________________
भगवती वृत्ति
५५५
श.७: उ.५:सू.९९-उ.६:सू.११७
एतदन्तसूत्रं त्वेवम्-'अत्थि णं भंते! विमाणाई विजयाई वेजयंताई जयंताई अपराजियाइं? हंता अत्थि, ते णं भंते! विमाणा केमहालया पण्णत्ता? गोयमा! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अस्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाइं नव उवासंतराइं अत्थेगइयस्स देवस्स एगे विक्कमे सिया से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगईए वीईवयमाणे वीईवयमाणे जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्ज, त्ति, शेषं तु लिखितमेवास्ते एतदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति। वाचनान्तरेत्विदं दृश्यते"जोणिसंगहलेसा दिट्ठी णाणे य जोग उवओगे। उववायठिइसमुग्घायचवणजाईकुलविहीओ।" तत्र योनिसंग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दर्श्यन्तेएषां लेश्या: षड् दृष्टयस्तिस्र: ज्ञानानि त्रीणि आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः। उपयोगौ द्वौ उपपात: सामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्तादिका पल्योपमासंख्येयभागपर्यवसाना समुद्घाता: केवल्याहारकवर्जा: पंच तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्ति।
।। सप्तमशते पञ्चमोद्देशकः ॥
७/११४ 'अदुक्खणयाए' त्ति दु:खस्य करणं दु:खनं तदविद्यमानं
यस्यासावदुःखनस्तद्भावस्तत्ता तया अदु:खनतया अदु:खकरणेनेत्यर्थः, एतदेव प्रपञ्च्यते-'असोयणयाए' त्ति दैन्यानुत्पादेन। 'अजूरणयाए' त्ति शरीरापचयकारिशोकानुत्पादनेन। 'अतिप्पणयाए' त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए' त्ति यष्ट्यादिताडनपरिहारेण। 'अपरियावणयाए' त्ति शरीरपरितापानुत्पादनेन।
दुःखप्रस्तावादिदमाह७/११७ 'जंबुद्दीवे ण' मित्यादि 'उत्तमकट्ठपत्ताए' त्ति परमकाष्ठाप्राप्तायां,
उत्तमावस्थायां गतायामित्यर्थः। परमकष्टप्राप्तायां वा। 'आगारभावपडोयारे' त्ति आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतारोऽवतरणम् आकारभावप्रत्यवतार: 'हाहाभूए' त्ति हाहाइत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः स हाहाभूतः। 'भंभाभूए' त्ति भां भा इत्यस्य शब्दस्य दुःखार्तगवादिभि: करणं भंभोच्यते तद्भूतो यः स भंभाभूत। भम्भा वा-भेरी सा चान्तः शून्या ततो भम्भेव य: कालो जनक्षयाच्छ्न्यः स भम्भाभूत उच्यते। 'कोलाहलभूए' त्ति कोलाहल इहार्तशकुनिसमूहध्वनिस्तं भूत:
-प्राप्त: कोलाहलभूतः। 'समयसमाणुभावेण य णं' ति कालविशेषसामर्थ्येन च णमित्यलंकारे 'खरफरुसधूलिमइल' त्ति खरपरुषा:-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुविसह' ति दुःसहा 'वाउल' त्ति व्याकुला असमंजसा इत्यर्थः 'संवट्टय' त्ति तृणकाष्ठादीनां संवर्तकाः ‘इह' त्ति अस्मिन् काले 'अभिक्खं' त्ति अभीक्ष्णं 'धूमाहिति य दिसं' ति धूमायिष्यन्ते च–धूममुद्वमिष्यन्ति दिश: पुन: किंभूतास्ता:? इत्याह-'समंता रउस्सल' त्ति समन्तात्-सर्वतो रजस्वलारजोयुक्ता अत एव 'रेणुकलुसतमपडलनिरालोगा' रेणुनाधूल्या कलुषा–मलिना रेणुकलुषा: तमपटलेन-अन्धकारवन्देन निरालोका:-निरस्तप्रकाशो निरस्तदृष्टिप्रसरा वा तम:पटलनिरालोका: ततः कर्मधारयः ‘समयलुक्खयाए णं' कालरूक्षतया चेत्यर्थ: ‘अहिय' न्ति अधिकम् 'अहितं वा' अपथ्यं। 'मोच्छंति' त्ति मोक्ष्यन्ति स्रक्ष्यन्ति 'अदुत्तरं च' त्ति अथापरं च 'अरसमेह' त्ति अरसा-अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा 'विरसमेह' त्ति विरुद्धरसा मेघाः एतदेवाभिव्यज्यते-'खारमेह' त्ति सर्जादिक्षारसमानरसजलोपेतमेघा: 'खत्तमेह' त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह' ति क्वचिदृश्यते तत्राम्लजला इत्यर्थः। 'अग्गिमेह' त्ति अग्निवद्दाहकारिजला इत्यर्थः। 'विज्जमेह' त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः। विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा, "विसमेह' ति जनमरणहेतु
षष्ठ उद्देशकः अनन्तरं योनिसंग्रहादिरर्थ उक्तः, स चायुष्मतां भवतीत्या
युष्कादिनिरूपणार्थ: षष्ठ७/१०३ तत्र च 'एगंतदुक्खं वेयणं' ति सर्वथा दुःखरूपां वेदनीय
कर्मानुभूतिम् 'आहच्च सायं' ति कदाचित्सुखरूपां नरक
पालादीनामसंयोगकाले, ७/१०४ ‘एगंत सायं' ति भवप्रत्ययात् 'आहच्च असायं' ति
प्रहाराद्युपनिपातात्। ७/१०७ 'कक्कसवेयणिज्जाकम्म' त्ति कर्कशैः-रौद्रदुःखैवेद्यते यानि
तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति।। ७/११० 'अक्ककसवेयणिज्जे' त्ति अकर्कशेन–सुखेन वेद्यन्ते यानि
तान्यकर्कशवेदनीयानि भरतादीनामिव। ७/१११ 'पाणाइवायवेरमणेण' ति संयमेनेत्यर्थः। नारकादीनां तु
संयमाभावात्तदभावोऽवसेयः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org