________________
श. ६ : उ. ३ : सू. ४१-५१
६/४१ 'हेट्ठिल्ला तिणि भयणाए' त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति, वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम् 'उवरिल्ले न बंधइ' त्ति केवलदर्शनी भवस्थः सिद्धो वा न बध्नाति, हेत्वभावादित्यर्थः ‘वेयणिज्जं हेट्ठिल्ला तिण्णि बंधंति' त्ति आद्यास्त्रयो दर्शनिनश्छद्मस्थवीतरागाः सरागाश्च वेदनीयं बध्नन्त्येव, 'केवलदंसणी भयणाए' त्ति केवलदर्शनी सयोगिकेवली बध्नाति अयोगिकेवली सिद्धश्च वेदनीयं न बध्नातीति भजनयेत्युक्तम्।
पर्याप्तकद्वारे
६/४२ ‘पज्जत्तए भयणाए' त्ति पर्याप्तको वीतरागः सरागश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति, सरागस्तु बध्नाति ततो भजनयेत्युक्तम्। 'नोपज्जत्तए नोअपज्जत्तए न बंधइ' त्ति सिद्धो न बध्नातीत्यर्थः । 'आउगं हेट्ठिल्ला दो भयणाए' त्ति पर्याप्तकापर्याप्तकौ आयुस्तद्बन्धकाले बध्नीतोऽन्यदा भजना । 'उवरिल्ले ने' त्ति सिद्धो न बध्नातीत्यर्थः । भाषकद्वारे-नेति
६/४३ 'दो वि भयणाए' त्ति भाषको भाषालब्धिमांस्तद्न्यस्त्वभाषकः ।
तत्र भाषको वीतरागो ज्ञानावरणीयं न बध्नाति सरागस्तु बध्नाति, अभाषकस्त्वयोगी सिद्धश्च न बध्नाति । पृथिव्यादयो विग्रहगत्यापन्नाश्च बध्नन्तीति। 'दो वि भयणाए' इत्युक्तं 'वेयणिज्जं भासए बंधइ' त्ति सयोग्यवसानस्यापि भाषकस्य सवेदनीयबन्धकत्वात् 'अभासए भयणाए' त्ति अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादिकस्तु बध्नातीति भजना । परीत्तद्वारे --
६/४४ 'परित भयणाए' त्ति 'परितः' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यात् न चासौ ज्ञानावरणीयं बध्नाति सरागपरीतस्तु बध्नातीति भजना । 'अपरित्ते बंधइ' त्ति । 'अपरीत्त: ' साधारणकायोऽनन्तसंसारो वा, स च बध्नाति 'नोपरित्ते नो अपरित्ते न बंधइ' त्ति सिद्धो न बध्नातीत्यर्थः 'आउयं परित्तोवि अपरित्तोवि भयणाए' त्ति प्रत्येकशरीरादिः आयुर्बन्ध काल एवायुर्बध्नातीति न तु सर्वदा ततो भजनेति । सिद्धस्तु न बध्नात्येवेत्यतः आह— 'णो परित्ते' इत्यादि ।
ज्ञानद्वारे
६/४५ 'हेट्ठिल्ला चत्तारि भयणाए' त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बध्नन्तीति सरागावस्थायां तु बध्नन्तीति भजना | 'वेयणिज्जं हेट्ठिल्ला चत्तारि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य
Jain Education International
५३४
भगवती वृत्ति
बन्धकत्वात् । 'केवलनाणी भयणाए' त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबंधनाद्भजनेति । योगद्वारे
६/४७ 'हेट्ठिल्ला तिण्णिभयणाए' त्ति मनोवाक्काययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बध्नन्ति, तदन्ये तु बध्नन्तीति भजना। 'अजोगी न बंधइ' त्ति अयोगी केवली सिद्धश्च न बध्नातीत्यर्थः । 'वेयणिज्जं हेट्ठिल्ला बंधंति' त्ति मनोयोग्यादयो बध्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात् । 'अयोगी ण बंधइ' त्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति ।
उपयोगद्वारे
६/४८ 'अट्ठसुवि भयणाए' त्ति साकारानाकारेति भजनेति । आहारकद्वारे
६/४९ 'दोवि भयणाए' त्ति आहारको वीतरागोऽपि भवति न ज्ञानावरणं बध्नाति सरागस्तु बध्नातीति आहारको भजनया बध्नाति, तथाऽनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बध्नाति, इतरस्तु बध्नातीति, अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधइ' त्ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् । 'अणाहारए भयणाए' त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति अयोगी सिद्धश्च न बध्नातीति भजना 'आउए आहारए भयणाए त्ति आयुर्बन्धकाल एवायुषो बन्धनात् अन्यदा त्वबंधनात् भजनेति । 'अणाहार ण बंधति' त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ।
सूक्ष्मद्वारे
६/५० 'बायरे भयणाए' त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद् भजनेति । सिद्धस्य पुनरबन्धकत्वादाह—‘नो सुहुमे' इत्यादि, 'आउ सुहुमे बायरे भयणाए' ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ।
चरमद्वारे
६/५१ 'अट्ठ वि भयणाए' त्ति इह यस्य चरमो भवो भविष्यति स चरमः। यस्य तु नासौ भविष्यति सोऽचरमः सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बघ्नाति अयोगित्वे तु नेत्येवं भजना। अचरमस्तु संसारी अष्टापि बध्नाति सिद्धस्तु, नेत्येवमत्रापि भजनेति ।
अथाल्पबहुत्त्वद्वारं, तत्र
For Private & Personal Use Only
www.jainelibrary.org