________________
श.५: उ.८: सू.२०६-उ.९: सू. २३५
५२८
भगवती वृत्ति
३० "अहवा खेत्ताईणं जमप्पएसाणं हायए कमसो।
तंचिय खेत्ताईणं परिवड्डइ सप्पएसाणं ॥" ३१. अवरोपरप्पसिद्धा वुड्डी हाणी य होई दोण्हंपि।
अपएससप्पएसाणं पोग्गलाणं सलक्खणओ।। ३२. ते चिय विय ते चउहिं वि जमुवचरिज्जति पोग्गला दुविहा।
तेण उ वुड्डी हाणी तेसिं अण्णोण्णसिद्धा॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्ता: इति विशेष्यन्ते ३३. एएसिं रासीणं निदरिसणमिणं भणामि पच्चक्खं।
वुद्धीए सव्वपोग्गल जाव तावाण लक्खाओ। कल्पनया यावन्त: सर्वपुद्गलास्तावतां लक्षम् इति। ३४. एक्कं च दो य पंच य दस य सहस्साई अप्पएसाणं।
भावाईण कमसो चउण्हवि जहोवइट्ठाण।। ३५. णउई पंचाणउई अट्ठाणउई तहेव नवनवई।
एवइयाइं सहस्साई सप्पएसाण विवरीयं ।। ३६. एएसिं जहासंभवमत्थोवणयं करिज्ज रासीणं।
सब्भावओ य जाणिज्जा ते अणंते जिणाभिहिए॥" अनन्तरं पुद्गला निरूपितास्ते च जीवोपग्राहिण इति
जीवांश्चितयन्नाह५/२०८ 'जीवा ण' मित्यादि ५/२१५ 'नेरइया णं भंते! केवतियं कालं अवट्ठिया? गोयमा! जहण्णेणं
एक्कं समयं उक्कोसेणं चउवीसमहत्तं' ति, कथं? सप्तस्वपि पृथिवीषु द्वादश मुहुर्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते चोत्कृष्टतो विरहकालस्यैवंरूपत्वात् अन्येषु पुनादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभावम् इत्यर्थः एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्त्तनाविकालश्चतुर्विंशतिमुहूर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसंख्यानामुत्पादोद्वर्तना कालस्य मीलनाद् द्विगुणित: सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्तादिक: सूत्रोक्तो भवति। विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य
समानानामुत्पादोवर्तनकाल इति। ५/२२३ 'आणयपाणयाणं संखेज्जा मासा आरणच्चुयाणं संखेज्जा
वास' त्ति इह विरहकालस्य संख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्वमेवेत्यत: संख्याता मासा इत्याधुक्तम् ‘एवं गेवेज्जदेवाणं' ति इह यद्यपि ग्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमेव लक्षाणि विरह उच्यते, तथापि द्विगुणितेऽपि च संख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसंख्यातकालो विरहः स च द्विगुणितोऽपि स एव सर्वार्थसिद्धे पल्योपमसंख्येयभागः सोऽपि द्विगुणित: संख्येयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साई' इत्यादीति।
जीवादीनेव भंग्यन्तरेणाह५/२२५ ‘जीवा ण मित्यादि 'सोपचया:' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात्
'सापचयाः प्राक्तनेभ्य: केषांचिदुद्वर्तनात्सहानयः 'सोपचयसापचया:' उत्पादोद्वर्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् निरुपचयनिरपचया: उत्पादोवर्तनयोरभावेन वृद्धिहान्योरभावात् ननूपचयो वृद्धिरपचयस्तु हानि: युगपवयमद्वयं वाऽवस्थितत्वम्, एवं च शब्दभेदव्यतिरेकेण कोऽनयो सत्रयोर्भेद:? उच्यते पूर्वत्र परिणाममभिप्रेतम्, इह तु तदनपेक्षमुत्पादोद्वर्तनामात्र', ततश्चेह तृतीयभंगके पूर्वोक्तवृद्ध्यादिविकल्पानां त्रयमपि स्यात्, तथाहि बहतरोत्पादे वृद्धिर्बहत्तरोदवर्तने च हानि:, समोत्पादोदवर्तनयोश्चावस्थितित्वमित्येवं भेद इति। 'एगिंदिया तइयपए' त्ति सोपचयसापचया इत्यर्थः युगपुदुत्पादोद्वर्त्तनाभ्यां वृद्धिहानिभावात, शेषभंगकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्
वर्तनयोस्तविरहस्य चाभावादिति। ५/२३१ 'अवट्ठिएहि' ति निरुपचयनिरपचयेष 'वक्कंतिकालो' 'भाणियव्चो'
त्ति विरहकालो वाच्यः।।
॥ पञ्चमशते अष्टमोद्देशकः॥
इति।
५/२१९ ‘एगिंदिया वढंति वि' त्ति तेषु विरहाभावेऽपि बहुतराणा
मुत्पादादल्पतराणां चोद्वर्तनात् 'हायंति वि' त्ति बहुतराणामवर्तनादल्पतराणां चोत्पादात् 'अवट्ठिया वि' त्ति तुल्यानामुत्पादादुद्वर्तनाच्चेति, ‘एतेहिं तिहि वि' त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्धयादिष्वावलिकाया असंख्येयो भागस्ततः परं
यथायोगं वृद्ध्यादेरभावात्। ५/२२० 'दो अंतोमुहत्त' त्ति एकमन्तर्मुहूर्त विरहकालो द्वितीयं तु
नवम उद्देशकः इदं किलार्थजातं गौतमो राजगृहे प्राय: पृष्ठवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्रप्रपञ्चं नवमोद्देशक
माह५/२३५ 'तेण' मित्यादि 'जहा एयणद्देसए' त्ति एजनोद्देशकोऽस्यैव
पंचमशतस्य सप्तमः। तत्र पंचेन्द्रियतिर्यग्रवक्तव्यता 'टंका कूडा सेला सिहरी' त्यादिका योक्ता सा भणितव्येति। अत्रोत्तरं
१. अ स प्रतौ तदनुपेक्षमुत्पादोद्वर्त्तनमात्रं
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org