________________
श.७: उ.७ : सू.१३३-१५४
५५८
भगवती वृत्ति
७/१३४ ‘जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्त
त्वात् , 'अजीवावि भोग' त्ति अजीवद्रव्याणां विशिष्टगन्धादि
गुणोपेतत्वादिति। ७/१४५ ‘सव्वत्थोवा कामभोगि' त्ति ते हि चतुरिन्द्रिया: पञ्चेन्द्रियाश्च
स्युस्ते च स्तोका एव, 'नो कामी नो भोगि' त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, 'भोगि' त्ति एकद्वित्रीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगणत्वादिति। भोगाधिकारा
दिदमाह७/२४६ 'छउमत्थे ण' मित्यादि सूत्रचतुष्टयम्। तत्र च 'से नूणं भंते!
से खीणभोगि' त्ति 'से' ति असौ मनुष्य: नूनं निश्चितं भदन्त! 'से' 'ति अर्थार्थः। अथ शब्दश्च परिप्रश्नार्थः ‘खीणभोगि' त्ति भोगो जीवस्य यत्रास्ति तद्भोगि—शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इति यावत् । ‘णो पभु' त्ति न समर्थ: ‘उट्ठाणेणं' ति ऊर्वीभवनेन 'कम्मेणं' ति गमनादिना ‘बलेणं' ति देहप्राणेन 'वीरिएणं' ति जीवबलेन 'पुरिसक्कारपरक्कमेणं' ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थ: 'भोगभोगाई' ति मनोज्ञशब्दादीन् 'से नूणं भंते! एयमटुं एवं वयह' अथ निश्चितं भदन्त! एतम्-अनन्तरोक्तमर्थमेवम्-अमुनैव प्रकारेण वदथ यूयं? इति प्रश्न: पृच्छतोऽयमभिप्राय:-यद्यसौ न प्रभुस्तदासौ भोगभोजनासमर्थत्वान्न भोगी अत एव न भोगत्यागीत्यत: कथं निर्जरावान्? कथं वा देवलोकगमनपर्यवसानोऽस्तु? उत्तरं तु 'नो इणढे समढे' त्ति, कस्माद्? यत: 'पभू णं से' त्ति स क्षीणभोगी मनुष्य: 'अण्णतराई' ति एकतरान् कांश्चित्क्षीणशरीरसाधूचितानैवं उचितभोगमुक्तिसमर्थत्वाद्भोगित्वं तत्प्रत्याख्याच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि
च देवलोकगतिरिति। ७/१४७ 'आहोहिए 'ण' ति आधोऽवधिक: नियतक्षेत्रविषयावधिज्ञानी। ७/१४८ ‘परमाहोहिए णं' ति परमाधोऽवधिज्ञानी, अयं च चरमशरीर
एव भवतीत्यत आह७/१४८ 'तेणेव भवग्गहणेणं सिज्झित्तए' इत्यादि।
अनन्तरं छट्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानि
वक्तव्यतोच्यते७/१५० 'जे इमे' इत्यादि ‘एगइया तस' त्ति एके केचन न सर्वे
संमूर्छिमा इत्यर्थः। अंध चित्त अन्धा इवान्धा-अज्ञाना:
'मूढ' त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यते 'तमं पविट्ठ' त्ति तमः प्रविष्टा इव तम:प्रविष्टाः, 'तमपडलमोहजालपडिच्छन्न' ति तम:पटलमिव तम:पटलं— ज्ञानावरणं मोहोमोहनीयं । तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना आच्छादिता येते तथा 'अकामनिकरणं' ति अकामो-वेदनानुभवेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणं अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं वेदनां सुख:दुखरूपां वेदनं वा-संवेदनं वेदयन्ति अनुभवन्तीति ।
अथासंज्ञिविपक्षमाश्रित्याह७/१५१ 'अत्थी' त्यादि, अस्त्ययं पक्षो यदुत ‘पभूवि' त्ति प्रभुरपि
संज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसंज्ञित्वेनाप्रभुरित्यपिशब्दार्थ: 'अकामनिकरणं' अनिच्छाप्रत्ययमनाभोगात्। अन्ये त्वाह:- अकामेन अनिच्छया निकरणं क्रियाया -इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा
भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु७/१५२ 'जे णं' ति यः प्राणी संज्ञित्वेनोपायसदभावेन च हेयादीनां
हानादौ समर्थोऽपि 'नो पहु' त्ति न समर्थो विना प्रदीपेनान्धकारे रूपाणि ‘पासित्तए' त्ति द्रष्टुं, एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः। 'पुरओ त्ति अग्रत: 'अणिज्झाएत्ता णं' ति अनिद्ध्याय चक्षुरव्यापार्य 'मग्गओ' त्ति पृष्ठत: 'अणवयक्खित्ता णं' ति अनवेक्ष्य पश्चाद् भागमनवलोक्येति। अकामनिकरणं वेदना
वेदयतीत्युक्तम्। अथ तद्विपयर्यमाह७/१५३ 'अत्थि ण' मित्यादि प्रभुरपि संज्ञित्वेन रूपदर्शनसमर्थोऽपि।
'पकामनिकरणं' ति प्रकाम:-ईप्सितार्थाप्राप्तित: प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः। स एव निकरणं-कारणं यत्र वेदने तत्तथा। अन्ये त्वाहुः- प्रकामे—तीव्राभिलाषे सति प्रकामं वा अत्यर्थं निकरणम्-इष्टार्थसाधकक्रियाणामभावो यत्र तत् प्रकामनिकरणं
तद्यथा भवतीत्येवं वेदनां वेदयतीति प्रश्नः। उत्तरं त् ७/१५४ 'जे ण' मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे
सत्यपि तथाविधशक्तिवैकल्यात्, अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं, स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति।
।। सप्तमशते सप्तमोद्देशकः ।।
१. सातौ अयमथार्थ: क्वचितमपि २. अप्रतौ साधूत्तितानैव चोचित ३. अ. स. प्रतौ तमः पटलं मोहो मोहनीय ... ४. सप्रतौ-अनिाय ........ क्वचितमपि
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org