________________
श.७ : उ.१ : सू.१-४
५४८
भगवती वृत्ति
७/२
अथ सप्तमं शतं
प्रथम उद्देशकः व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् अथ जीवाद्यर्थप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेवोद्देशकार्थसंग्रहगाथा"आहार१ विरति २ थावर३ जीवा४ पक्खी५ य आउ६ अणगारे७ छउमस्थ८ असंवुड ९ अण्णउत्थि१० दस सत्तमंमि सए॥" 'आहारे' त्यादि, तत्र 'आहार' त्ति आहारकानाहारकवक्तव्यतार्थः प्रथमः, 'विरह' त्ति प्रत्याख्यानार्थों द्वितीयः, 'थावर' त्ति वनस्पतिवक्तव्यतार्थस्तृतीयः, 'जीव' त्ति संसारिजीवप्रज्ञापनार्थश्चतुर्थः, 'पक्खी य' ति खचरजीवयोनिवक्तव्यतार्थः पञ्चमः, 'आउ' त्ति आयुष्कवक्तव्यतार्थ: षष्ठः, 'अणगार' ति अनगारवक्तव्यतार्थः सप्तमः, 'छउमत्थ' त्ति छद्मस्थमनुष्यवक्तव्यता
र्थोऽष्टमः, 'असंवुड त्ति असंवृतानगारवक्तव्यतार्थो नवमः, 'अण्णउत्थिय' त्ति कालोदायिप्रभृतिपरतीर्थिकवक्तव्यतार्थों दशमः इति। 'कं समयं अणाहारए' त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति? इति प्रश्नः, उत्तरं तु यदा जीव ऋजुगत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति। यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति। उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्। अत आह-'पढमे समए सिय आहारए सिय अणाहारए' त्ति तथा यदा एकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह'बीयसमये सिय आहारए सिय अणाहारए' त्ति तथा यदा वक्रयेन त्रिभिः समयैरुत्पद्यते तदाऽऽधयोरनाहारकस्तृतीये त्वाहारकः। यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इति कृत्वा 'तइए समए सिय' इत्याधुक्तं, वक्रत्रयं चेत्थं भवति–नाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणित: सनश्रेणी प्रतिपद्यते, द्वितीयेन नाडी प्रविशति तृतीयेनोवं लोकं गच्छति। चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते। इह चाद्ये समयत्रये वक्रत्रयमवगन्तव्य, समश्रेण्यैव गमनात्।
अन्ये त्वाहुः-वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य समश्रेणी प्रतिपद्यते पंचमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्। तत्र चानाहारक इति। इदं च सूत्रे न दर्शितम्। प्रायेणेत्थमनुत्पत्तेरिति। ‘एवं दंडओ' त्ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यम्। शेषेषु तु पदेषु तृतीयसमये नियमादाहारक इति। तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं तथाहि-यो मत्स्यादिर्भरतस्य पूर्वभागाद् ऐरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य पूर्वभागात्पश्चिमं भागं याति। द्वितीयेन तु तत ऐरवतपश्चिम भागं, ततस्तृतीयेन नरकमिति। अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति-'जीवा एगिंदिया य चउत्थे समये सेसा तइयसमये' त्ति 'कं समयं सव्वपाहारए' ति कस्मिन् समये सर्वाल्प:- सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहार: स एव सर्वाल्पाहारक: ‘पढमसमयोववण्णए' त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमय तदुत्पन्नम्उत्पत्तिर्यस्य स तथा, उत्पत्ते: प्रथमसमय इत्यर्थः। तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति। 'चरमसमयभवत्थे व' त्ति चरमसमये भवस्यजीवितस्य तिष्ठति यः स तथा, आयुषश्चरमसमय इत्यर्थः, तदानी प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति।। अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् “सुपइट्ठगसंठिए' त्ति सुप्रतिष्ठकं शरयंत्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्यम्। तथाविधेनैव लोकसादृश्योपपत्तेरिति, एतस्यैव भावनार्थमाह-'हेट्ठा विच्छिण्णे' इत्यादि, यावत्करणात् 'मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठाणसंठिए' मज्झे वरवइरविग्गहिए' त्ति दृश्यं व्याख्या चास्य प्राग्वदिति। अनन्तरं लोकस्वरूपमुक्तं, तत्र च यत् केवली करोती? तदर्शयन्नाह—'तंसी' त्यादि। 'अंतं करेइ' त्ति अत्र क्रियोक्ता। अथ तविशेषमेव श्रमणोपासकस्य दर्शयन्नाह'समणे' त्यादि 'सामाइयकडस्स' त्ति कृतसमायिकस्य, तथा श्रमणोपाश्रये साधुवसतावासीनस्य–तिष्ठत: 'तस्स ण' न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य
७/३
७/४
१. अपनी-बक्रोनाहारको......
Jain Education Intenational
For Private & Personal Use Only
www.jainelibrary.org