________________
श.६: उ.४: सू.६३
५३६
भगवती वृत्ति
स्यात् सप्रदेश इत्याधुच्यते। पृथक्त्वदण्डके विशेषमाह'अणाहारगा ण' मित्यादि जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जा: तान् वर्जयित्वेत्यर्थः जीवपदे एकेन्द्रियपदे च 'सपएसा य अपएसाये' त्येवंरूप एक एव भंगको, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्। नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकद्यादीनामनाहारकाणां भावात् षड्भंगिकासंभवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, केवलैकवचनभंगकाविह न स्त:, पृथक्त्वस्याधिकृतत्वादिति। 'सिद्धेहिं तियभंगो' त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव संभवात्, भवसिद्वी य अभवसिद्धी य जहा ओहिय' त्ति, अयमर्थःऔधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात् सप्रदेश: नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवा: सप्रदेशा एव, नारकाद्यास्तु त्रिभंगवन्त: एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभंगा एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपत्तेरिति। तथा 'नो भवसिद्धि य नो अभवसिद्धि य', त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयम्। तत्र चाभिलाप:-'नो भवसिद्धिए नो अभवसिद्धिए णं भंते! जीवे सपएसे अपएसे इत्यादि, एवं पृथक्त्वदण्डकोऽपि केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति। इह च पृथक्त्वदण्डके पूर्वोक्तं भंगकत्रयमनुसतव्यमत एवाहजीवसिद्धेहिं तियभंगो त्ति। संज्ञिषु यौ दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भंगत्रयं भवतीत्यत आह—'सण्णीहि' इत्यादि, तत्र संज्ञिनो जीवा: कालत: सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशाश्चेति स्यात्। बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्। तदेवं भंगकत्रयमिति। एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेषु संज्ञिविशेषणस्यासंभवादिति। 'असन्नीहिं' इत्यादि, अयमर्थ:-असंज्ञिषु-असंज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भंगकत्रयं प्राग्दर्शितमेव वाच्यम्। पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि संभवात् , नैरयिकादीनां व व्यन्तरान्तानां संज्ञिनामप्यसंज्ञित्वमसंज्ञिभ्य उत्पादाद्भूतभावतयावसेयम्। तथा नैरयिकादिष्वसंज्ञित्वस्य कादाचित्कत्वेनैकत्वबहुत्वसंभवात् षड् भंगका भवन्ति, ते च दर्शिता एव, एतदेवाह-'नेरइयदेवमणुए' त्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसंज्ञित्वस्यासंभवात्। तथा नोसंज्ञिनोअसंज्ञिविशेषणदण्डकयोर्द्वितीयदण्डके जीव
मनुजसिद्धपदेषक्तरूपं भंगकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनि संभवादिति। एतयोश्च दण्डकयोर्जीवमनुजसिद्धपदान्येव भवन्ति। नारकादिपदानां नोसंज्ञीनोअसंज्ञीतिविशेषणस्याघटनादिति। सलेश्यदण्डकद्वये
औघिकदण्डकवज्जीवनारकादयो वाच्याः। सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदं नाधीयते। सिद्धानामलेश्यलपति। कृष्णलेश्या नीललेश्या: कापोतलेश्याश्च जीवनारकादय. प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेता: सन्ति स एव वाच्यः, एतदेवाह-'कण्हलेसे' त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति। सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भंगा: पृथिव्यब्वनस्पतिषु' पुन: षड् भंगाः। यत एतेषु तेजोलेश्या एकादयो देवा: पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति। सप्रदेशानामप्रदेशानां चैकत्वबहुत्व संभव इति। 'एतदेवाहतेउलेसाए' इत्यादि इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति। पद्मलेश्याशुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भंगकास्तदेवाह-'पम्हलेसे' इत्यादि, इह च पंचेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्य सिद्धपदान्येवोच्यन्ते। अन्येषामलेश्यत्वस्यासंभवात्। तत्र च जीवसिद्धयोभंगकत्रयं तदेवं, मनुष्येषु तु षड् भंगाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां संभवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहिं' इत्यादि। सम्यग्दृष्टिदण्डकयो: सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु सप्रदेशत्वम् तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भंगाः, तथैव विकलेन्द्रियेषु तु षड्यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽत: सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहत्वसम्भव इति। एतदेवाह - 'सम्मदिट्ठीही' त्यादि इहैकेन्द्रियपदानि न वाच्यानि, तेषु सम्यग्दर्शनाभावादिति। 'मिच्छद्दिट्ठीहिं' इत्यादि मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु तु त्रयो भंगा:-मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादय: सम्भवन्तीति कृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति। सम्यग्मिथ्यादृष्टिबहुत्वदण्डके 'सम्मामिच्छद्दिट्ठीहिं' छब्भंगा' अयमर्थः - सम्यमिथ्यादृष्टित्वं प्रतिपन्नका: प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भंगा भवन्तीति। इह चैकन्द्रिय
१. अप्रतौ पृथिव्यंबुवनस्पतिषु
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org