________________
भगवती वृत्ति
६ / ५२ ' इत्थी वेयगा संखेज्जगुणे' त्ति यतो देवनरतिर्यक्पुरुषेभ्यः तस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति। 'अवेयगा अणंतगुण' त्ति अनिवृत्तिबादरसम्परायादयः सिद्धाश्चावेदा अत स्त्रीवेदेभ्योअनन्तगुणा भवन्ति । 'नपुंसगवेयगा अनंतगुण' त्ति अनन्तकायिकानां सिद्धेभ्योऽनन्तगुणानामिह गणनादिति । 'एएसिं सव्वेसि' मित्यादि 'एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षया अल्पबहुत्त्वमुच्चारयितव्यम् । तद्यथा— एएसि णं भंते! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजय नोसंजयासंजयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनोअसंजयनोसंजयासंजया अनंतगुणा असंजया अनंतगुणा इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं एतदेवाह—'जाव सव्वत्थोवा जीवा अचरिमें' त्यादि अत्राचरमा अभव्याः । चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति— सेत्स्यस्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः यस्माद् भव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एवं सेत्स्यन्त्यनागताद्धायामिति ।।
।। षष्ठशते तृतीयोद्देशकः ॥
५३५
चतुर्थ उद्देशकः
अनन्तरोद्देशके जीवो निरूपितोऽथ चतुर्थोद्देशकेऽपि तमेव भंग्यन्तरेण निरूपयन्नाह—
६/५४ 'जीवे ण' मित्यादि 'कालायसेणं' ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे' त्ति सविभागः 'नियमा सपएसे' त्ति अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः, द्वयादिसमयस्थितिस्तु सप्रदेश: इह चानया गाथया भावना कार्या
"जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो ।
अणम्मि वट्टमाणो कालाएसेण सपएसो ॥'
नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेश: ट्र्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तम् —
६/५५ 'सिय सप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते—
Jain Education International
श. ६ : उ. ३ : सू. ५२- उ. ४: सू. ६३ ६/५८ 'सव्वे वि ताव होज्ज सपदेस' त्ति उपपातविरहकालेऽसंख्यातानां पूर्वोत्पन्नानां भावात् सर्वेऽपि सप्रदेशा भवेयुः तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च ट्र्यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते - 'सपएसा य अपएसे य' त्ति एवं यदा बहव उत्पद्यमाना भवन्ति तदोच्यते 'सपएसा य अपएसा य' त्ति उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह
"एगो व दो व तिण व संखमसंखा व एगसमएणं । उववज्जन्तेवइया उव्वट्टंतावि एमेव ।। "
६/६० 'पुढविकाइया ण' मित्यादि एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात्, 'सपएसावि अपएसावी' त्युच्यते । ६ / ६२ 'सेसा जहा नेरइए' त्यादि यथा नारका अभिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना वाच्याः सर्वेषामेषां विरहसंभवादेकाद्युत्पत्तेश्चेति । एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रम
श्चायम्-
६ / ६३ ' आहारए णं भंते! जीवे कालाएसेणं किं सपएसे अपएसे ? गोयमा ! सिय सपएसे सिय अपएसे' इत्यादि स्वधिया वाच्यः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते ' सिय सपएसे सिय अपएसे' त्ति एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु नियमा सपएसे त्ति वाच्यम्।
पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः - आहारया णं भंते! जीवा काला सेणं किं सपएसा अपएसा ? गोयमा ! सपएसा वि अपएसावि 'त्ति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं, तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसंभवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तम्, एवं पृथिव्यादयोप्यध्येयाः । नरकादयः पुनर्विकल्पत्रयेण वाच्या:, तद्यथा - आहारयाणं भंते! नेरइया किं सपएसा अपएसा ? गोयमा! सव्वेऽवि ताव होज्ज सपएसा अहवा सपएसा य अपएसे य, अहवा सपएसा य अपएसा ये' त्ति। एतदेवाह - आहारगाणं जीवेगिंदियवज्जो तियभंगो' जीवपदमेकेन्द्रियपदपंचकं च वर्जयित्वा त्रिकरूपो भंग: त्रिकभंगो-भंगत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं तेषामनाहारकत्वात्, अनाहारकदण्डकद्वयमप्येवमनुसरणीयं तत्र अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात् स च अनाहारकत्वप्रथमसमयेऽप्रदेश: द्वितीयादिषु तु सप्रदेशस्तेन
For Private & Personal Use Only
www.jainelibrary.org