SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति श.६ : उ.४ : सू.६३ विकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भावादिति। 'संजएहिं' इत्यादि संयतेषु संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभंगः', संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके 'असंजएहिं संजएहिं संजयासंजएहिं' इत्यादि इहासंयतत्वं प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भगकत्रयम् एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या सप्रदेशाश्चाप्रदेशाश्चैक एव भंग इति, इह सिद्धपदं नाध्येयमसंभवादिति। संयतासंयतबहुत्वदण्डकै 'संजयासंजएहिं' इत्यादि इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद् वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भगकत्रयसम्भवः। इह जीवपंचेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति। नवरमिह जीवसिद्धपदे एव वाच्ये अत एवोक्तं 'जीवसिद्धेहिं तियभंगो' ति। 'सकसाईहिं जीवाइओ तिय भंगो' ति, अयमर्थ:-- सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भंगः, तथोपशमश्रेणीत: प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते, ततश्च सप्रदेशाश्चाप्रदेशश्च। तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभंगकद्वयमिति, नारकादिषु तु प्रतीतमेव भंगकत्रयम्। ‘एगिदिएसु अभंगयं' ति भंगकानामभावोऽभंगकम्। सप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति। इह च सिद्धपदं नाध्येयमकषायित्वात् एवं क्रोधादिदण्डकेष्वपि। 'कोहकसाईहिं जीवेगिंदियवज्जो तियभंगो' त्ति अयमर्थः क्रोधकषायिद्वितीयदण्डके जीवपदे प्रथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भंगः शेषेषु त्रयः। ननु सकषायिजीवपदवत्कथमिह भंगत्रयं न लभ्यते? उच्यते इह मानमायालोभेभ्यो निवृत्ता: क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते। प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेकादयो। यथोपशमश्रेणीत: प्रच्यवमाना: सकषायित्वं प्रतिपत्तार इति। 'देवेहिं छब्बभंग' त्ति देवपदेषु त्रयोदशस्वपि षड् भंगाः। तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः संभवादिति। मानकषायमायाकषायिद्वितीयदण्डके 'नेरइयदेवेहिं छब्बभंग' ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भंगा भवन्तीति। 'लोहकसाईहिं जीवेगेंदियवज्जो तिययंगो' त्ति एतस्य क्रोधसूत्रवद्भावना, 'नेरइएहि छब्भंग' त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ता: षड् भंगा भवन्तीति। आह च"कोहे माणे माया बोद्धव्वा सुरगणेहिं छब्भंगा। माणे माया लोभे नेरइएहि पि छन्भंगा।" देवा लोभप्रचुरा, नारका: क्रोधः प्रचुरा इति। अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भंगत्रयमन्येषामसंभवात्, एतदेवाह —'अकसाई' इत्यादि। 'ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगो' त्ति, औघिकज्ञानं—मत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भंगाः पूर्वोक्ता भवन्ति, तत्रौघिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति। 'विगलेंदिएहिं छब्भंग' त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसंभवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड्भंगा:, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भंगत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रिया: सिद्धाश्च न वाच्या:। मन:पर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्या:, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः। अतएव वाचनान्तरे दृश्यते 'विण्णेयं जस्स जं अत्थि' त्ति। 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभंगी भवति। एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः। यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसंभवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभंगद्वयमित्येवं भंगत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशश्चेत्येक एवेत्यत आह‘एगिंदयवज्जो तियभंगो' त्ति इह च त्रयेऽपि सिद्धा न वाच्याः, विभंगे तु जीवादिषु भंगत्रयं तद्भावना च मत्यज्ञानादिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति। 'सजोई जहा ओहिओ' ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौघिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा। बहवस्तु जीवा: सप्रदेशा एव, नारकाद्यास्तु त्रिभंगवन्त:, एकेन्द्रिया: पुनस्तृतीयभंगा इति, इह सिद्धपदं नाध्येयम्। 'मणजोई' इत्यादि मनोयोगिनो योगत्रयवन्त: संज्ञिन इत्यर्थः। वाग्योगिन एकेन्द्रियवर्जा: काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः एतेषु च जीवादिषु त्रिविधो भंगः। तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः। अमनोयोगित्वादित्यागाच्च मनोयोगित्वाधुत्पादेनाप्रदेशत्वलाभेऽन्यद्भगकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभंगकं, सप्रदेशा अप्रदेशाश्चेत्येक एव भंगक इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासंभव १. अप्रतौ त्रिभंगा: Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy