________________
श.६ : उ. ३ : सू.२०-३२
५३२
भगवती वृत्ति
तृतीय उद्देशकः अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिता: इह तु बन्धादित: इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसंग्रहगाथाद्वयम् १. "बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए।
कम्मद्वितीत्थिसंजय सम्मट्ठिी य सन्नी य॥ २. भविए दंसण पज्जत्ते भासअपरित्त नाण जोगेय।
उवओगाहारगसुहुमचरिमबंधी य अप्पबहुं॥" 'बहुकम्मे' त्यादि, 'बहुकम्म' त्ति महाकर्मणः सर्वत: पुद्गला बध्यन्ते इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा य' त्ति यथा वस्त्रे पद्गलाः प्रयोगतो विश्रसातश्च चीयन्ते किमेवं जीवानामपीति वाच्यम्। 'साइए' त्ति वस्त्रस्य सादि: पुद्गलचयः एवं किं जीवानामप्यसौ? इत्यादि प्रश्नः, उत्तरं च वाच्यम्—'कम्मट्ठिइ' ति कर्मस्थितिर्वाच्या, "थिइ' त्ति किं स्त्रीपुरुषादिर्वा कर्म बध्नाति? इति वाच्यम् , 'संजय' त्ति किं संयतादि:? 'सम्मदिट्ठि' ति किं सम्यग्दृष्ट्यादिः? एवं संज्ञी भव्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः, 'बंधे य' त्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहु' ति एषामेव स्त्रीप्रभृतीनां कर्मबन्धकानां
परस्परेणाल्पबहुता' वाच्येति। तत्र बहुकर्माद्वारे६/२० 'महाकम्मस्से' त्यादि महाकर्मणः स्थित्याद्यपेक्षया 'महाक्रियस्य'
अलघुकायिक्यादिक्रियस्य, 'महाश्रवस्य' बृहन्मिथ्यात्वादिकर्मबन्धहेतुकस्य, 'महावेदनस्य' महापीडस्य ‘सर्वत:' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्ते-आसंकलनत: चीयन्ते-बन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनत: चीयन्ते-निधत्तत: उपचीयन्ते—निकाचनतः 'सया समियं' ति सदा सर्वदा' सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह—'समितं सन्ततं 'तस्स आय' त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः। 'अणि?त्ताए' त्ति इच्छाया अविषयतया 'अकंतत्ताए' त्ति असुन्दरतया 'अप्पियत्ताए' त्ति अप्रेमहेतुतया 'असुभत्ताए' त्ति अमांगल्यतयेत्यर्थर: 'अमणुन्नताए त्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्य-मनोज्ञस्तद्भावस्तत्ता तया 'अमणामत्ताए' त्ति न मनसा-अम्यते-गम्यते संस्मरणतोऽमनोऽम्मस्तद्भावस्तत्ता तया 'अणिच्छियत्ताए' त्ति अनीप्सिततया प्राप्तुमनभिवांछितत्वेन, 'अभिज्झियत्ताए' ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता तया 'अहत्ताए' त्ति जघन्यतया
'नो उड्डत्ताए' त्ति न मुख्यतया । ६/२१ 'अहयस्स व' त्ति अपरिभुक्तस्य 'धोयस्स व' त्ति परिभुज्यापि
प्रक्षालितस्य 'तंतुगयस्स व' त्ति तंत्रात्-तुरीवेमादेरपनीतमात्रस्य 'बझंती' त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां
च यथोत्तरं सम्बन्धप्रकर्ष उक्तः। ६/२२ 'भिज्जति' त्ति प्राक्तनसम्बन्धविशेषत्यागात् 'विद्धंसंति' त्ति
ततोऽधः पातात् 'परिविद्धंसंति' त्ति निःश्रेषतया पातात्, ६/२३ 'जल्लियस्स' त्ति जल्लितस्य यानलगतधर्मोपेतमलयुक्तस्य
'पंकियस्स' त्ति आर्द्रमलोपेतस्य 'मइल्लियस्स' त्ति कठिनमलयुक्तस्य 'रइल्लियस्स' ति रजोयुक्तस्य, 'परिकम्मिज्ज
माणस्स' त्ति क्रियमाणशोधनार्थोपक्रमस्य।। ६/२४ वस्त्रेत्यादिद्वारे ‘पओगसा वीससा यत्ति छान्दसत्वात् 'प्रयोगेण
पुरुषव्यापारेण 'विश्रसया' स्वभावेनेति। ‘जीवाणं कम्मोवचए पओगसा णो वीसस' त्ति प्रयोगेणैव अन्यथाऽप्रयोगस्यापि बन्धप्रसंगः।
सादिद्वारे६/२९ 'ईरियावहियबंधयस्से' त्यादि, ईर्यापथो-गमनमार्गस्तत्र
भवमैर्यापथिकं, केवलयोगप्रत्ययं कर्मेत्यर्थः तद्बन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वम्,
अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्यवसितत्वम् ६/३२ 'गतिरागई पडुच्च' ति नारकादिगतौ गमनमाश्रित्य सादयः
आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडुच्च साइया अपज्जवसिय' त्ति इहाक्षेपपरिहारावेवम्१. "साईअपज्जवसिया सिद्धा न य नाम तीयकालंमि।
आसि कयाइवि सुण्णा सिद्धी सिद्धेहिं सिद्धते।। २. सव्वं साइ सरीरं, न य नामादि मय देहसब्भावो।
कालाणाइत्तणओ जहा व राइंदियाइणं॥ ३. सव्वो साई सिद्धो न यादिमो विज्जइ तहा तं च।
सिद्धि सिद्धा य सया निद्दिट्ठा रोहपुच्छाए।" 'तं च' ति तच्च सिद्धानादित्वमिष्यते, यत: “सिद्धी सिद्धा ये' त्यादीति। 'भवसिद्धिया लद्धि' मित्यादि भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति। कर्मस्थितिद्वारे
१. स प्रतो बहुत्वता २. स प्रतौ अमंगल्यतयेत्यर्थः ३. अ प्रती विश्रसतया क्वचितमपि
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org