________________
भगवती वृत्ति
६ / ३४ 'तिणि य वाससहस्साइं अबाहा अबाहूणिया कम्मठिई कम्मनिगो 'ति' बाधृ लोडने बाधत इति बाधा - कर्मण उदयः न बाधा अबाधा --- कर्मणो बन्धस्योदयस्य चान्तरम् अबाधया— उक्तलक्षणया ऊनिका अबाधोनिका कर्म्मस्थिति: कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभवनार्थं रचनाविशेषः, तत्र च प्रथमसमये बहुकं निषिंचति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिंचति। तथा चोक्तम्—
५३३
१. "मोत्तूण सगमबाहं पढभाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जा उक्कोसंति सव्वासिं ।। " इदमुक्तं भवति - बद्धमपि ज्ञानावरणं कर्म त्रीणि वर्ष सहस्राणि यावदवेद्यमानमास्ते, ततस्तन्न्यूनोऽनुभवनकालस्तस्य, सच वर्षसहस्त्रत्रयन्यूनस्त्रिंशत्सागरोपमकोटीकोटीमान इति । 'अन्ये त्वाहुः—अबाधाकालो वर्षसहस्रत्रयमानो बाधा कालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः तद्वितयमपि च कर्मस्थितिकाल:, स चाबाधाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुषि त्रयस्त्रिंशत्सागरोपमाणि निषेक:, पूर्वकोटीत्रिभागश्चाबाधाकाल इति । 'वेयणिज्जं जहणेणं दो समय त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते 'वेयणियस्स जहण्णा बारस नामगोयाण अट्ठ ( उ ) मुहुत्त 'त्ति तत्सकषायस्थितिबन्धमाश्रित्येति वेदितव्यमिति । स्त्रीद्वारे
६ / ३५ 'णाणावरणिज्जं णं भंते! कम्मं किं इत्थी बंधइ' इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवर्ती भवति, तत्र चानिवृत्तिबादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धकौ सप्तविधषड्विधबन्धकत्वात् उपशान्तमोहादिष्वबंधक एकविधबन्धकत्वात्, अत उक्तं स्याद् बध्नाति स्यान्न बध्नातीति।
६ / ३६ 'आउगं णं भंते!' इत्यादिप्रश्नः, तत्र स्वयादित्रयमायुः स्याद् बध्नाति स्यान्न बध्नाति, बन्धकाले बध्नाति, अबन्धकाले तु नबध्नाति, आयुषः सकृदेवैकत्र भवे बन्धात्, निवृत्तस्त्र्यादिवेदस्तु न बध्नाति निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्बन्धस्य व्यवच्छिन्नत्वात्।
संयतद्वारे
६/३७ 'णाणावरणिज्ज' मित्यादि, 'संयतः ' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं बध्नाति यथाख्यातसंयतस्तूपशान्तमोहादिर्न
Jain Education Intemational
श. ६ : उ. ३ : सू. ३४-४०
'बध्नाति । अत उक्तं 'संजए सिये' त्यादि । असंयतो मिथ्यादृष्ट्यादिः संयतासंयतस्तु देशविरतस्तौ च बध्नीतः, निषिद्धसंयमादिभावस्तु सिद्धः । स च न बध्नाति हेत्वभावादित्यर्थः । 'आउगे हेल्ला तिन्नि भयणाएँ' त्ति संयतोऽसंयतः संयतासंयतचायुर्बन्धका बध्नाति अन्यदा तु नेति भजनयेत्युक्तम् 'उवरिल्ले ण बंधइ' त्ति संयतादिषूपरितनः सिद्धः स चायुर्न बध्नाति । सम्यग्दृष्टिद्वारे
६/३८ सम्मद्दिट्ठी सिय' त्ति सम्यग्दृष्टि: वीतरागस्तदितरश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति, एकविधबन्धकत्वात् इतरश्च नातीति स्यादित्युक्तं मिथ्यादृष्टिमिश्रदृष्टी तु बध्नीत एवेति, 'आउए हेट्ठिल्ला दो भयणाए' त्ति सम्यग्दृष्टिमिथ्यादृष्टि आयुः स्याद्बध्नीत स्याद् न बध्नीत इत्यर्थः तथाहिसम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तद्बध्नाति अन्यदा तु न बध्नाति एवं मिथ्यादृष्टिरपि । मिश्र दृष्टिस्त्वायुर्न बध्नात्येव तद्बन्धाध्यवसायस्थानाभावादिति । संज्ञिद्वारे
६/३९ 'सण्णी सिय बंधइ' ति संज्ञी मनः पर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम् । 'असण्णी बंधइ' ति मनःपर्याप्तिविकलो बध्नात्येव 'नो सण्णी नो असण्णी' ति केवली सिद्धश्च न बध्नाति हेत्वभावात् । 'वेयणिज्जं हेट्ठिल्ला दो बंधंति' त्ति संज्ञी असंज्ञी च वेदनीयं बध्नीत अयोगीसिद्धवर्जानां तबन्धकत्वात्। 'उवरिल्ले भयणाए' त्ति उपरितनो नो संज्ञी नोअसंज्ञी, स च सयोगायोगकेवली सिद्धश्च । तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति । यदि पुनरयोगकेवली सिद्धो वा तदा न बध्नाति, अतो भजनयेत्युक्तम्। 'आउगं हेट्ठिल्ला दो भयणाए' त्ति संज्ञी असंज्ञी चायुः स्याद् बध्नीतः, अन्तर्मुहूर्त्तमेव तद्बन्धनात्। 'उवरिल्ले न बंधइ' त्ति केवली सिद्धश्चायुर्न बध्नातीति।
भवसिद्धिकद्वारे—
६/४० ' भवसिद्धए भयणाए' त्ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु भव्यो बध्नातीति भजनयेत्युक्तं । ‘नो भवसिद्धिए नोअभवसिद्धिए' त्ति सिद्धः । स च न बध्नाति । ‘आउयं दो हेट्ठिल्ला भयणाए’ त्ति भव्योऽभव्यश्चायुर्बन्धकाले बध्नीतोऽन्यदा तु न बध्नीत इत्यतो भजनयेत्युक्तम्। 'उवरिल्ले न बंधइ' त्ति सिद्धो न बध्नातीत्यर्थः ।
दर्शनद्वारे
For Private & Personal Use Only
www.jainelibrary.org