________________
भगवती वृत्ति
१.
तद् योजनं त्रिगुणं सविशेषं, वृत्तपरिधेः किञ्चिन्न्यूनषड्भागादिकत्रिगुणत्वात्। 'एक्काहियबेहियतेहिय' त्ति षष्ठीवचनलोपाद् एकाहिकद्वयाहिकत्र्याहिकानाम् 'उक्कोस' त्ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाह्रा यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः ? इत्याह- 'संमृष्टः आकर्णभृतः संनिचित: प्रचयविशेषान्निविडः, किंबहुना? एवं भृताऽसौ येन ‘तेणं' त्ति तानि वालाग्राणि । 'नो कुत्थेज्ज' त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिराभावाद्वायोरसंभवाच्च नासारतां गच्छेयुरित्यर्थः अत एव नो परिविद्धंसेज्ज त्ति न परिविध्वंसेरन् — कतिपयपरिशाटमप्यं-गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्ज' त्ति न पूतितया - न पूतिभावं कदाचिदा गच्छेयुः ।
५४३
'तओ णं' ति तेभ्यो वालाग्रेभ्यः 'एगमेगं बालग्गं अवहाय' त्ति एकैकं वालाग्रगपनीय कालो मीयत इति शेषः । ततश्च 'जावइएण ' मित्यादि, यावता कालेन स पल्यः 'खीणे' त्ति वलाप्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत् तथा 'नीरए' त्ति निर्गतरज: कल्पसूक्ष्म वालाग्रोऽपकृष्टधान्यरज:कोष्ठागारवत्, तथा 'निम्मले ' त्ति विगतमलकल्पसूक्ष्मतरबालाग्रः प्रमार्जनिका-प्रमृष्टकोष्ठागारवत् तथा 'निट्ठिय' त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्। तथा 'निल्लेव' त्ति अत्यन्तसंश्लेषातन्मयतां गतः वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्। अथ कस्मान्निर्लेपः ? इत्यत आह- 'अवहडे' त्ति निःशेषवालाग्रलेपापहारात् अत एव 'विसुद्धे' ति रजोमलकल्पबालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः एकार्थश्चैते शब्दाः व्यावहारिकं चेदमद्धापल्योपमं इदमेव यदाऽसंख्येयखण्डीकृतैकैकवालाग्रभृतपल्याद्वर्षशते वर्षशते खण्डशोsपोद्धारः क्रियते तदा सूक्ष्ममुच्यते । समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति तथा तैरेव बालाग्रैर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्व्यावहारिकं क्षेत्रपल्योपमं पुनस्तैरेवासंख्येयखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्मं क्षेत्रपल्योपमम् ।
एवं सागरोपममपि विज्ञेयमिति ॥
कालाधिकारादिदमाह
२. अप्रतौ समयोऽपोद्धार
स प्रतौ-समयाऽपोद्धार
Jain Education Intemational
श. ६ : उ. ७ : सू. १३४- उ. ८ : सू. १३७
६/१३५ 'जंबुद्दीवे ण' मित्यादि 'उत्तिमट्ठपत्ताए' त्ति उत्तमान् — तत्कालापेक्षयोत्कृष्टान् अर्थान् — आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् । ‘आगारभावपडोयारे' त्ति आकारस्य — आकृतेर्भावाः - पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावस्तेषां प्रत्यवतार:अवतरणमाविर्भाव आकारभावप्रत्यवतारः 'बहुसमरमणिज्जं ' त्ति बहुसम: - अत्यन्तसमोऽत एव रमणीयो यः स तथा 'आलिंगपुक्खरे' त्ति आलिंगपुष्करं मुरजमुखपुटं लाघवाय सूत्रमतिदिशन्नाह - एवमित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं दृश्या— 'मुइंगपुक्खरेइ वा सरतलेइ वा 'सरस्तलं सर एव, ‘करतलेइ वा' करतलं कर एवं इत्यादीत्येवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपंचकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैतद् दृश्यम् —'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिट्ठति निसीयंति तुयट्टंती' त्यादि । 'तत्य तत्थे' त्यादि तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे 'तहिं तहिं' ति देशस्यान्ते देशस्यान्ते उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला नट्टमाला' इत्यादि दृश्यम् । 'कुसविकुसविसुद्धरुक्खमूल' त्ति कुशा: - दर्भाः विकुशा—बल्वजादयः तृणविशेषास्तैर्विशुद्धानि – तदपेतानि वृक्षमूलानि - तदधोभागा येषां ते तथा, यावत् करणात् 'मूलमंतो कंदमंतो' इत्यादि दृश्यम् । 'अणुसज्जित्य' त्ति अनुसक्तवन्तः पूर्वकालात् कालान्तरमनुवृत्तवन्तः ' 'पम्हगंध' त्ति पद्मसमगन्धयः, 'मियगंध' त्ति मृगमदगन्धयः 'अमम' त्ति ममकाररहिता: 'तेयतलि' त्ति तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'सह' त्ति सहिष्णवः समर्था: 'सणिचारे' त्ति शनै: - मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः ।
॥ षष्ठशते सप्तमोद्देशकः ॥
अणु. वृ. पत्र १६७ अनुयोगद्वारवृत्तौ किञ्चित् पाठभेदो दृश्यते – नो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसंभवाच्च नासारतां गच्छेयुः ।
अष्टम उद्देशकः
सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते ।
६ / १३७ 'कइ ण' मित्यादि
For Private & Personal Use Only
www.jainelibrary.org