________________
श.७: उ.१: सू.२२-२५
५५०
भगवती वृत्ति
तद्विशेषाकांक्षावान् ‘गढिए' ति तद्गतस्नेहतन्तुभिः संदर्भित: 'अज्झोववण्णे' त्ति तदेकाग्रतां गतः ‘आहारमाहारेइ' त्ति भोजनं करोति ‘एस णं' त्ति एषः आहार: सांगारं पानभोजनं 'महया अप्पत्तियं' ति महदप्रीतिकम् अप्रेमं 'कोहकिलाम' ति क्रोधात्क्लमः-शरीरायास: क्रोधक्लमोऽतस्तं, 'गुणु
प्पायणहेर्ड' ति रसविशेषोत्पादनायेत्यर्थः। ७/२३ 'वीइंगालस्स' त्ति वीतो गतोऽङ्गारो—रागो यस्मात्तद्वीतांगारम्। ७/२४ 'खेत्ताइक्कंतस्स' त्ति क्षेत्रं-सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः
तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य, 'कालाइक्कंतस्स' त्ति कालं-दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, 'मग्गाइक्कंतस्स' त्ति अर्द्धयोजनमतिक्रान्तस्य ‘पमाणाइक्कंतस्स' त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, 'उवाइणावित्त' त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए' त्ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'वीतिक्कमावेत्त' त्ति व्यतिक्रमय्य-नीत्वेत्यर्थ: 'कुक्कडिअंडगपमाणमेत्ताणं' त्ति कुक्कुट्यण्डकस्य यत् प्रमाणं-मानं तत् परिमाणंमानं येषां ते तथा, अथवा कुकुटीव-कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रामाणतो मात्रा-द्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रामणमात्रा अतस्तेषामयमभिप्रायः-यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतु:षष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात् न हि स्वभोजनस्यार्द्धं भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षया ऽवगन्तव्यमिति। 'अप्पाहारे' त्ति अल्पाहारः साधुर्भवतीति गम्यम्, अथवा अष्टौ कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारं 'आहारयति कुर्वति साधौ अल्पाहारः स्तोकाहारः, चतुर्थांशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं सप्तम्येकवचनान्तं, वा व्याख्येयं। 'अवड्डोमोयरिय' त्ति अवमस्य ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं-किञ्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिशंत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा च सा अवमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधर्मिणोरभेदादपा वमौदरिकसाधुभवतीत्येवं नेतव्यं, 'दुभागप्पत्ते' त्ति द्विभाग:- अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्, 'ओमोयरिय' त्ति अवमोदरिका भवति धर्मधर्मिणोरभेदाद्वाऽवमौदरिक
साधुर्भवतीति गम्यं, 'पकामरसभोइ' त्ति प्रकामम्-अत्यर्थं
रसानां मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति। ७/२५ ‘सत्थातीतस्स' त्ति शस्त्राद्-अग्न्यादेरतीतम्-उत्तीर्णं शस्त्रातीतं,
एवंभूत च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह'सत्थपरिणामियस्स' त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तं ‘एसियस्स' त्ति एषणीयस्य गवेषणाविशुद्धया गवेषितस्य। 'वेसियस्स' त्ति विशेषेण विविधैर्वा प्रकारेषितं-व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा वेषो—मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम् आकारमात्रदर्शनादवाप्तं न त्वावज॑नया, अनेन पुनरुत्पादनादोषापोहमाह, 'सामुदाणियस्स' त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थ:? इत्याह–'निक्खित्तसत्थमुसले' त्ति त्यक्तखड्गादिशस्वमुशल: 'ववगयमालावण्णगविलेवणे' त्ति व्यपगतपुष्पमालाचन्दनानुलेपन: स्वरूपविशेषणे चेमे न तु व्यवच्छेदार्थे निर्ग्रन्थानामेवंरूपत्वादेवेति ‘ववगयचुयचइयचत्तदेहं' ति व्यपगता:-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा कृम्यादय: च्युता-मृताः स्वतः एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय' त्ति त्याजिताभोज्यद्रव्यात् पृथक्कारिता दायकेन ‘चत्त' त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्कृता देहा अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारम्। वृद्धव्याख्या तु व्यपगत:ओघतश्चेतनापर्यायादपेतः च्युत: जीववत् क्रियातो भ्रष्ट: च्यावितः-स्वतः एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहःपरित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः। तत एषां कर्मधारयोऽतस्तं किमुक्तं भवति? इत्याह—'जीवविप्पजढं' ति प्रासुकमित्यर्थः। 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुद्दिट्ठ' अकृतं - साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव। अनेन विशेषणद्वयेनानाधाकर्मिक उपात्तः 'असंकल्पितं स्वार्थं संस्कुर्वता साध्वर्थतया न संकल्पितम्, अनेनाप्यनाधाकर्मिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यते आहूतम्-आह्वानमामंत्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूत: अनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पद्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः। अनेन भावतोऽपरिणताभिधानएषणादोषनिषेध उक्तोऽतस्तम् ‘अक्रीतकृतं क्रयेण साधुदेयं न कृतम्। अनुद्दिष्टम् अनौद्देशिकं 'नवकोडीपरिसुद्ध' ति इह कोटयो विभागास्ताश्चेमा:-बीजादिकं जीवं न हन्ति, न घातयति, घ्नन्तं नानुमन्यते एवं न पचति ..... न क्रीणाति....... इत्येवंरूपाः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org