________________
श. ७: उ.१० : सू. २१३-२२७
सायेदमुक्तमिति । से कहमेयं मण्णे एवं?' ति अथ कथमेतदस्तिकायवस्तु मन्ये इति वितर्कार्थः 'एवम् अमुना चेतनादिविभागेन भवतीति । एषां समुल्लापः
७ / २१६ 'इमा कहा अविप्पकड' त्ति इयं कथा — एषास्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता – प्रक्रान्ता अथवा न विशेषण प्रकटा अविप्रकटा 'अविउप्पकड' त्ति पाठान्तरं तत्र अविद्वत्प्रकृताः अविज्ञप्रकृता अथवा न विशेषत उत्प्राबल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं च' त्ति अयं पुन: 'तं चेयसा' इति यस्माद्वयं सर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्तस्मात् चेतसा मनसा 'वेदस' त्ति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणे ।
७ / २१७ 'एयमट्ठ' ति अमुमस्तिकायस्वरूपलक्षणमर्थं स्वयमेव ‘प्रत्युपेक्षध्वं पर्यालोचयतेति।’
७/२१८ 'महाकहापडिवण्णे' त्ति महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन ।
७ / २१९ 'एयंसि णं' त्ति एतस्मिन् उक्तस्वरूपे ' चक्किया के ' त्ति शक्नुयात् कश्चित् ।
७/२२० एयंसि णं भंते! पोग्गलत्थिकायंसि' इत्यादि अयमस्य भावार्थ:- जीवसम्बंधीनि पापकर्म्माण्यऽशुभस्वरूपफललक्षणविपाकदायिनिपुद्गलास्तिकाये न भवन्ति । अचेतनत्वेनानुभववर्जितत्वात्तस्य। जीवास्तिकाय एव च तानि तथा भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राक्कालोदायिप्रश्नद्वारेण कर्म्मवक्तव्यतोक्ता, अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि भवन्ति तथोपदिदर्शयिषुः 'एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह
७/२२३ ‘अत्थि ण' मित्यादि अस्तीदं वस्तु यदुत जीवानां पाप कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः ।
५६४
७/२२४ 'थालीपागसुद्धं' ति स्थाल्यां - उखायां पाको यस्य तत् स्थालीपाकम् अन्यत्र हि पक्वमपक्वं वा न तथाविधं स्यादितीदं विशेषणं, शुद्धं - भक्तदोषवर्जितं ततः कर्मधारयः स्थालीपाकेन वा शुद्धमिति विग्रह: 'अठारसर्वजणाउलं' ति अष्टादशभिर्लोकप्रतीतैर्व्यजनैः शालन - कैस्तक्रादिभिर्वा आकुलं संकीर्णं यत्तत्तथा अथवाऽष्टादशभेदं च तद्व्यंजनाकुलं चेति । अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते
Jain Education International
१.
२.
भगवती वृत्ति
"सूओ१ दणो २ जवणं ३ तिण्णि य मंसाइं६ गोरसो७ जूसो ८ । भक्खा ९ गुललवणिया १० मूलफला ११ हरियगं१२ डागो१३ ।। होइ रसालू१४ य तहा पाणं १५ पाणीय १६ पाणगं१७ चेव । अट्ठारसमो सागो१८ निरुवहओ लोइओ पिंडो ॥ "
तत्र मांसत्रयं— जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरककटुआण्डादिरसः ‘भक्ष्याणि' खण्डखाद्यादीनि 'गुललावणिया' गुडर्प्पटिका लोकप्रसिद्धा गुडधाना वा। मूलफलान्येकमेवपदं 'हरितकं' जीरकादि 'डाको' वास्तुलकादिभर्जिका 'रसालू: ' मज्जिका, तल्लक्षणं चेदम्— "दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा। दस खण्डगुलपलाई एस रसालू निवइजोगो ।”
'पानं' सुरादि 'पानीयं' जलं 'पानकं' द्राक्षापानकादि शाकः - तक्रसिद्ध इति । 'आवाय' त्ति आपातस्तत्प्रथमतया संसर्ग: 'भद्दए' त्ति मधुरत्वान्मनोहर: 'दुरूवत्ताए' त्ति दूरूपतया हेतुभूतया 'जहा महासवए' त्ति षष्ठशतस्य तृतीयोदेशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येयम् । 'एवामेव' त्ति विषमिश्रभोजनवत्। 'जीवा णं भंते! पाणाइ-वाए' इत्यादौ भवतीति शेष: 'तस्स णं' ति तस्य प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे त्ति ततः पश्चात् ' आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि गच्छत् प्राणातिपातादि कार्ये कारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दुरुवत्ताए' त्ति दुरूपताहेतुतया परिणमति दुरूपतां करोतीत्यर्थः । 'ओसहमिस्सं' ति औषधं - महातिक्तकघृतादि 'एवामेव' त्ति औषधमिश्रभोजनवत् 'तस्स णं' ति प्राणातिपातविरमणादेः 'आवाए नो भद्दए भवति' त्ति इन्द्रियप्रतिकूलत्वात्। 'परिणममाणे' त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म्म परिणामान्तराणि गच्छत्।
अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयति
७/२२७ 'दो भंते!' इत्यादि अगणिकायं समारंभंति त्ति तेज: कायं समारभेते उपद्रवयतः तत्रैक उज्ज्वालनेनान्यस्तु विध्यापनेन, तत्रोज्ज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात् अत उक्तं 'तत्थ णं एगे' इत्यादि । 'महाकम्मतराए चेव' त्ति अतिशयेन महत्कर्मज्ञानावरणादिकं यस्य स तथा चैवशब्दः समुच्चये, एवं 'महाकिरियतराए चेव' त्ति नवरं क्रिया - दाहरूपा 'महासवतराए चेव' त्ति बृहत्कर्म्मबन्धहेतुकः 'महावेयणतराए चेव' त्ति महती वेदना जीवानां यस्मात्स तथा ।
For Private & Personal Use Only
www.jainelibrary.org