SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ श. ६ : उ. ८ : सू. १४२-१५१ ६/१४२ ‘बादरे अगणिकाए' इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते। एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्वं निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः । अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति । ५४४ ६ / १४४ 'नो नागो' त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते, 'नो असुरो नो नागो' ति इहाप्यत एव वचनाच्च चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात् । अत एवाह - 'देवो पकरेइ' इत्यादि इह च बादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव । तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसंभवाद् वायोश्च सर्वत्र भावादिति । ६/१५० ‘एवं सणंकुमारमाहिंदेसु' त्ति इहातिदेशतो बादराब्वनस्पतीनां संभवोऽनुमीयते स च तमस्कायसद्भावतोऽवसेय इति। एवं 'बंभलोयस्स उवरिं सव्वेहिं' ति अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भाव:, 'पुच्छियव्वो य' त्ति बादरोप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः । 'अण्णं तं चेव' त्ति वचनान्निषेध्यश्च यतोऽनेन विशेषोक्तादन्यत्सर्वं पूर्वोक्तमेव वाच्यमिति सूचितम् तथा ग्रैवेयकादीषत्प्राग्भारान्तेषु पूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतोऽध्येयमिति ।। अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसंग्रहगाथयाऽऽह'तमुकाय' गाहा 'तमुकाए' त्ति तमस्कायप्रकरणे प्रागुक्ते 'कप्पपणए' त्ति अनन्तरोक्तसौधर्मादिदेवलोकपंचके चा 'अगणी पुढवी य' त्ति अग्निकायपृथिवीकायावध्येतव्यौ — अत्थि णं भंते! बादरे पुढविकाए बादरे अगणिकाए? णो इणट्ठे समट्ठे aण्णत्थ विग्गहगतिसमावन्नएणं इत्यनेनाभिलापेन । तथा 'अगणि' त्ति अग्निकायोऽध्येतव्यः 'पुढवीसु' त्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए इत्याद्यभिलापेनेति । तथा 'आउतेउवणस्सइ' त्ति अप्कायतेजोवनस्पतयोऽध्येतव्याः'अत्थि णं भंते! बादरे आउकाए बादरे तेउक्काए बादरे वणस्सइकाए? णो इणट्ठे समट्ठे' इत्यादिनाऽभिलापेन, केषु ? इत्याह- 'कप्पुवरिम' त्ति कल्पपंचकोपरितनस्थानानामधो योऽब्वनस्पतिनिषेधः स यान्यब्वायुप्रतिष्ठितानि तेषामध आनन्तर्येण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव Jain Education Intemational भगवती वृत्ति भादादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥ अनन्तरं बादराप्कायादयोऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्बन्धसूत्रम् । ६ / १५१ तत्र 'जातिनामनिहत्ताएउए' त्ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति – नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं - निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति१, ‘गतिनामनिधत्ताउए' त्ति गतिः - नारकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए' त्ति स्थितिरिति यत्स्थातव्यं क्वचिद्विवक्षितभवे जीवेनायुः कर्मणा वा सैव नाम - परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, अथवेह सूत्रे जातिनामगतिनामअवगाहनानामग्रहणात् जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्द: सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम – नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत्स्थितिनामनिधत्तायुरिति। ‘ओगाहणानामनिधत्ताउए' त्ति अवगाहते यस्यां जीव: साऽवगाहना – शरीरम् औदारिकादि तस्या नाम — औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नामपरिणामोऽवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः ‘पएसनामनिहत्ताउए' त्ति प्रदेशानाम् – आयुः कर्मद्रव्याणां नाम - तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम - कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति । 'अणुभागनामनिधत्ताउए' त्ति अनुभाग - आयुद्रव्याणामेव विपाकस्तल्लक्षण एव नामपरिणामोऽनुभागनाम। अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थं जात्यादि नामकर्मणाऽऽयुर्विशेष्यते ? उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम्। यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति । नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव — 'नेरइए णं भंते! नेरइएस उववज्जइ अनेरइसुनेरइएस उववज्जइ ? गोयमा ! नेरइए नेरइएसु उववज्जइ, नो अनेरइए नेरइएस उववज्जइ' ति एतदुक्तं भवतिप्रथमसमयसंवेदन एव नारका उच्यन्ते, तत्सहचारिणां नारकायुः च पंचेन्द्रियजात्यदिनामकर्मणामप्युदय इति । इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद् बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'दडंओ' त्ति 'नेरइयाणं भंते! कतिविहे आउयबंधे पण्णत्ते? इत्यादिर्वैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह – 'जाव For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy