________________
श.७ : उ.६: सू.११७-११९
५५६
भगवती वृत्ति
जला इत्यर्थ: 'असणिमेह' त्ति करकादिनिपातवन्तः। पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः। 'अपिवणिज्जोदग' त्ति अपातव्यजला: अजवणिज्जोदए' त्ति क्वचिद् दृश्यते तत्रायापनीयं—न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः। 'बाहिरोगवेदणोदीरणापरिणामसलिल' त्ति व्याधय:-स्थिरा: कृष्ठादयो रोगा:-सद्योघातिन: शूलादयस्तज्जन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा। तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञापनीयकाः। 'चंडानिलपहयतिक्खधारानिवायपउरं' ति चण्डानिलेन प्रहतानां तीक्ष्णानां वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं' ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयं' ति मनुष्यलोकं 'चउप्पयगवेलए' त्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गाव: एलकशब्देन तु उरभ्राः। 'खहयरे' त्ति खेचरांश्च कान्? इत्याह-'पक्खिसंघे' त्ति पक्षिसंघातान् तथा 'गामारण्णपयारनिरए' त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता ये ते तथा तान्, कान्? इत्याह-'तसे पाणे बहुप्पयारे' त्ति द्वीन्द्रियादीनित्यर्थः। ‘रुक्खे' त्यादि, तत्र वृक्षा:-चूतादय: गुच्छा-वृन्ताकीप्रभृतयः गुल्मा-नवमालिकाप्रभृतयः, लता -अशोकलतादयः, वल्ल्यो:-वालुंकीप्रभृतयः तृणानिवीरणादीनि, पर्वगा- इक्षुप्रभृतयः, हरितानि-दूर्वादीनि, औषध्य:--- शाल्यादय: प्रवाला:-पल्लवांकुराः, अंकुरा:शाल्यादिबीजसूचयः। ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः। कानेवंविधान्? इत्याह—'तणवणस्सइकाइए' त्ति बादरवनस्पतीनित्यर्थः 'पव्वए' त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्य:। तथाहि पर्वतननात्-उत्सवविस्तारणात्पर्वता:-क्रीडापर्वता उज्जयन्तवैभारादयः। गृणन्ति-शब्दायंते जननिवासभूतत्वेनेति गिरय:--गोपालगिरिचित्रकूटप्रभृतयः, डुंगानां-शिलावृन्दानां चौरवृन्दानां चास्तित्वात्, डुंगरा:-शिलोच्चयमात्ररूपाः ‘उत्थल' त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्रयरूपाण्युत्स्थलानि, क्वचिदुच्छब्दो न दृश्यते ‘भट्ठि' त्ति पादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ते आदिर्येषां ते तथा तान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिति' ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिनिर्झरा गर्ताश्चश्वभ्राणि दुर्गाणि च-खातवलयप्राकारादिदुर्गमाणि, विषमाणि च विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि
द्वन्द्वोऽतस्तानि। ७/११८ 'तत्तसमजोइभूय' त्ति तप्तेन-तापेन समा:-तल्या: ज्योतिषा
वह्निना भूता-जाता या सा तथा 'धूलीबहुले' त्यादौ धूली:पांशुः रेणुः–वालुका पंक:- कर्दमः पनक:--प्रत्तल: कर्दमविशेष:। चलनप्रमाण: कर्दमश्चलनीत्युच्यते, 'दुन्निक्कम'
त्ति दुःखेन नितरां क्रम:-क्रमणं यस्यां सा दुर्निक्रमा। ७/११९ 'दुरूव' ति दुःस्वभावा 'अणाएज्जवयणपच्चायाए' त्ति
अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे' त्यादौ कूटं- भ्रान्तिजनकद्रव्यं, कपट-वञ्चनाय वेषान्तरादिकरणम् 'गुरुनिओगविणयरहिया य' त्ति गुरुषुमात्रादिषु नियोगेन–अवश्यंतया यो विनयस्तेन रहिता ये ते तथा, च समुच्चये 'विकलरूव' त्ति असम्पूर्णरूपाः। 'खरफरुसज्झामवण्ण' त्ति खरपरुषा: स्पर्शतोऽतीवकठोरा:, ध्यामवर्णा-अनुज्ज्वलवर्णास्तत: कर्मधारय: ‘फुट्टसिर' त्ति विकीर्णशिरोजा इत्यर्थः ‘कविलपलियकेस' त्ति कपिला: पलिताश्च-शुक्ला: केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुईसणिज्जरूव' त्ति बहुस्नायुभिः संपिनद्धं-बद्धं अत एव दुःखेन दर्शनीयं रूपं येषां ते तथा, 'संकुडियवलीतरंगपरिवेढियंगमंगा' संकुटितं वलीलक्षणतरंगैः परिवेष्टितं चांगं येषां ते तथा क इव? इत्यत आह-'जरापरिणयव्व थेरयणर' त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'पविरलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषांचित्पतितत्वेन भग्नत्वेन वा दन्तश्रेणिर्येषां ते तथा, 'उब्भडघडमुह' त्ति उद्भटं-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उन्भडघाडामुह' त्ति क्वचित् तत्र उद्भटे स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह' त्ति वंकं-वक्रं पाठान्तरेण व्यङ्ग-सलाञ्छनं वलिभिर्विकृतं च बीभत्सं भेषणं-भयजनक मुखं येषां ते तथा 'कच्छूकसराभिभूया' कच्छू:- पामा तया कशरैश्च-खशरैरभिभूता-व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडुइयविक्खयतण' त्ति खरतीक्ष्णनखानां कण्डूयितेन विकृता-कृतव्रणा तनु:-शरीरं येषां ते तथा, 'दकिडिभसिंझफुडियफरुसच्छवि' त्ति दद्रुकिडिभसिध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छवि:शरीरत्वग् येषां ते तथा, अतएव 'चित्तलंग' त्ति कर्बुरावयवाः टोले त्यादि, टोलगतयः-उष्ट्रादिसमप्रचारा: पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः। विषमाणि ह्रस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धना: उत्कुटुकानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत्कुटुकास्थितास्तथास्व
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org