________________
भगवती वृत्ति
५३१
श.६: उ.१: सू.१- उ.२ : सू.१८
स्युस्तत: 'संपगाढ' मित्यादि ‘णो महापज्जवसाणा भवंति' त्ति अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशंकनीयमिति। तदेवं यो महावेदन: स महानिर्जर इति विशिष्ट जीवापेक्षमवगन्तव्यं न पुनर्नारकादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जर: स महावेदन इत्युक्तं तदपि प्रायिकं, यतो भवत्ययोगीमहानिर्जरो महावेदनस्तु भजनयेति। 'अहिगरणि' त्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति। 'आउडेमाणे' त्ति आकुट्टयन् ‘सद्देणं' ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुंकृतिरूपेण वा 'घोसेणं' ति तस्यैवानुनादेन 'परंपराघाएणं' ति परम्परा-निरन्तरता तत्प्रधानो घात:-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः। 'अहाबायरे' त्ति स्थूलप्रकारान् ‘एवामेवे त्याद्युपनये 'गाढीकयाई' इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति। 'सुद्धोयतराए' इत्यादि अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, 'अहाबायराइं' ति स्थूलतरस्कन्धान्यसाराणीत्यर्थः। 'सिढिलीकयाई' ति श्लथीकृतानि मन्दविपाकीकृतानि 'निट्ठियाई कयाई' ति निस्सत्ताकानि विहितानि 'विपरिणामियाई' ति विपरिणामं नीतानि स्थितिघातरसघातादिभिः। तानि च क्षिप्रमेव विध्वस्तानि भवन्ति, एभिश्च विशेषणैः सूविशोध्यानि भवन्तीत्युक्तं स्यात्ततश्च ‘जावइय' मित्यादि। अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं तत्र 'कम्मकरणं' त्ति कर्मविषयं करणं-जीववीर्यं बन्धनसंक्रमादि
निमित्तभूतं कर्मकरणं। ६/१३ 'वेमायाए' त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः।
'महावेयणे' इत्यादि। संग्रहगाथा गतार्था।
।। षष्ठे शते प्रथमोद्देशकः ।।
६/१
अथ षष्ठं शतकम्
प्रथमः उद्देशकः व्याख्यातं विचित्रार्थ पञ्चमं शतम्, अथावसरायातं तथाविधमेव षष्ठमारभ्यते। तस्य चोद्देशकार्थसंग्रहणी गाथेयम्'वेयणे' त्यादि, तत्र 'वेयण' ति महावेदनो महानिर्जर 'इत्याद्यर्थप्रतिपादनपरः प्रथमः, 'आहार' त्ति आहाराद्यर्थाभिधायको द्वितीयः, 'महस्सवे य' त्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः, 'सपएस' ति सप्रदेशो जीवोऽप्रदेशो वा इत्याद्यर्थाभिधायकश्चतुर्थः, ‘तमुए य' ति तमस्कायार्थनिरूपणार्थ: पञ्चमः, 'भविए' त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद् वक्तव्यताऽनुगत: षष्ठः, सालि' त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः, 'पुढवि' त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः, 'कम्म' त्ति कर्मबन्धाभिधायको नवमः, 'अण्णउत्थि' ति अन्ययथिकवक्तव्यताओं दशम इति। 'से गुणं भंते! जे महावेयणे' इत्यादि, 'महावेदन': उपसर्गादिसमुद्भूतविशिष्टपीड: 'महानिर्जर:' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिज्जरे' इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् य: प्रशस्तनिर्जराक: कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादवगम्या, हन्तेप्याद्युत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति। यो महावेदन: स महानिर्जर
इति यदुक्तं तत्र व्यभिचारं शंकमान आह६/२ 'छट्ठी' त्यादि ६/४ 'दुद्धोयतराए' त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए' त्ति
'दुर्वाम्यतरकं' दुस्त्याज्यतरकलंक 'दुप्परिकम्मतराए' त्ति कष्टकर्त्तव्यतेजोजननभंगकरणादिप्रक्रिय, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाई' ति
आत्मप्रदेशैः सह गाढबद्धानि सन् सूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाई' ति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसंबंधकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् 'सिलिट्ठीकयाई' ति निधत्तानि सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः। विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च ‘एवामेवे' त्याधुपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि
द्वितीय उद्देशकः अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि
भवन्तीति ६/१८ आहारोद्देशक
स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-'नेरइयाणं भंते! किं सच्चित्ताहारा अच्चित्ताहारा मीसाहारा?' गोयमा! नो सचित्ताहारा, अचित्ताहारा, नो मीसाहारा इत्यादि।
।। षष्टशते द्वितीयोद्देशकः ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org