________________
भगवती वृत्ति
५५७
श.७: उ.६: सू.११७-उ.७: सू.१३३
त्ति मधुभोजिन: भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहारा:। 'कुणिमाहारे' ति कुणपः-शवस्तद्रसोऽपि वसादिः कणपस्तदाहाराः। ते णं' ति ये तदानी क्षीणावशेषाश्चतुष्पदाः
केचन भविष्यन्ति। ७/१२२ 'अच्छ' त्ति ऋक्षा: 'तरच्छ' त्ति व्याघ्रविशेषाः। 'परस्सर' त्ति
शरभा:, ७/१२३ 'ढंक' त्ति काका: 'मद्दुग' त्ति मद्गवो-जलवायसा: 'सिहि' त्ति मयूराः।
॥ सप्तमशते षष्ठोद्देशकः ॥
भावत्वादविभक्ताश्च-भोजनविशेषरहिता ये ते तथा, दुर्बलाबलहीनाः, कुसंहनना–सेवार्तसंहनना: कुप्रमाणा:-प्रमाणहीना: कुसंस्थिता:-दुसंस्थाना: तत एषां 'टोलगे' त्यादिपदानां कर्मधारयः, अतएव 'कुरूव' त्ति कुरूपाः 'कुट्ठाणासणकुसेज्जकुभोइणो' त्ति कुत्सिताश्रयविष्टरदुःशयनदुभोंजना: 'असुइणो' ति अशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्। अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविब्भलगति' त्ति खलन्ती-स्खलन्ती विह्वला च -अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्ठानट्ठतेय' त्ति विकृतचेष्टानष्टतेजसश्चेत्यर्थ: 'सीए' त्यादि शीतेनोष्णेन खरपरुषवातेन 'च विज्झडिय' 'त्ति मिश्रितं व्याप्तमित्यर्थ: मलिनं च पांशुरूपेण रजसा द्रव्यरसजेत्यर्थः 'उग्गुंडियं' ति उद्धलित च अंगं अंगं येषां ते तथा 'असुह-दुक्खभागि' त्ति दु:खानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं' ति बाहुल्येन। 'धम्मसण्ण' त्ति धर्मश्रद्धाऽवसन्ना गलिता सम्यक्त्वभ्रष्टा रयणिपमाणमेत्तं' त्ति रत्ने:-हस्तस्य यत्प्रमाणम्-अंगुलचतुर्विंशतिलक्षणं तेन मात्रा---परिमाणं येषां ते रत्निप्रमाणमात्रा: 'सोलसवीसइवासपरमाउसो' त्ति इह कदाचित् षोडश वर्षाणि, कदाचिच्च विंशतिर्वर्षाणि परमायुर्वेषां ते तथा 'पुत्तनतुपरियालपणयबहुल' त्ति पुत्रा:-सुता: नप्तार:-पौत्रा दौहित्राश्च एतल्लक्षणो य: परिवारस्तत्र यः प्रणयः-स्नेह : स बहुलो-बहुर्येषां ते, तथा पाठान्तरे ‘पुत्तनत्तुपरिपालणबहुल' त्ति तत्र च पुत्रादीनां परिपालनं बहुलं बाहुल्येन येषां ते, तथा अनेन अल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ताऽल्पेनापि कालेन यौवनसद्भावादिति। 'निस्साए' ति निश्राय—निश्रां कृत्वेत्यर्थः 'निओय' त्ति निगोदा:-कुटुम्बानीत्यर्थः। 'बीयं' ति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् 'बीयमेत्त' ति बीजस्येव मात्रा-परिमाणं
येषां ते बीजमात्रा: स्वल्पा: स्वरूपत इत्यर्थः।। ७/१२० 'रहपह' त्ति रथपथ:-शकटचक्रद्वयप्रमितो मार्गः
'अक्खसोयप्पमाणमेत्त' ति अक्षश्रोत:-चक्रधुरः प्रवेशरन्ध्र तदेव प्रमाणमक्षश्रोत:प्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथा 'वोज्झिहिंति' वक्ष्यतः। 'आउबहुले' त्ति बहप्कायमित्यर्थः 'निद्धाहिति' त्ति निर्धाविष्यन्ति निर्गमिष्यन्ति: 'गाहेहिंति' ति 'ग्राहयिष्यन्ति' प्रापयिष्यन्ति स्थलेषु
स्थापयिष्यन्तीत्यर्थ 'वित्तिं कप्पेमाणे' ति जीविकां कुर्वन्तः। ७/१२१ निस्सील' त्ति महाव्रताणुव्रतविकला: 'निग्गुण' त्ति
उत्तरगुणविकला: 'निम्मेर' त्ति अविद्यमानकुलादिमर्यादा: 'निपच्चक्खाणपोसहोववास' त्ति असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः 'ओसन्नं' ति प्रायो मांसाहारा:, कथम्? इत्याह-मत्स्याहारा यतः, तथा 'खोद्दाहार'
सप्तम उद्देशकः अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, स चासंवृतानां, अथैतविपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देशके
आह७/१२५ 'संवुडे' त्यादि। संवृतश्च कामभोगानाश्रित्य भवतीति
कामभोगप्ररूपणाय। ७/१२७ 'रूवी' त्यादि सूत्रवृन्दमाह-तत्र रूपं—मूर्तता तदस्ति येषां
ते रूपिणः तविपरीतास्त्वरूपिण काम्यन्ते—अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यंते ये ते कामा:मनोज्ञाः शब्दा: संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा
नो अरूपिणः, पुद्गल- धर्मत्वेन तेषां मूर्तत्वादिति, ७/१२८ 'सचित्ते' त्यादि सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया।
अचित्ता अपि कामा भवंति शब्दद्रव्यापेक्षयाऽसंज्ञि
जीवशरीररूपापेक्षया चेति ७/१२९ 'जीवे' त्यादि, जीवा अपि कामा भवन्ति, जीवशरीररूपापेक्षया,
अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपा
पेक्षया चेति। ७/१३० 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति, कामहेतुत्वात्,
अजीवानां न कामा भवन्ति तेषां कामासंभवादिति। ७/१३२ 'रूवि' मित्यादि, भुज्यन्ते—शरीरेण उपभुज्यन्ते इति भोगा:
विशिष्टगंधरसस्पर्शद्रव्याणि। 'रूवि भोग' त्ति रूपिणो भोगा
नो अरूपिण: पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति। ७/१३३ 'सचित्ते' त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादि
प्रधानजीवशरीराणां केषांचित्समनस्कत्वात्, तथा अचित्ता अपि भोगा भवन्ति केषांचिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org