________________
भगवती वृत्ति
वेमाणियाणं' ति। अथ कर्मविशेषाधिकारात्तद्विशेषि-तानां जीवादिपदानां दण्डकानाह
५४५
६ / १५२ 'जीवा णं भंते!' इत्यादि 'जातिनामनिहत्त' त्ति जातिनाम निधत्तं - निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १, एवं गतिनामनिधत्ता: २, यावत्करणात् ठितिनामनिहत्ता ३, ओगाहणानामनिहत्ता ४, पएसनामनिहत्ता ५, अणुभागनामनिहत्ता ६ इति दृश्यं व्याख्या तथैव, नवरं जात्यादिनाम्ना या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानाम शरीरनामेति अयमेको दण्डको वैमानिकान्तः तथा
६/१५३ ‘जातिनामनिहत्ताउ' त्ति जातिनाम्ना सह निधत्तमायुर्यैस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः, एवमेते
६/१५४ 'दुवालस दंडग' त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौदर्शितावपि संख्यापूरणार्थं पुनर्दर्शयतिजातिनामनिधत्ता इत्यादिरेक: 'जाइनामनिहत्ताउया' इत्यादिद्वितीय: । 'जीवा णं भंते! कि जाइनामनिउत्ता' इत्यादिस्तृतीयः, तत्र जातिनाम नियुक्तं — नितरां युक्तं संबद्धं निकाचितं वेदने वा नियुक्तं यैस्ते जातिनामनियुक्ताः एवमन्यान्यपि ‘जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः । तत्र जातिनाम्ना सह नियुक्तं - निकाचितं वेदयितुमारब्धं वाऽऽयुर्यैस्ते तथा एवमन्यान्यपि 'जाइगोयनिहत्ता' इत्यादि पंचमः । तत्र जाते: एकेन्द्रियादिकाया यदुचितं गोत्रं - नीचैर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता एवमन्यान्यपि 'जाइगोयनिहताउया इत्यादि पष्ठः तत्र जातिगोत्रेण सह निधत्तमायुर्यैस्ते जातिगोत्रनिधत्तायुष एवमन्यान्यपि 'जाइगोयनिउत्ता' इत्यादि सप्तमः, तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि 'जाइगोयनिउत्ताउया' इत्यादिरष्टमः तत्र जातिगोत्रेण सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः । तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि । 'जीवा णं भंते!' किं जानामगोयनिहत्ताउया? इत्यादिर्दशमः । तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा एवमन्यान्यपि ....... 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः । तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा एवामन्यान्यपि । 'जीवा णं भंते!' किं जाइनामगोयनिउत्ताउया 'इत्यादिर्द्वादशः । तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा एवमन्यान्यपि ।
इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्याप
१. अवभासमानवीचयः समान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिर्वीचानां
Jain Education International
श. ६ : उ. ८ : सू. १५१-१६०
नार्थं यथायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मतः एव प्ररूपयन्नाह -
६/१५५ ‘लवणे ण' मित्यादि 'उस्सिओदए' त्ति उच्छ्रितोदकः ऊर्ध्वं वृद्धिगतजल: 'पत्थडोदए' त्ति प्रस्तृतोदक समजल इत्यर्थः । 'खुभियजले' त्ति वेलावशात् वेला च महापातालकलशगतवायुक्षोभादिति । 'एत्तो आढत्त' मित्यादि, इतः सूत्रादारब्धं तथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्
६ / १५६ 'जहा णं भंते! लवणसमुद्दे उस्सिओदए नो पत्थडोदए खुभिजले नो अखुभिजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ? गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा पत्थsोदगा ।
नो खुभियजला, अखुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति ।
६/१५७ 'अत्थि णं भंते! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ? हंता अत्थि । '
६/१५८ 'जहा णं भंते! लवणे समुद्दे बहवे ओराला.... तहा णं बाहिरेसुवि समुद्देसु ओराला...? नो इणट्ठे समट्ठे ।
६/१५९ से केणट्टेणं भंते! एवं वुच्चइ – बाहिरगा णं समुद्दा पुन्ना
जाव घडत्ताए चिट्ठति? गोयमा! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए वक्कमंति विक्कति चयंति उववज्जंति। शेषं तु लिखितमेवास्ति । व्यक्तं चेदमिति । 'संठाणओ' इत्यादि, एकेन विधिना प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः विस्तारतोऽनेकविधिविधानाः कुतः ? इत्याह । 'दुगुणे' त्यादि, इह यावत्करणादिदं दृश्यम् - 'पवित्थरमाणा बहुउप्पलपउमकुमुयनलिणसुभगसौगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपात इत्यर्थः 'ओभासमाणवीइय" ति ।
६/१६० 'सुभा नाम' त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूव' त्ति
शुक्लपीतादीनि देवादीनि वा । 'सुभा गंध' त्ति सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा रस' त्ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभा फास' त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः । एवं यव्वा सुभा नाम' त्ति एवमिति द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि तथा 'उद्धारो' त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः स चैवम्— 'दीवसमुद्दा
For Private & Personal Use Only
www.jainelibrary.org