________________
श.६: उ.५:सू.७४-१०३
५४०
भगवती वृत्ति
इत्यादि संख्यातयोजनविस्तृतः आदित आरभ्य ऊर्ध्वं संख्येययोजनानि यावत्ततोऽसंख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्। 'असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं' ति संख्यातयोजनविस्तृत्वेऽपि तमस्कायस्यासंख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात् परिक्षेपस्यासंख्यातयोजनसहस्रप्रमाणत्वम्। आन्तरबहिः परिक्षेपविभागस्तु नोक्तः,
उभयस्याप्यसंख्याततया तुल्यत्वादिति। ६/७५ 'देवे ण' मित्यादि अथ किं पर्यन्तमिदं देवस्य महद्धर्यादिकं
विशेषणम्? इत्याह----'जाव इणामेवे' त्यादि, इह यावच्छब्द ऐदम्पर्यार्थः। यतो देवस्य महादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि। 'इणामेव इणामेवत्तिकट्ट' इदं गमनमेवम्-अतिशीघ्रत्वावेदक चप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं च शीघ्रत्वातिशयोपदर्शनपरमिति: उपदर्शनार्थ: कृत्वा विधायेति 'केवलकप' ति केवलज्ञानकल्पं परिपूर्णमित्यर्थः। वृद्धव्याख्या तु-केवल: संपूर्ण: कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूप इति यावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तम् 'तिहिं अच्छरानिवाएहिं' ति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तो' त्ति त्रिगुणा: सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्रकृत्व एकविंशतिवारानित्यर्थः 'हव्वं' त्ति शीघ्रम् 'अत्थेगइय' मित्यादि
संख्यातयोजनमानं व्यतिव्रजेदितरं तु नेति । ६/७८ 'ओराला बलाहय' ति महान्तो मेघाः, 'संसेयंति' त्ति संस्विद्यन्ते
तज्जनक पुद्गलस्नेहसम्पत्त्या संमूर्च्छन्ति तत्पुद्गलमीलनात्त
दाकारतयोत्पत्तेः। ६/७९ 'तं भंते!' त्ति तत् संस्वेदनं समूर्च्छनं वर्षणं च। ६/८० 'बायरे विज्जुयारे' त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव
तेषां निषेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भास्वरा:
पुद्गलास्त इति, ६/८२ ‘णण्णत्थ विग्गहगईसमावण्णेणं' ति न इति योऽयं निषेधो
बादरपृथिवीतेजसो: सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव बादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति, तृतीया
चेह पञ्चम्यर्थे प्राकृत्वादिति। ६/८३ 'पलियस्सओ पुण अत्थि' त्ति परिपार्श्वत: पुन: सन्ति तमस्कायस्य
चन्द्रादय इत्यर्थः। ६/८४ 'कादूसणिया पुण सा' इति ननु तत्पार्श्वतश्चन्द्रादीनां
सद्भावात्तत्प्रभाऽपि तत्रास्ति? सत्यं, केवलं कम्- आत्मानं
दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव
कदूषणिका, दीर्घता च प्राकृतत्वात् अत: सत्यप्यसावसतीति। ६/८५ 'काले ति कृष्ण: 'कालोभासे' त्ति कालोऽपि कश्चित् कृतोऽपि
कालो नावभासत इत्यत आह—कालावभास: कालदीप्तिर्वा, 'गंभीरलोमहरिसजणणे' त्ति गंभीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गंभीररोमहर्षजनन: रोमहर्षजनकत्वे हेतुमाह-- 'भीमे' त्ति भीष्मः 'उत्तासणए' त्ति उत्कम्पहेतुः निगमयन्नाह‘परमे' त्यादि, यत एवमत एवाह--'देवेवि ण' मित्यादि, 'तप्पढमयाए' त्ति दर्शनप्रथमतायां 'खुभाएज्ज' त्ति 'स्कम्नीयात्' क्षुभ्येत्, 'अहे ण' मित्यादि अथैनं तमस्कायम् अभिसमागच्छेत् प्रविशेत्ततो भयात् 'सीहं सीहं' ति कायगतेरतिवेगेन 'तुरियं तुरियं' ति मनोगतेरतिवेगात्, किमुक्तं भवति? क्षिप्रमेव,
'वीइवएज्ज' त्ति व्यतिव्रजेदिति। ६/८६. 'तमे ति वे' त्यादि तम: अन्धकाररूपत्वात् इत्येतत् वा
विकल्पार्थः तमस्काय इति वाऽन्धकारराशिरूपत्वात् अन्धकारमिति वा तमोरूपत्वात् महान्धकारमिति वा महातमोरूपत्वात् लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्, एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमिति वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वादव्यूह इव चक्रादिव्यूह इव देवव्यूहः देवपरिघ इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात् देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात् अरुणोदक इति वा समुद्रः, अरुणोदक समुद्रजलविकारत्वादिति। पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा, अथ पृथिव्यप्कायपर्यायतां पृथिव्यप्कायौ च
जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयनाह६/८७ 'तमुक्काए ण' मित्यादि बादरवायुवनस्पतयस्त्रसाश्च
तत्रोत्पद्यन्तेऽपकाये तदुत्पत्तिसंभवात्र त्वितरेऽस्वस्थानत्वात्
अत उक्तं ६/८८ ‘णो चेव ण' मित्यादि। तमस्कायसादृश्यात्कृष्णराजिप्रकरणम्६/८९ 'कण्हराईओ' ति कृष्णवर्णपदगलरेखा: ६/९० 'हव्विं' ति समं किलेति वृत्तिकारः प्राह 'अक्खाडगे' त्यादि इह
आखाटक:-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्संस्थिताः
स्थापना चेयम्६/९६ ‘णो असुरो' इत्यादि असुरनागकुमाराणां तत्र गमनासंभवादिति। ६/१०३ 'कण्हराईति व' त्ति पूर्ववत्, मेघराजीति वा कालमेघरे
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org