________________
भगवती वृत्ति
५५३
श.७: उ.२: सू.४०-उ.३:सू.६६
७/५९ ‘दव्वट्ठयाए' त्ति जीवद्रव्यत्वेनेत्यर्थः। 'भावट्ठयाए' त्ति
नारकादिपर्यायात्वेनेत्यर्थः।
॥ सप्तमशते द्वितीयोद्देशकः ॥
लभ्यन्ते। ते च मधुमांसादिविचित्राभिग्रहवशाबहुतरा भवन्तीति कृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भ्योऽसंख्यातगुणत्वं भवति, अतएवाह---'उत्तरगुणपच्चक्खाणी असंखेज्जगुण' त्ति 'अपच्चक्खाणी अणंतगुण' त्ति मनुष्यपंचेन्द्रियतिर्यंच एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव वनस्पति-प्रभृतिकत्वात्तेषामनन्तगुणत्वमिति।
मनुष्यसूत्रे७/४२ 'अपच्चक्खाणी असंखेज्ज गुणे' त्ति यदुक्तं तत्संमूर्छिम
मनुष्यग्रहणेनावसेयमितरेषां संख्यातत्वादिति। ७/५०,५१ ‘एवं अप्पाबहुगाणि तिण्णिवि जहा पढमिल्लए दंडए' त्ति
तत्रैकं जीवानामिदमेव द्वितीयं पंचेन्द्रियतिरश्चा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्ध दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि। विशेषमाह'नवर' मित्यादि ‘पंचेंदियतिरिक्खजोणिया मणुस्सा व एवं
चेव' त्ति यथा जीवा: सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पंचेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पंचेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयम्, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति। मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयता
दिसूत्रम्७/५४ 'तिष्णिवि' त्ति जीवास्त्रिविधा अपीत्यर्थः ‘एवं जहेवे' त्यादि
एवं अनेनाभिलापेन यथैव प्रज्ञापनायां तथैव सूत्रमिदमध्येयम्।, तच्चैवं-'नेरइया णं भंते!' किं संजया असंजया संजयासंजया? गोयमा! नो संजया असंजया नो संजयासंजये त्यादि। 'अप्पा' इत्यादि, अल्पबहुत्वं संयतादीना तथैव यथा प्रज्ञापनायामुक्तं 'तिण्हवि' त्ति जीवानां पंचेद्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोका: संयता जीवाः, संयतासंयता असंख्येयगुणाः, असंयतास्त्वनन्तगुणाः पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोका: संयतासंयता: असंयता: असंख्येयगुणाः, मनुष्यास्तु सर्वस्तोका: संयता: संयतासंयता: संख्येयगुणा: असंयता असंख्येयगुणा इति। संयतादयश्च प्रत्याख्यानादित्वे सति भवन्तीति प्रत्याख्यान्यादिसूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन? सत्यमेतत् किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिता, इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति। जीवाधिकारात्तच्छाश्वतत्वसूत्राणि-तत्र च
तृतीय उद्देशकः जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम् च७/६२ 'वणस्सइकाइया णं भंते! इत्यादि, 'कं कालं' ति कस्मिन्
काले ‘पाउसे' त्यादि प्रावृडादौ बहुत्वाज्जलस्नेहस्य महाहारतोक्ता, प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादिः, 'सरदे' त्ति शरद् मार्गशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयम्।, ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण
द्रष्टव्येति, ७/६३ 'हरियगरेरिज्जमाणे' त्ति हरितकाश्च ते नीलका रेरिज्जमानाश्च
-देदीप्यमाना हरितकरेरिज्यमानाः ‘सिरिए' त्ति वनलक्ष्म्या
'उसिणजोणिय' त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः, ७/६४ 'मूला मूलजीवफुड' त्ति मूलानि-मूलजीवैः स्पृष्टानि व्याप्ता
नीत्यर्थः, यावत्करणात् 'खंधा खंधजीवफुडा एवं तया
साला पवाला पत्ता पुष्फा फल 'त्ति दृश्यम्। ७/६५ 'जइ ण' मित्यादि, यदि भदन्त! मूलादीन्येव मूलादिजीवैः
स्पृष्टानि तदा ‘कम्ह' त्ति कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय: आहारयन्ति?, आहारस्य भूमिगतत्वात् मूलादिजीवानां च मूलादिव्याप्त्यैवावस्थित्वात् केषाञ्चिच्च् परस्परव्यवधानेन भूमेर्दूरवर्तित्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह' त्ति तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति, कन्दा: कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात् तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार
वन्तीत्येवं स्कन्धादिष्वपि वाच्यम्। ७/६६ 'आलुए' इत्यादि, एते चानन्तकायभेदा लोकरुढिगम्याः। 'तहप्पगार'
त्ति तथाप्रकारा: आलुकादिसदृशाः 'अणंतजीव' त्ति अनन्ता जीवा येषु ते तथा 'विविहसत्त' त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्त जीविता स्यादित्याशंकायामाह विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विवित्तविहिसत्ते२ त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो
१. अप्रतौ अथचैकस्वरूपैरपि २. विचिताविहिसत्ते त्ति क्वचित्
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org