________________
श.६: उ.८: सू.१६०-उ.९: सू.१६९
५४६
भगवती वृत्ति
णं भंते! केवइया उद्धारसमएणं पण्णत्ता? गोयमा! जावइया अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइवा दीवसमुद्दा उद्धारसमएणं पण्णत्ता। येनैकैकेन समयेन एकैकं वालाग्रमुध्रियतेऽसावुद्धारसमयोऽतस्तेन! तथा 'परिणामो' ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवम्-'दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा? गोयमा! पुढवीपरिणामावी' त्यादि। तथा 'सव्वजीवाणं' ति सर्वजीवानां द्वीपसमुद्रेषूपादो नेतव्यः, स चैवम्-दीवसमुद्देसु णं भंते! सव्वे पाणा.... पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा? हंता गोयमा! असई अदुवा अणंतखुत्तो' त्ति।
।। षष्ठशते अष्टमोद्देशकः ।।
नवम उद्देशकः द्वीपादिषु जीवाः पृथ्विव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तम्। नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत
इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् ६/१६२ 'जीवे ण' मित्यादि, 'सत्तविहबंधए' आयुरबन्धकाले 'अट्ठ
विहबंधए' त्ति आयुर्बन्धकाले 'छब्बिहबंधए' त्ति सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात्। 'बंधुद्देसो' इत्यादि बन्धोद्देशक: प्रज्ञापनाया: सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने नेतव्य: अध्येतव्यः। स चायम-नेरइए णं भंते! णाणावरणिज्ज कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ? गोयमा! अट्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे 'इत्यादि जीवाधिकाराद्देव
जीवमधिकृत्याह'६/१६३ 'देवे ण' मित्यादि “एगवण्णं' ति कालाद्येकवर्णम् ‘एकरूपम्'
एकविधाकारं स्वशरीरादि, ६/१६५ 'इहगए' त्ति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्न
क्षेत्रस्थितानित्यर्थः। 'तत्थगए' त्ति देव: किल प्रायो देवस्थान एव वर्तत इति, तत्रगतान्–देवलोकादिगतान् ‘अण्णत्थगए' त्ति प्रज्ञापकक्षेत्राद्देवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुव॑न्ते यत: कृत्तोत्तरवैक्रियरूप एव प्रायोऽन्यत्र
गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याधुक्तमिति। ६/१६६ 'कालयं पोग्गलं नील पोग्गलत्ताए' इत्यादौ कालनीललोहित
हारिद्रशुक्ललक्षणानां पंचानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि।
६/१६७ ‘एवं एयाए परिवाडीए गंधरसफास' त्ति इह सुरभिदुरभि
लक्षणगन्धद्वयस्य एकमेव तिक्तकटुकषायाम्लमधुररसलक्षणानां पंचानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि। अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति।
देवाधिकारादिदमाह६/१६८ ‘अविसुद्धे' त्यादि 'अविसुद्धलेसे णं' ति अविशुद्धलेश्यो
विभंगज्ञानो देवः 'असमोहएणं अप्पाणेणं' ति अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः। असमवहतात्मा देवः, अविशुद्धलेश्य देवादिकम् इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति। तद्यथा --अविसुद्धलेसे णं देवे असमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देवीं अण्णयरं जाणइ पासइ? 'णो इणढे समढे' इत्येको विकल्पः। 'अविसुद्धलेसे 'असमोहएणं विसद्धलेसं देवं देवीं ...... णो इणढे समढे' इति द्वितीयः। 'अविसुद्धलेसे समोहएणं अविसुद्धलेसं देवं देवी...... णो इणढे समढे' इति तृतीयः। 'अविसुद्धलेसे समोहएणं अविसुद्धलेसं देवं देवीं ...... णो इणढे समढे' इति चतुर्थः। 'अविसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं देवीं ..... णो इणढे समढे' इति पंचमः। 'अविशुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं .....णो इणढे समढे' इति षष्ठः। 'विशुद्धलेसे असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं.......णो इणढे समढे त्ति' सप्तमः। 'विशुद्धलेसे असमोहएणं विसुद्धलेसं देवं.....णो इणढे समढे त्ति' अष्टमः। एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षड्भिमिथ्यादृष्टित्वात्
द्वाभ्यां त्वनुपयुक्तत्वादिति। ६/१६९ 'विसुद्धलेसे समोहएणं अविसुद्धलेसं देवं ...... जाणइ?
हंता जाणइ' इति नवमः। 'विसुद्धलेसे समोहएणं विशुद्धलेसं देवं..... जाणइ? हंता जाणइ इति दशमः। 'विशुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ...... जाणइ? हंता जाणइ ति एकादश। 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं..... जाणइ? हंता जाणइ ति द्वादश। एभि:पुनश्चतुर्भिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति। एतदेवाहएवं 'हेट्ठिल्लेहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षात् दृश्यत इति।
॥ षष्ठशते नवमोद्देशकः।।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org