________________
भगवती वृत्ति
'पुढवी वि नगर' मित्यादि पृथिव्यादिसमुदायो राजगृहं, न पृथिव्यादिसमुदायावृते राजगृहशब्दप्रवृत्तिः
५/२३६ 'पुढवी जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चइ' त्ति जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति प्रोच्यत इति ।
पुद्गलाधिकारादिदमाह– ५/२३७ 'से णूण' मित्यादि
५/२३८ ‘दिवा सुभा पोग्गल' त्ति दिवा दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ? शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात् 'रत्तिं' ति रात्रौ ।
५/२४० 'नेरइयाणं असुभा पोग्गल' इति तत्क्षेत्रस्य पुद्गल - शुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात्
५/२४२ 'असुरकुमाराणं सुभा पोग्गल' त्ति तदाश्रयादीनां भास्वरत्वात् ५/२४३ 'पुढविकाइए' इत्यादि पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा
नैरयिका उक्तास्तथा वाच्याः, एषां द्वि नास्त्युद्द्योतः अन्धकारं चास्ति, पुद्गलानामशुभत्वात् इह चेयं भावना एतत्क्षेत्रे रविकरादिसम्पर्के सत्यपि एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावाच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति ।
५२९
५/२४५ ‘चउरिंदियाणं सुभासुभे पोग्गल' त्ति एषां हि चक्षुः सद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति । पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम् — ५/२४८ ‘तत्थ गयाणं’ ति नरकैः स्थितैः षष्ठ्यास्तृतीयार्थत्वात्, 'एवं पण्णायति' त्ति एवं हि प्रज्ञायते, इदं विज्ञायते, 'समया इव' त्ति समया इति वा
५ / २४९ 'इह तेसिं' ति इह मनुष्यक्षेत्रे तेषां समयादीनां मानं परिमाणं, आदित्यगतिसमभिव्यंगित्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्रे एव भावात् नरकादौ त्वभावादिति, 'इहं तेसिं पमाणं' ति इह मनुष्यक्षेत्रे तेषां - समयादीनां प्रमाणं - प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः । तत्र महूर्त्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं
यं यावत्समय इति । ततश्च इह तेसिमित्यादि, इह मर्त्यलोके मनुजैस्तेषां—समयादीनां सम्बन्धी एवं वक्ष्यमाणस्वरूपं समयस्वाद्येव ज्ञायते, तद्यथा - 'समया इति वे' त्यादि, इह च समयक्षेत्राद्बहिर्वर्त्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयम् ।
Jain Education Intemational.
श. ५: उ. ९ : सू. २३५-२५५
तत्र समयादिकालस्याभावेन तद्व्यवहाराभावात् ।
५/२५० - २५३ तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति, तथापि तेऽल्पाः प्रायस्तद्व्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥
कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरुपणार्थ
मिदमाह
५ / २५४ 'तेणं कालेण' मित्यादि, तत्र असंखेज्ने लोए 'त्ति असंख्यातेऽसंख्यातप्रदेशात्मकत्वात् लोके – चतुर्दशरज्ज्वात्मके क्षेत्रलोके आधारभूते 'अणंता राईदिय' त्ति अनन्तपरिमाणानि रात्रिंदिवानि – अहोरात्राणि 'उप्पज्जिंसु वा' इत्यादि उत्पन्नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः -- यदि नामासंख्यातो लोकस्तदा कथं तत्रानन्तानि तानि भवितुमर्हन्ति ? अल्पत्वादाधारस्य महत्त्वाच्चाधेयस्येति । तथा 'परित्ता राईदिय' त्ति परीत्तानिनियतपरिमाणानि नानन्तानि, इहायमभिप्राय : – यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोध:, अत्र हन्तेत्याद्युत्तरं, अत्र चायमभिप्रायः -- असंख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता जीवा वर्त्तते, उत्पद्यन्ते विनश्यन्ति च स, च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते तत्स्थितिलक्षणपर्यायरूपत्त्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवं चासंख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति।।
एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह— ५/२५५ से णूण 'मित्यादि' 'भे' त्ति भवतां सम्बन्धिना 'अज्जो' त्ति हे आर्या! 'पुरिसादाणीएणं' ति पुरुषाणां मध्ये आदानीयः - आदेय पुरुषादानीयस्तेन ‘सासए' त्ति प्रतिक्षणस्थायी स्थिर इत्यर्थः 'बुइए' ति उक्तः । स्थिरश्चोत्पत्तिक्षणादारम्य स्यादित्यत आह- 'आणाइए' ति अनादिकः स च सान्तोऽपि स्याद्भव्यत्ववदित्याह—‘अनवयग्गे' त्ति अनवदग्रः - अनन्तः 'परित्ते' त्ति परिमितः प्रदेशतः अनेन लोकस्यासंख्येयत्वं पार्श्वजिनस्यापि सम्मतमिति दर्शितम् । तथा 'परिवुडे' त्ति अलोकेन परिवृत: 'हेट्ठाविच्छिण्णे' त्ति सप्तरज्जुविस्तृतवात् । 'मज्झे संखित्ते' त्ति एकरज्जुविस्तारत्वात् । ' उप्पिं विसाले' त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्। एतदेवोपमानतः प्राह- 'अहे पलियंकसंठिए' त्ति उपरिसंकीर्णत्वाधो
For Private & Personal Use Only
www.jainelibrary.org