________________
श.७: उ.२ : सू.३४-४०
५५२
भगवती वृत्ति
कोटीसहितमिति–मीलितप्रत्याख्यानद्वयकोटिचर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः। अवाचि च - "पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य। जहियं समेति दोन्नि उ तं भन्नइ कोडिसहियं तु ॥" 'नियंटितं' चेव नितरां यंत्रितं नियंत्रितं प्रतिज्ञातदिनादौ। ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयम्। यदाह"मासे मासे य तवो अमुगो अमुगे दिणंमि एवइयो' हटेण गिलाणेण व कायव्वो जाव ऊसासो॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपनत्तं। जं गेण्हंतऽणगारा अणिस्सियप्या अपडिबद्धा ॥" 'साकार मिति आक्रियन्त इत्याकारा:-प्रत्याख्यातापवादहेतवो महत्तराकारादयः सहाकारैर्वर्त्तत इति साकारम्। अविद्यमानाकारमनाकारं-यविशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः केवलमनाकारेऽपि अनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठांगुल्यादेर्मुखे प्रक्षेपणतो भंगो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति। 'परिमाणकृतमिति दत्त्यादिभिः कृतपरिमाणम्, अभाणि च"दत्तीहिं व कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहि। जो भत्तपरिच्चायं करेति परिमाणकडमेयं ।।" निरवशेषं समग्राशनादिविषयं भणितं च "सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं। परिहरइ सव्वभावेणेयं भणियं निरवसेसं ॥" 'साएयं चेव' त्ति केत:- चिह्न सह केतेन वर्त्तते सकेतं, दीर्घता च प्राकृतत्वात्। संकेतयुक्तत्वाद्वा संकेतम्-अंगुष्ठसहितादि। यदाह"अंगुट्ठमुट्ठिगंठीघरसेऊसासथिबुगजोइक्खे। भणियं संकेयमेवं धीरेहिं अणतणाणीहिं॥" 'अद्धाए' त्ति अद्धा-कालस्तस्याः प्रत्याख्यानंपौरुष्यादिकालस्य नियमनम्। आह च "अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं।
पुरिमड्डपोरुसीहिं मुहुत्तमासद्धमासेहिं॥" ७/३५ 'उवभोगपरिभोगपरिमाणं' ति उपभोगः-सकृद्भोग: स
चाशनपानानुलेपनादीनां, परिभोगस्तु पुनः पुनर्भोग: स चासनशयनवसनवनितादीनां 'अपच्छिममारणंतियसंलेहणझूसणाराहणय' त्ति पश्चिमैवामंगलपरिहारार्थमपश्चिमा मरणंप्राणं त्यागलक्षणम्। इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते। किं तर्हि? विवक्षितसर्वायुष्कक्षयलक्षणमिति। मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी, संलिख्यते—कृशीक्रियतेऽनया शरीरकषायादिति संलेखनातयोर्विशेषलक्षणा तत: कर्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषणं-सेवनं तस्याराधनम्-अखण्डकालकरणं तद्भावः-अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता। इह च सप्त दिग्वतादयो देशोत्तरगणा एव, संलेखना तु भजनया तथाहि-सा देशोत्तरगुणवतो देशोत्तरगुण: आवश्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुण: साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्। अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्य इत्यस्यार्थस्य ख्यापनार्थ इति। अथोक्तभेदेन प्रत्याख्यानेन तविपर्ययेण च जीवादिपदानि
विशेषयन्नाह७/३६ ‘जीवाण' मित्यादि ७/३९ 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव' ति
मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याख्यानिनोऽप्रत्याख्यानिनश्च नवरं पञ्चेन्द्रियतिर्यंचो देशत एव मूलगुणप्रत्याख्यानिनः सर्वविरतेस्तेषामभावत्। इह चोक्तं गाथया"तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणं चिय महव्वयारोवणं समए ।" परिहारोऽपि गाथयैव"न महव्वयसब्भावेऽवि चरणपरिणामसंभवो तेसिं। न बहुगुणाणंपि जहा केवलसंभूइपरिणामो॥"
अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति७/४० 'एएसि ण' मित्यादि 'सव्वथोवा जीवा मूलगुणपच्चक्खा
णी' त्ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोका: देशसर्वाभ्यामुत्तरगुणवतामसंख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्त: स्यात्तद्विकला:, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्य स्तोका एवं। बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्। तेऽपि च मूलगुणेभ्यः संख्यातगुणा एव नासंख्यातगुणाः, सर्वयतीनामपि संख्यातत्वात्। देशविरतेषु पुनर्मूलगुणवद्भ्यो भिन्ना अपि उत्तरगुणिनो
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org