SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श.५: उ.८: सू.२०५-२०६ ५२६ भगवती वृत्ति निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह - 'जे खेत्तओ अप्पएसे' इत्यादि, य: क्षेत्रतोऽप्रदेशः स द्रव्यत: स्यात्सप्रदेशः, व्यणुकादेरप्येकप्रदेशावगाहित्वात् स्यादप्रदेश: परमाणोरप्येकप्रदेशावगाहित्वात्, ‘कालओ भयणाए' त्ति क्षेत्रतोऽप्रदेशो य: स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि -एकप्रदेशावगाढ: एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति। ‘भावओ भयणाए' त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति। अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह—'जहा खेत्तओ एवं कालओ भावओ' त्ति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ वाच्यः तथाहि 'जे कालओ' अप्पएसे से दवओ सिय सप्पएसे सिय अप्पएसे'। एवं क्षेत्रतो भावतश्च तथा—'जे भावओ अप्पएसे से दव्वओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति। उक्तोऽप्रदेशोऽथ सप्रदेशमाह-'जे दव्वओ सप्पएसे' इत्यादि, अयमर्थ:-यो द्रव्यतो व्यणुकादित्वेन सप्रदेश: स क्षेत्रतः स्यात्प्रदेशो द्व्यादिप्रदेशावगाहित्वात् स्यादप्रदेश एकप्रदेशावगाहित्वात्, एवं कालतो भावतश्च, तथा य: क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात् स द्रव्यत: सप्रदेश एव, द्रव्यतोऽप्रदेशस्य व्यादिप्रदेशावगाहित्वाभावात् कालतो भावतश्चासौ द्विधाऽपि स्यादिति, तथा य: कालत: सप्रदेश: स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावत: सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति। अथैषामेव द्रव्यादित: सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह५/२०६ ‘एएसि ण' मित्यादि सूत्रसिद्धं नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपंचो वृद्धोक्तोऽभिधीयते१. वोच्छं अप्पाबहुयं दव्यखेत्तद्धभावओ वावि। अपएससप्पएसाण पोग्गलाणं समासेणं॥ २. दवेणं परमाणू खेत्तेणेगप्पएस समोगाढा कालेणेगसमइया अपएसा पोग्गला होति।। ३. भावेणं अपएसा एगगुणा जे हवंति वण्णाई। वर्णादिभिरित्यर्थः ते च्चिय थोवा जं गुणबाहुल्लं पायसो दव्वे॥ द्रव्ये प्रायेण व्यादिगुणा अनन्तगुणान्ता: कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भाव: ४. "एत्तो कालाएसेण अप्पएसा भवे असंखगुणा। किं कारणं पुण भवे भण्णति परिणामबाहुल्ला ॥" अयमर्थः-यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसंघातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तबहुलत्वमिति। एतदेव भाव्यते५. "भावेणं अपएसा जे ते कालेण हुंति दुविहावि। दुगुणादओवि एवं भावेणं जावऽणंतगुणा॥" भावतो येऽप्रदेशा एक गुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति–सप्रदेशा अप्रदेशाश्चेत्यर्थः तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः एवमिति द्विविधा अपि भवन्ति, ततश्च६. "कालापएसयाणं एवं एक्केक्कओ हवति रासी। ___एक्केक्कगुणट्ठाणम्मि एगगुणकालयाईसु॥" एकगुणकालद्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति। अथ प्रेरकः ७. "आहाणंतगुणत्तणमेवं कालापएसयाणंति। ___जमणंतगुणट्ठाणेसु होति रासीवि हु अणंता॥" एवमिति—यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति। अत्रोत्तरम् ८. 'भण्णइ एगगुणाणवि अणंतभागंमि जं अर्णतगुणा। तेणासंखगुण च्चिय हवंति णाणंतगुणियत्तं।" अयमभिप्राय:---यद्यप्यनन्तगुणकालत्वादीनामनन्तराशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्तगुणत्वम् अपि त्वसंख्यात गुणत्वमेवेति। ९. "एवं ता भावमिणं पडुच्च कालापएसा सिद्धा। __परमाणुपोग्गलाइसु दव्वेवि हु एस चेव गमो॥" एवं तावत् भावं वर्णादिपरिणामं इमम् उक्तरूपमेकाद्यनन्तगुणस्थानवर्त्तिनमित्यर्थः प्रतीत्य कालाप्रदेशिका: पुद्गला: सिद्धाः, कालाप्रदेशता वा पुद्गलानां सिद्धा प्रतिष्ठिता द्रव्येऽपि द्रव्यपरिणाममप्यंगीकृत्य परमाण्वादिषु एष एव भावपरिणामोक्त एव गम:-व्याख्याः । १. अ प्रतौ एकैकस्थित Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy