________________
श.६: उ.४: सू. ६३
५३८
भगवती वृत्ति
मध्येयानि सिद्धपदं च न वाच्यमिति। 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयो गकत्रयं मनुष्येषु च षड्भंगीति। 'सागारे' त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भंगाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव। तत्र चान्यतरोपयोगादन्यतरगमने, प्रथमेतरसमयेष्वप्रदेशत्वसप्रदेशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम्, एवं चासकृदवाप्तसाकरोपयोगान् बहुनाश्रित्य सप्रदेशा इत्येको भंग: तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीय तथा तानेव सकृदवाप्तसाकारोपयोगांश्च बहूनधिकृत्य तृतीयः। अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः। तानेव सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः। उभयेषामप्यनेकत्वे तृतीय इति। 'सवेयगा जहा सकसाइ' ति सवेदानामपि जीवादिपदेषु भंगकत्रयभावात्, एकेन्द्रियेषु चैकभंगसद्भावात् इह च वेदप्रतिपन्नान् बहून श्रेणिभ्रंशे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भंगकत्रयं भावनीयम्। 'इत्थीवेयगे' त्यादि इह वेदाद्वेदान्तरसंक्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य। भंगकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भंग: सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूप: प्रागुक्तयुक्तेरेवेति। स्त्रीदण्डकपुरुषदण्डकेषु देवपंचेन्द्रियरतियमनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति। 'अवेयगा जहा अकसाइ' त्ति जीवमनुष्यसिद्धपदेषु भंगकत्रयमकषायिवद्वाच्यमित्यर्थः। 'ससरीरी जहा ओहिओ' त्ति
औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य नारकादिषु तु बहुत्वे भंगकत्रयमेकेन्द्रियेषु तृतीयभंग इति। 'ओरालियवेउव्वियसरीराणं जीवेगिंदियवज्जो तियभंगो' त्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभंग एव, बहूनां प्रतिपत्राना प्रतिपधमानानां चानुक्षणं लाभात् शेषेषु भंगकत्रयं बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात् इहौदारिकदण्डकयो रका देवाश्च न वाच्याः। वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः। यश्च वैक्रियदण्यके एकेन्द्रियपदे तृतीयभंगोऽभिधीयते स वायूनामसंख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य, यद्यपि पंचेन्द्रियतिर्यंचो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे, तथाऽपि भंगकत्रय
वचनसामर्थ्याद् बहूनां वैक्रियावस्थानसंभवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया, 'आहारगे' त्यादि आहारकशरीरे जीवमनुष्ययोः षड् भंगका: पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात् , शेषजीवानां तु तन्न संभवतीति। 'तेयगे' त्यादि तेजसकामणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौघिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभंगा: एकेन्द्रियास्तु तृतीयभंगाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति। 'असरीरे' त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयो पूर्वोक्ता त्रिभंगी वाच्या। अन्यत्राशरीरत्वस्याभावादिति। 'आहारपज्जत्तीए' इत्यादि इह जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तिः प्रतिपन्नानां तद्पर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशा अप्रदेशाश्चेत्येक एव भंग: शेषेष तु त्रयो भंगा इति। 'भासामणे' त्यादि इह भाषामनसोः पर्याप्तिर्भाषामन:पर्याप्तिः, भाषामन:पर्याप्त्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तथा पर्याप्तका यथा संज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भंगकत्रयमित्यर्थः, पंचेन्द्रियपदान्येव चेह वाच्यानि। पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाहारं खलं रसं च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्ति: करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्ति म येन करणेनौदारिकवैक्रियाहारकाणां शरीराणां योग्यानि द्रव्यणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्ति: शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्यानप्राणतया नि:स्रष्टुं समर्थों भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषाप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमथों भवति तस्य करणस्य निष्पत्तिभाषापर्याप्तिरिति, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मन:पर्याप्तिरिति। 'आहार अप्पज्जत्तीए' इत्यादि इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशा अप्रदेशाश्चेत्येक एव भंगकोऽनवरतं, विग्रहगतिमतामाहारपर्याप्तिमतां बहूनां लाभात्, शेषेषु च षड् भंगा: पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्। 'सरीरअपज्जत्तीए' इत्यादि इह जीवष्वेकेन्द्रियेषु चैक एव भंगोऽन्यत्र तु त्रयम्। शरीराद्यपर्याप्तकानां कालत: सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां लाभात्, नारकदेवमनुष्येषु च
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org