________________
भगवती वृत्ति
श.७: उ.१: सू.२५-उ.२: सू.३४
'दसदोसविप्पमत्तं' ति दोषा:-शंकितम्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्धं' ति उद्गमश्च-आधाकर्मादि षोडशविध: उत्पादना च–धात्रीदूत्यादिका षोडशविधैव, उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनैषणा-परिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसंग्रहः कृत: वीतांगारीदीनि क्रियाविशेषणान्यपि भवन्ति। प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता 'असुरसुरं' ति अनुकरणशब्दोऽयम् एवम् अचवचवमित्यपि ‘अदुयं' त्ति अशीघ्रम् ‘अविलंबियं' ति नातिमन्थरं 'अपरिसाडिं' ति अनवयवोज्झनम्। 'अक्खोवंजणवणाणुलेवणभूयं' ति अक्षोपाञ्जनं च शकटधूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनम् अक्षोपाञ्जनव्रणानुलेपने ते इव विवक्षितार्थसिद्धिरसादिनिरभिष्वंगतासाधाद्य: सोऽक्षोपा नव्रणानुलेपनभूतोऽतस्तं क्रियाविशेषणं वा। 'संजमजायामायावत्तियं' ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांश: संयमयात्रामात्रा तदर्थं वृत्तिः- प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रा-मात्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा वा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति। एतदेव वाक्यान्तरेणाह'संयमभारवहणट्ठयाए' त्ति संयम एव भारस्तस्य वहनंपालनं स एवार्थः संयमभारवहनार्थ स्तद्भावस्तत्ता तस्यै 'बिलमिव पन्नगभूएणं अप्पाणेणं' ति बिले इव रन्ध्रे इव पन्नगभूतेन सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्प
आत्मानं प्रवेशयति पार्खानसंस्पृशन् एवं साधुर्वदनकन्दरपानिसंस्पृशन्नाहारेण तदसंचारणतो जठरबिले आहार प्रवेशयतीति। 'एस णं' त्ति एषः अनन्तरोक्तविशेषण आहार: शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थ:-अभिधेयः प्रज्ञप्त इति।
॥ सप्तमशते प्रथमोद्देशकः ॥
'नो सुपच्चखायं भवति' त्ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः 'सव्वपाणेहिं' ति सर्वप्राणेषु .... 'तिविह' ति त्रिविधं कृतकारितानमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं' ति त्रिविधेन मनोवाक्कायलक्षणेन करणेन 'असंजयविरयपडिहयपच्चक्खायपावकम्मे' त्ति संयतो वधादिपरिहारे प्रयत: विरतोवधादेर्निवृत्तः प्रतिहतानिअतीतकालसम्बन्धीनि निन्दात: प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए' त्ति कायिक्यादिक्रियायुक्त: सकर्मबन्धनो वा। अतएव 'असंवडे' त्ति असंवृताश्रवद्वारः अत एव 'एगंतदंडे' त्ति एकान्तेन–सर्वथैव परान् दण्डयतीत्येकान्तदण्ड: अतएव एकांतबाल: सर्वथा
बालिशोऽज्ञः इत्यर्थः।। प्रत्याख्यानाधिकारादेव तद्भेदानाह७/२९ 'कतिविहे ण' मित्यादि 'मूलगुणपच्चक्खाणे य' त्ति चारित्र
कल्पवृक्षस्य मूलकल्पा गुणा: प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं–निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानम्-अभ्युपगमो मूलगुणप्रत्याख्यानं 'उत्तरगुणपच्चक्खाणे य' त्ति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य
शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानम्। ७/३० 'सव्वमूलगुणे' त्यादि सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुण
प्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां देशमूलगुणप्रत्याख्यानं
तु देशविरतानाम्। ७/३४
'अणागय' गाहा, अनागतकरणादनागतं पर्यषणादावाचार्यादिवैयावृत्यकरणेनान्तरायसद्भावादारत एव तत्तप: करणमित्यर्थः। आह च"होही पज्जोसवणा मम य, तथा अंतराइयं होज्जा। गुरुवेयावच्चेणं तवस्सि गेलण्णयाए वा ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले। एवं पच्चक्खाणं अणागय होइ नायव्वं ॥"इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्। उक्तं
द्वितीय उद्देशकः प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्या
ख्यानं निरूपयन्नाह७/२६ 'से नूण' मित्यादि 'सिय सुपच्चक्खायं सिय दुपच्चक्खायं'
इति प्रतिपाद्य यत् प्रथमं दुःप्रत्याख्यानत्ववर्णनं कृतं तद्यथासंख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमंगीकृत्येति द्रष्ट
व्यम्
"पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं तवस्सि गेलण्णयाए वा ।। सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अतिक्कंतं होइ नायव्वं ॥" ति
७/२८ 'नो एवं अभिसमन्नागयं भवति 'त्ति' 'नो' नैव एवम् इति
वक्ष्यमाणप्रकारमभिसमन्वागतम् अवगतं स्यात्।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org