________________
भगवती वृत्ति
दशम उद्देशक :
प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः । अथ दशमोद्देशकेऽपितमेव दर्शयन्निदमाह
६/१७१ ‘अण्णउत्थी' त्यादि 'नो चक्किय' त्ति नो शक्नुयात् 'जाव कोलट्टियमायमवित्ति आस्तां बहुं बहुतरं वा यावत् कुवलास्थिकमात्रमपि, तत्र कुवलयास्थिकं - बदरकुलकः 'निप्फाव' त्ति वल्ल: 'कल' त्ति कलाय: 'जय' त्ति यूका। ६/१७३ ‘अयण्ण’ मित्यादिर्दृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्त्तकल्पत्वात् कुवलयास्थिकमात्रादिकं न दर्शयितुं शक्यते । एवं सर्वजीवानां सुखस्य दुःखस्य चेति ।। जीवाधिकारादेवेदमाह
५४७
६ / १७४ 'जीवे णं भंते! जीवे? जीवे जीवे? इह एकेन जीवशब्देन जीव एव गृह्यते, द्वितीयेन च चैतन्यमित्यतः प्रश्नः, उत्तरं जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यम् । नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत
आह
६/१७५ 'जीवे णं भंते! नेरइए' इत्यादि । जीवाधिकारादेवाह—
६/ १७८ 'जीवति भंते! जीवे जीवे जीवइ' त्ति जीवति - प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति ? इति प्रश्न: उत्तरं तु यो जीवति स तावन्नियमाज्जीवः अजीवस्यायुः कर्माभावेन जीवनाभावात्। जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणात्मकत्वात्, जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति । जीवाधिकारात्तदगतामेवान्यतीर्थिकवक्तव्यता
माह
६ / १८३-१८५ 'अण्णउत्थिया' इत्यादि 'आहच्च सायं' ति कदाचित्सातां वेदनां कथमिति ?
चेदुच्यते - 'उववाएण व सायं नेरइओ देवकम्मुणा वावि' 'आहच्च असायं' ति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति ।
'वेमाया' त्ति विविधया मात्रया कदाचित्सातां कदाचिदसातामित्यर्थः । जीवाधिकारादेवेदमाह–
६/१८६ 'नेरइया ण' मित्यादि 'अत्तमायाए' त्ति आत्मना आदाय
Jain Education International
श. ६ : उ. १० : सू. १७१-१८७
गृहीत्वेत्यर्थः 'आयसरीरखेत्तोगाढे' त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अणंतरखेत्तोगाढे' त्ति आत्म शरीरावगाह क्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्रावगाढानित्यर्थः ' परंपरखेत्तोगाढे' त्ति आत्मक्षेत्रानन्तरक्षेत्राद् यत्परं क्षेत्रं तत्रावगाढानित्यर्थः । 'अत्तमाया' इत्युक्तमत आदानसाधर्म्यात् 'केवली ण' मित्यादि सूत्रम् तत्र च
६/१८७ ‘आयाणेहिं' ति इन्द्रियैः ।
दशमोद्देशकार्थसंग्रहाय गाथा - 'जीवाण' मित्यादि गतार्थः ।
॥ षष्ठशते दशमोद्देशकः ॥
प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतिदन्तभंजि । तथाऽपि विद्वत्समसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् ॥
For Private & Personal Use Only
www.jainelibrary.org