________________
भगवती वृत्ति
५४९
श.७ : उ.१: सू.४-२२
तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया विशेषणद्वययोगे पुनरैर्यापिथिकी युक्ता निरुद्धकषायत्वादित्या
शंकातोऽयं प्रश्न:उत्तरं तु 'आयाहिकरणी भवति' त्ति आत्मा-जीव: अधिकरणानिहलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः।
श्रमणोपासकाधिकारादेव। ७/६ 'समणोवासगे' त्यादि प्रकरणं, तत्र च 'तसपाणसमारंभे' त्ति
त्रसवधः 'नो खलु से तस्स अतिवायाए आउट्टइ' त्ति न खलु असौ तस्य त्रसप्राणस्य अतिपाताय वधाय आवर्त्तते प्रवर्तते इति न संकल्पवधोऽसौ, संकल्पवधादेव च निवृत्तोऽसौ, न
चैष तस्य संपन्न इति नासावतिचरति व्रतम्। ७/९ 'किं चयइ?' ति किं ददातीत्यर्थ: 'जीवियं चयइ' त्ति जीवितमिव
ददाति अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह—'दुच्चयं चयइ' ति दुस्त्यजमेतत् त्यागस्य दुष्करत्वात्। एतदेवाहदुष्करं करोतीति, अथवा किं त्यजति–किं विरहयति? उच्यते, जीवितमिव जीवितं कर्मणो दीर्घा स्थितिं 'दुच्चयं' ति दुष्टं कर्मद्रव्यसंचयं 'दुक्करं' ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं ततश्च 'दुल्लभं लभइ' त्ति अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइ' त्ति बोधिं सम्यग्दर्शनं बुध्यते अनुभवति। इह च श्रमणोपासक: साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्य सूत्रार्थस्य घटमानत्वात् 'तओ पच्छ' त्ति तदन्तरं सिद्धयतीत्यादि प्राग्वत् अन्यत्राप्युक्तं दानविशेषस्य बोधिग्णत्वं, यदाह'अणुकंपऽकामणिज्जरबालतवे दाणविणए त्यादी। तद्यथा
"केई तेणेव भवेण निव्वुया सव्वकम्मओ मुक्का।
केई तइयभवेणं सिज्झिस्संति जिणसगासे॥" त्ति अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम्७/१० गई पण्णायइ' त्ति गतिः प्रज्ञायते अभ्युपगम्यते इति यावत् ७/११ निस्संगयाए' ति नि:संगतया कर्ममलापगमेन निरंगणयाए'
त्ति नीरागतया मोहापगमेन 'गतिपरिणामेणं' ति गतिस्वभावतयाऽलाबुद्रव्यस्येव 'बंधणच्छेयणयाए' त्ति कर्मबन्धनछेदनेन एरण्डफलस्यैव 'निरंधणताए' त्ति कमेंन्धनविमोचनेन धूमस्येव, 'पुल्वपओगेणं' ति सकर्मतायां गतिपरिणामवत्त्वेन बाणस्येवेति।
एतदेव विवृण्वन्नाह - ७/१२
'कहाण' मित्यादि 'निरुवहयं' ति वाताद्यनुपहतं 'दबभेहि य' त्ति दर्भे: समूलै: 'कुसेहि य' त्ति कुशैः दर्भेरिव छिन्नमूलै: 'भूइ भूई' ति भूयो भूय: 'अत्थाहे' त्यादि इह मकारौ प्राकृतप्रभवौ अत: अस्ताधे अतएव अतारे अत एव 'अपौरुषेये
अपुरुषप्रमाणे ७/१३
'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका 'सिबंलि' त्ति वृक्षविशेष: 'एरंडमिंजिया' एरण्डफलम् ‘एगंतमंतं गच्छई' त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तम् अन्तं भूभागं गच्छति, इह च बीजस्य गमनेऽपि
यत् कलायसिंबलिकादेः तदुक्तं तत्तयोरभेदोपचारादिति। ७/१४ 'उड़े वीससाए' ति ऊर्ध्वं विस्रसया स्वभावेन 'निव्वाघाएणं'
ति कटाद्याच्छादनाभावात्। अकर्मणो वक्तव्यतोक्ता, अथाकर्मविपर्ययभूतस्य कर्मणो
वक्तव्यतामाह७/१६ ‘दुक्खी भंते! दुक्खेण फुडे त्ति दुःखनिमितत्त्वात्। दु:खं
कर्म तद्वान् जीवो दुखी भदन्त! दुःखेन-दुःखहेतुत्वात् कर्मणो-स्पृष्टो बद्धः। 'नो अदुक्खी' त्यादि नो' नैव अदु:खी
अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसंगादिति ७/१९ ‘एवं पंच दंडका णेयव्य' त्ति एवं इत्यनन्तरोक्ताभिलापेन पंच
दंडका नेतव्याः। तत्र दु:खी दुःखेन स्पृष्ट इत्येक उक्त एव। 'दुक्खी दुक्खं परियायई' त्ति द्वितीयः। तत्र दु:खी कर्मवान् दुःखं कर्म, पर्याददाति सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः। 'उदीरेइ' त्ति तृतीयः। 'वेएइ' त्ति चतुर्थः। 'निज्जरेइ' त्ति पंचमः। उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति। कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितानगारसूत्रम् अनगाराधि
काराच्च तत्पानकभोजनसूत्राणि-तत्र च ७/२१ 'वोच्छिण्णे' त्ति अनुदिताः ७/२२ 'सइंगालस्स' त्ति चारित्रेन्धनमंगारमिव य: करोति भोजन
विषयरागाग्निः सोऽगार एवोच्यते, तेन सह यद्वर्तते पानकादि तत् सांगारं तस्य 'सधूमस्स' त्ति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संयोजणादोसदुट्ठस्स' ति संयोजना-द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य, 'जे णं' ति विभक्तिपरिणामात् यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए' त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे' त्ति
१. अप्रतौ - अप्रतौ किं विरहायति......
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org