाकारेण–शिखराकृत्या युक्ताशाला कूटाकारशाला, 'दुहओ लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महद्गृहं प्रायो निवातं न भवतीत्यत आह—'निवायगंभीरा' निवातविशालेत्यर्थ: 'पईवं' तैलदशाभाजनं 'जोइं' ति अग्नि 'घणनिचयनिरन्तरनिच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा? इत्याह-घननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि
च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्राणि च नीरन्ध्राणि घननिचितनिरन्तरनिश्छिद्राणि 'इड्डेरेणं' ति गन्त्रीढञ्चनकेन 'गोकिलंजएणं' ति गोचरणार्थं महावंशभयभाजनविशेषेण डल्लयेत्यर्थ: 'गंडवाणियाए' त्ति ‘गण्डपाणिका' वंशमयभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते हल्लातो लघुतर: 'पच्छिपिडएणं' ति पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'चउब्भाइय' त्ति घटकस्यरसमानविशेषस्य चतुर्थभागमात्रो मानविशेष: 'अट्ठभाइया' तस्यैवाष्टमभागमात्रो मानविशेषः एव सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुष्पष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'दीवगचंपएणं' ति दीपकचंपकेन दीपाच्छादनेन कोशिकेनेत्यर्थः। एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यते इति।
जीवाधिकारादिदमाह७/१६० "नेरइयाण' मित्यादि 'सव्वे से दुक्खें' ति दुःखहेतुसंसारनिबन्ध
त्वाद् दु:खं 'जे निज्जिण्णे से सुहे' त्ति सुखस्वरूपमोक्षहेतुत्वाद्यनिर्जीर्णं कर्म तत्सुखमुच्यते। नारकादयश्च संज्ञिन इति
संज्ञा आह७/१६१ कति ण' मित्यादि, तत्र संज्ञानं संज्ञा-आभोग इत्यर्थः
मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति संज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा-'आहारसन्ने' त्यादि, तत्र क्षुवेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया इत्याहारसंज्ञा', तथा भयमोहनीयोदयाद् भयोद्भ्रान्तदृष्टिवचनविकाररोमाञ्चो दादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदाधुदयान्मैथुनाय स्त्र्याधंगालोकनप्रसन्नवदनसंस्तम्भितोरूवेपथुप्रभृतिलक्षणा क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात्प्रधानभव-कारणाभिष्वंगपूर्विका सचित्तेतरद्रव्योपादनक्रियैव संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहंकारात्मिकोत्सेकक्रियैव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसंभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयाल्लोगसमन्विता सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायते वस्त्वनयेति ओघसंज्ञा, एवं शब्दाद्यर्थगोचराविशेषावबोध
१. सप्रतौ तद्वम्नित्याहारसंज्ञा ........
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org