________________
भगवती वृत्ति
५४१
श.६ : उ.५ : सू.१०३- उ.७: सू.१२९
लोकान्तः प्रज्ञप्त इति।
॥ षष्ठशते पञ्चमोद्देशकः ।।
खातुल्यत्वात्, मधेति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात् माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात् 'वायफलिहे इव' त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लंघ्यत्वात् सा वातपरिघ: 'वायपरिक्खोभे इ व' त्ति वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहे इ व' त्ति क्षोभयति देवानां परिघ इव–अर्गलेव दुर्लध्यत्वाद्देवपरिघ
इति 'देवपलिक्खोभे इव' त्ति देवानां परिक्षोभहेतुत्वादिति। ६/१०६ 'अट्ठसु उवासंतरेसु' त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्त
रोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयम् अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थम् अभ्यन्तरदक्षिणपश्चिमयो: पंचमं पश्चिमयोः
षष्ठम् अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, ६/११० 'लोगंतियविमाण' त्ति लोकस्य ब्रह्मलोकस्यान्ते—समीपे
भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समास:, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्त्तिष्वष्टासु अर्चि: प्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजिमध्यभागवर्ति रिष्ठं विमानं नवममुक्तं तद्
विमानप्रस्तावादवसेयम्। ६/११४ 'सारस्सयमाइच्चाण' मित्यादि, इह सारस्वतादित्ययोः समुदितयो:
सप्त देवा: सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते,
एवमुत्तरत्रापि, ‘अवसेसाणं' ति अव्याबाधाग्नेयरिष्ठानां ६/११५ ‘एवं णेयव्वं' ति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिक
विमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति
-'विमाणाण' मित्यादि गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमानानां पृथिवीबाहल्यं तच्च पंचविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि संस्थानं पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात् आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति। 'बंभलोए' इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु नेतव्या अनुसतव्या, कियदूरं? इत्यत आह—'जावे' त्यादि, सा चेयं लेशत:
-'लोयंतियविमाणा णं भंते! कतिवण्णा पण्णत्ता? गोयमा! तिवण्णा पण्णत्ता लोहिया हालिद्दा सुक्किल्ला, एवं पभाए निच्चालोया गंधेणं इट्ठगंधा एवं इट्ठफासा एवं सव्वरयणमया
तेसु देवा समचउरंसा अल्लमहुगवण्णा पम्हलेसा। ६/११६ 'लोयंतियविमाणेसु णं भंते! सव्वे पाणा ..... ४ पुढविकाइयत्ताए
५ देवत्ताए उववण्णपुव्वा? 'हंते' त्यादि लिखितमेव, ६/११८ 'केवतियं' ति छान्दसत्वात् कियत्या अबाधया अन्तरेण
षष्ठ उद्देशकः व्याख्यातो विमानादिवक्तव्यतानुगतः पञ्चमोद्देशकः, अथ
षष्ठस्तथाविध एव व्याख्यायते, तत्र६/१२० 'कइ ण' मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया
अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थमिति न
पुनरुक्तता, ६/१२२ 'तत्थगए चेव' त्ति नारकावासप्राप्त एव ‘आहारेज्ज वा'
पुद्गलानादद्यात् 'परिणामेज्ज व' त्ति तेषामेव खलरसभावं कुर्यात् 'सरीरं वा बंधेज्ज' त्ति तैरेव शरीरं निष्पादयेत्। 'अत्थेगइए' त्ति यस्तस्मिन्नेव समुद्घाते म्रियते 'ततो पडिनियत्तति' ततो नारकावासात् समुद्घाताद् वा 'इह
समागच्छइ' त्ति स्वशरीरे ६/१२४ 'केवइयं गच्छेज्ज' त्ति कियदरं गच्छेद्? गमनमाश्रित्य
'केवइयं पाउणेज्ज' त्ति कियद्रं प्राप्नुयात्? अवस्थानमाश्रित्य ६/१२५ 'अंगुलस्स असंखेज्जइ भागमेत्तं वे' त्यादि इह द्वितीया
सप्तम्यर्थे द्रष्टव्या, अंगुलम् इह यावत्करणादिदं दृश्यंविहत्थिं वा रयणिं वा कुच्छिं वा धणं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा इति 'लोगंते वे' त्यत्र गत्वेति शेषः, ततश्चायमर्थ:उत्पादस्थानानुसारेणांगुलासंख्येयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम्? इत्याह—“एगपएसियं सेढिं मोत्तूण' त्ति यद्यप्यसंख्येयप्रदेशावगाहस्वभावो जीवस्तथाऽपि नैकप्रदेशश्रेणीवर्त्यसंख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति।
॥ षष्ठशते षष्ठोद्देशकः।।
सप्तम उद्देशकः षष्ठोद्देशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेष
योनिवक्तव्यतादिरर्थ उच्यते, तत्र चेदम् सूत्रम्--- ६/१२९ 'अह भंते!' 'इत्यादि', 'सालीणं' ति कलमादीना 'वीहीण'
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org