________________
श.७ : उ.३ : सू.६६-उ.५: सू.९९
५५४
भगवती वृत्ति
भेदा येषां ते तथा ते सत्वा येषु ते तथा।
जीवाधिकारादेवेदमाह७/६७ 'सिय भंते! कण्हलेसे नेरइए' इत्यादि, ७/६८ 'ठिति पडुच्च' त्ति अत्रेयं भावना-सप्तमपृथिवीनारकः
कृष्णलेश्यस्तस्य च स्वस्थितौ बहक्षपितायां तच्छेषे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थिति रको नीललेश्य: समुत्पन्नः। तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते,
एवमुत्तरसूत्राण्यपि भावनीयानि। ७/७१ 'जोइसियस्स न भण्णई' त्ति एकस्या एव तेजोलेश्यायास्तस्य
सद्भावात् संयोगो नास्तीति। सलेश्या जीवाश्च वेदनावन्तो
भवन्तीति वेदनासूत्राणि७/७५ 'कम्मं वेयण' त्ति उदयं प्राप्तं कर्म वेदना धर्मधर्मिणोर
भेदविवक्षणात, 'नो कम्मं निज्जरे' त्ति काभावो निर्जरा तस्या एवंस्वरूपत्वादिति। 'नो कम्मं निज्जरेंसु' त्ति वेदितरसं कर्म नोकर्म तन्निजरितवन्तः, कर्मभूतस्य कर्मणो निर्जरणासंभवादिति। पूर्वकृतकर्मणश्च वेदना तद्वतां च कथञ्चिच्छाश्वतत्वे सति युज्जते इति। तच्छाश्वतत्वसूत्राणि,
तत्र च ७/९४ 'अव्वोच्छित्तिणयट्ठयाए' त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यव
च्छित्तिनयस्तस्याथों-द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्तत्ता तयाऽव्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः 'वोच्छित्तिणयट्ठयाए' त्ति व्यवच्छित्तिप्रधानो यो नयस्तस्य योऽर्थः पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तथा पर्यायानाश्रित्य अशाश्वता नारका इति।
॥ सप्तमशते तृतीयोद्देशक : ॥
तंजहा–समत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव सम्मत्ते' त्यादि। वाचनान्तरे त्विदं दृश्यते
"जीवा छव्विह पुढवी जीवाण ठिती भवट्ठिती काए।
निल्लेवण अणगारे किरिया सम्मत्त मिच्छते त्ति ।" तत्र च षड्विधा जीवा दर्शिता एव, ‘पुढवि' त्ति षड्विधा बादरपृथ्वी श्लक्ष्णा, शुद्धा, वालुका मनःशिला शर्करा खरपृथिवीभेदात्। तथैषामेव प्रथिवीभेदजीवानां स्थितिरन्तर्मुहूर्त्तादिका यथायोगं द्वाविंशतिवर्षसहस्रान्ता वाच्या। तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता। तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका। तथा निर्लेपना वाच्या, सा चैवं--प्रत्युत्पन्नपृथिवीकायिका: समयापहारेण जघन्यपदेऽसंख्याताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते। एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसंख्येयगुणमित्यादि। 'अणगारे' ति अनगारवक्तव्यता वाच्या, सा चेयम्अविशुद्धलेश्याऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति? नायमर्थ? इत्यादि। 'किरियासम्मत्त मिच्छत्ते' त्ति एवं दृश्यम्। अन्ययूथिका एवमाख्यान्तिएको जीव एकेन समयेन द्वे क्रिये प्रकरोति, सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति।
।। सप्तमशते चतुर्थोद्देशक :।।
चतुर्थ उद्देशकः तृतीयोद्देशके संसारिण: शाश्वतादिस्वरूपतो निरूपिताश्च
तुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह७/९७ 'कतिविहा ण' मित्यादि ‘एवं जहा जीवाभिगमे' ति एवं च
तत्रैतत्सूत्रम्'-पुढविकाइया जाव तसकाइया, से किं तं पुढविकाइया? पुढविकाइया दुविहा पण्णत्ता, तंजहासुहमपुढविकाइया बायरपुढवीकाइया' इत्यादि, अन्त: पुनरस्य–'एगे जीवे एगेणं समएणं एक्कं किरियं पकरेइ,
पंचम उद्देशकः चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे त तविशेषाणामेव
योनिसंग्रहं भेदत आह७/९९ ‘खहयरे' त्यादि ‘जोणीसंगहे' त्ति योनिः- उत्पत्तिजीवस्य
तया संग्रहः-अनेकेषामेक शब्दाभिलाप्यत्वं योनिसंग्रह: 'अंडय' त्ति अण्डाज्जायन्ते अण्डजा:--हंसादय: 'पोयय' त्ति पोतबद्वस्त्रवज्जरायुवर्जिततया शुद्धदेहा योनिविशेषाज्जाता: पोतादिव वा उपस्थाज्जाता: पोता इव वा वस्त्रसंमार्जिता इव जाता: पोतजाः वल्गुल्यादयः 'समुच्छिम' त्ति संमूच्छेनयोनिविशेषधर्मेण निर्वृत्ताः संमूर्च्छिमा:-वहिकादयः ‘एवं जहा जीवाभिगमे' त्ति एवं च तत्रेतत्सूत्रम्-'अंडया तिविहा पण्णत्ता, तंजहा-इत्थी, पुरिसा, नपुंसया, एवं पोययावि, तत्थ णं जे ते संमूच्छिमा ते सव्वे नपुंसगा' इत्यादि,
१. क्वचित उत्पत्तिहेतुर्जीवस्य २. अप्रतौ योनिस्थानाज्जाता:। क्वचितमपि - बोहित्थाज्जाता:
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org