________________
श. ५: उ. ७ : सू. १८१-१९१
९. " जम्हा तत्थऽण्णत्य व दव्वं ओगाहणाए तं चेव ।
दव्वद्धा संखगुणा तम्हा ओगाहणद्धाओ ।। "
अथ भावायुर्बहुत्वं भाव्यते
१०. "संघाय भेयओ वा दव्वोवरमेऽवि पज्जवा संति ।
तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ।। " संघातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा घृष्टपटे शुक्लादिगुणाः सकलगुणोपरमे तु न तद्द्रव्यं न चावगाहनाऽनुवर्त्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम् । अथ कस्मादेवमिति ? उच्यते
११. "संघाय भेयबंधाणुवत्तिणी निच्चमेव दव्वद्धा ।
न उ गुणकालो संघाय भेयमित्तऽद्धसंबद्धो ॥ " संघातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः - सम्बन्धस्तदनुवर्तिनी - तदनुसारिणी, संघाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गुणकालः संघातभेदमात्रकालसम्बद्धः संघातादिभावेऽपि गुणानामनुवर्त्तनादिति । अथ निगमनम् — १२. 'जम्हा तत्थऽण्णत्थ य दव्वे खेत्तावगाहणासुं च ।
ते चैव पज्जवा संति तो तदद्धा असंखगुणा ।। १३. आह अणेगतोऽयं दव्वोवरमे गुणाणऽवत्थाणं । गुणविष्परिणामंमि यदव्यविसेसो यऽनेगंतो ॥
द्रव्यविशेष: द्रव्यपरिणाम:
१४. विप्परिणयंमि दव्वे कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइ पुण गुणा परीणामी ॥ १५. भण्णति सच्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई ॥ " अनन्तरमायुरुक्तम्, अथायुष्मत आरंभादिना चतुर्विशितिदण्डकेन
प्ररूपयन्नाह -
५/१८२ ‘नेरइए' त्यादि
५/१८५ ‘भंडमत्तोवगरण' त्ति इह भाण्डानि - मृन्मयभाजनानि मात्राणि - कांस्यभाजनानि, उपकरणानि – लोहीकडुच्छुकादीनि ।
५/१८६ एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः ।
५/१८७ ‘बाहिरया भंडमत्तोवगरण' त्ति उपकारसाधमर्याद्द्वीन्द्रियाणां शरीररक्षार्थं तत्कृतगृहकादीन्यवसेयानि ।
५/१८९ ‘टंक' त्ति छिन्न टंका' 'कुड' त्ति कूटानि शिखराणि वा हस्त्यादिबन्धनस्थानानि वा, 'सेल' त्ति मुण्डपर्वताः 'सिहर' त्ति शिखरिणः शिखरवन्तो गिरयः 'पब्भार' त्ति ईषदवनता
१. 'खिड़की' इति भाषायां
५२४
Jain Education Intemational
भगवती वृत्ति
गिरिदेशा: 'लेण' त्ति उत्कीर्णपर्वतगृहं 'उज्झर' त्ति अवझरः -- पर्वततटादुदकस्याधःपतनं 'निज्झर' त्ति निर्झर - उदकस्य श्रवणं 'चिल्लल' ति चिक्खलमिश्रोदको जलस्थानविशेषः 'पल्लल' त्ति प्रह्लादनशीलः स एव 'वप्पिण' त्ति केदारवान् तटवान् वा देशः केदार एवेत्यन्ये, 'अगड' त्ति कूपः 'वावि' त्ति वापी चतुरस्रो जलाशयविशेष: 'पुक्खरिणि' त्ति पुष्करिणी वृतः स एव पुष्करवान् वा, 'दीहिय' ति सारण्यो 'गुंजालिय' त्ति वक्रसारण्यः ‘सर' त्ति सरांसि स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओ' त्ति सरः पंक्तयः 'सरसरपंतियाओ' त्ति यासु सर:पंक्तिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एव संचारकपाटकेनोदकं संचरति ताः सरः सरः पंक्तयः, बिलपंक्तयः --- प्रतीताः 'आराम' त्ति आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उज्जाण' त्ति उद्यानानि पुष्पादिमवृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि 'काणण' त्ति काननानि सामान्यवृक्षसंयुक्तानि नगरासन्नानि 'वण' त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाई' ति वनषण्डाः - एकजातीयवृक्षसमूहात्मका: 'वणराइ' त्ति वनराजयोवृक्षपंक्तय: 'खाइय' त्ति खातिकाः उपरिविस्तीर्णाधः संकटखातरूपा: 'परिह' त्ति परिखाः अध- उपरि च समखातरूपा: 'अट्टालग' त्ति प्राकारोपर्याश्रयविशेषाः 'चरिय' त्ति चरिका गृहप्राकारान्तरो हस्यत्यादिप्रचारमार्गः 'दार' त्ति द्वारं 'खड़क्किका'' 'गोउर' त्ति गोपुरं नगरप्रतोली 'पासाय' त्ति प्रासादा देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुलाः ---- प्रासादा: 'घर' त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण' त्ति शरणानि तृणमयावसरिकादीनि 'आवण' त्ति आपणा हट्टा: शृंगाटक स्थापना - त्रिक स्थापना - 1 चतुष्क स्थापना - + चत्वरं स्थापना * | चतुर्मुखं— चतुर्मुखदेवकुलकादि 'महापह' त्ति राजमार्ग: 'सगडे' त्यादि प्राग्वत्, 'लोहि' त्ति लौहि मण्डकादिपचनिका 'लोहकडाहि' त्ति कवेल्ली 'कुडुच्छुय' त्ति परिवेषणाद्यर्थो भाजनविशेष: 'भवण' त्ति भवनपतिनिवासः ।
एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहारिकत्वाद् हेतवः उच्यन्ते इति तद्भेदान्निरूपयन्नाह—
५/१९१ 'पंच हेऊ' इत्यादि इह हेतेषु वर्त्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात् पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह - 'हे' जाणइ 'त्ति हेतुं साध्याविनाभूतं साध्यनिश्चयार्थं जानाति विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं पंचविधोऽपि सम्यक्दृष्टिर्मन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः एवं हेतुः पश्यति सामान्यत
For Private & Personal Use Only
www.jainelibrary.org