SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ श. ६ : उ. ७ : सू.१२९-१३४ ति सामान्यतः 'जवजवाणं' ति यवविशेषाणां 'एतेसि, ण' मित्यादि, उक्तत्वेन प्रत्यक्षाणं 'कोट्ठाउत्ताण' त्ति कोष्ठेकुशूले आगुप्तानि — तत्प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउत्ताणं' ति इह पल्यो - वंशादिमयो धान्याधारविशेष: 'मंचाउत्ताणं मालाडत्ताण' मित्यत्र मंचमालयोर्भेदः - 'अकुड्डो होइ मंचो मालो य घरोवरिं होति' 'ओलित्ताणं' त्ति द्वारदेशे पिघानेन सह गोमयादिनाऽवलिप्तानां 'लित्ताणं' ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणं' ति स्थगितानां तथाविधाच्छादनेन, 'मुद्दियाणं' ति मृत्तिकादिमुद्रावतां 'लंछियाणं' ति रेखादिकृतलाञ्छनानां 'जोणि' त्ति अंकुरोत्पत्तिहेतुः 'तेण परं' ति ततः परं 'पमिलायइ' त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ' ति क्षीयते, एवं च बीजमबीजं च भवतिउप्तमपि नांकुरमुत्पादयति, किमुक्तं भवति ? – 'तेण परं जोणीवोच्छे पण्णत्ते' ति । ६/१३० 'कल' त्ति कलया वृत्तचनका इत्यन्ये 'मसूर' त्ति भिलंगा:चनकिका इत्यन्ये 'निप्फाव' त्ति वल्लाः 'कुलत्थ' त्ति चवलिकाकाराः चिपिटिका भवन्ति 'आलिसंदग' त्ति चवलकप्रकारा: चवलका एवान्ये 'सईण' त्ति तुवरी 'पलिमंथग' त्ति वृत्तचनका: कालचनका इत्यन्ये ६ / १३१ 'अयसि' त्ति भंगी 'कुसुंभग' त्ति लट्टा 'वरग' त्ति वरट्टो, 'राग' त्ति कंगविशेष: 'कोदूसग' त्ति कोद्रवविशेष: । 'सण' त्ति त्वक्प्रधाननालो धान्य विशेष: 'सरिसव' त्ति सिद्धार्थका: 'मूलगबीय' त्ति मूलकबीजानि शाकविशेषबीजानीत्यर्थः । अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्त्तादीनां स्वरूपाभिधानार्थमाह- ६/१३२ 'ऊसासद्धा वियाहिय' त्ति उच्छ्वासाद्धा इति उच्छ्वासप्रमितकालविशेषाः व्याख्याताः उक्ता भगवद्भिरिति, अत्रोत्तरम् — 'असंखेज्जे' त्यादि असंख्यातानां समयानां सम्बन्धिनो ये समुदया - वृन्दानि तेषां या: समितयो मीलनानि तासां यः समागमः—संयोगः समुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते । 'संखेज्जा आवलियंत्ति किल षट्पंचाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छ्वासनिःश्वासकाले, एवं च संख्याता आवलिका उच्छ्वासकालो भवति। 'हट्ठस्से' त्यादि 'हृष्टस्य' तुष्टस्य अनवकल्यस्य जरसाऽनभिभूतस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं चानभिभूतस्य जन्तोः मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छवासनिःश्वासः य इति गम्यते एष प्राण इत्युच्यते । 'सत्ते' Jain Education International ५४२ भगवती वृत्ति त्यादि इति प्राकृतत्वात् सप्तप्राणा उच्छ्वासनिः श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्त्या एषः - अधिकृतो मुहूर्तो व्याख्यात इति । 'तिण्णि सहस्सा.....' गाहा अस्या भावार्थोऽयम् — सप्तभिरुच्छ्वासैः स्तोक: स्तोकाश्च लवे सप्त ततो लवः सप्तभिर्गुणितो जातैकोनपंचाशत्, मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपंचाशता गुणितेति जातं यथोक्तं मानमिति । 'एताव ताव गणियस्स विसए' त्ति एतावान् — शीर्षप्रहेलिकाप्रमेयराशिपरिणामः तावदिति क्रमार्थ: गणितविषयो — गणितगोचर: गणितप्रमेय इत्यर्थः । ६ / १३३ 'ओवमिय' त्ति उपमया निर्वृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह६/१३४ 'सत्थेणे' त्यादि, छेत्तुमिति खड्गादिना द्विघा कर्तुं 'भेत्तुं ' सूच्यादिना सच्छिद्रं कर्तुं वा विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थः । 'सिद्ध' त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः, न तु सिद्धा: - सिद्धिंगतास्तेषां वदनस्यासंभवादिति । आदिं प्रथमं प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णश्लक्ष्णिकादीनामिति, यद्यपि च नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद् व्यावहारिकपरमाणुलक्षणमिदमवसेयम् । अथ प्रमाणान्तरलक्षणमाह- 'अणंताण' मित्यादि 'अनन्तानां ' व्यावहारिकपरमाणुपुद्गलानां समुदया: – ट्र्यादिसमुदयास्तेषां, समितयो — मीलनानि तासां समागमः - परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एका अत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्- प्राबल्येन श्लक्ष्णश्लक्ष्णिका इति उपदर्शने वा समुच्चये, एते च उतश्लक्ष्णश्लक्ष्णिकादयोऽगुंलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम्- 'उस्सण्हसहियाइ वे' त्यादि 'सहसहिय' त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् ऊर्ध्वरेण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते। 'उड्ढरेणु' ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्यो रेणुः ऊर्ध्वरेणुः 'तसरेणु' त्ति त्र्यस्यति—पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः। 'रहरेणु' त्ति रथगमनोत्खातो रेणू रथरेणुः वालाग्रलिक्षादयः प्रतीता। 'रयणि' त्ति हस्तः । 'नालिय' त्ति यष्टिविशेष : 'अक्खे' त्ति शकटावयवविशेष: । 'तं तिउणं सविसेसं परिरएणं' त्ति For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy