________________
भगवती वृत्ति
ऽसंख्येयस्थितिकत्वादनंतः ।
५/१७७-१७८ तथा यो निरेजस्य कालः स सैजस्यान्तरमितिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसंख्यातकाल इति यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असंख्यातो भाग इति। एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनर्द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं तच्चासंख्येयकालमानमिति । ५/१७९,१८० 'सद्दे' त्यादि तु सूत्रसिद्धम् ५ / १८१ 'एयस्स णं भंते! दव्वद्वाणाउयस्स' त्ति द्रव्यं - पुद्गलद्रव्यं तस्य स्थानं—भेदः परमाणुद्विप्रदेशिकादि तस्यायुः स्थिति: अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानमवस्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तट्ठाणाउयस्स' त्ति क्षेत्रस्य - आकाशस्य स्थानं - भेदः पुद्गलावगाहकृतस्तस्यायुः — स्थिति: अथवा क्षेत्रे एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना – नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः ? उच्यते
क्षेत्रमवगाढमेव' अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । 'कयरे' इत्यादि कण्ठ्यं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमा:--
१. " खेत्तोगाहणदव्वे भावट्ठाणाउ अप्पबहुयत्ते ।
थोवा असंखगुणिया तिन्नि य सेसा कहं णेया ॥
२. खेत्तामुत्तत्ताओ तेण समं बन्धपच्चयाभावा ।
५२३
तो पोग्गलाण थोवो खेत्तावद्वाणकालो उ ।। " क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, यस्मादेवं तत इत्यादि व्यक्तम्।
अथावगाहनायुर्बहुत्वं भाव्यते
३. " अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संचर । ओगाहणनासे पुण खेत्तण्णत्तं फुडं होइ ॥ "
इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धेन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदेवमित्युच्यते
१. स प्रतौ क्षेत्रमवगाहमेव
Jain Education International
श. ५: उ. ७ : सू. १७६-१८१
४. "ओगाहणावबद्धा खेतद्धा अक्कियावबद्धा य न उ ओगाहणकालो खेतद्धामेत्त संबद्धो ।। " अवगाहनायामगमनक्रियायां च नियता, क्षेत्राद्धा विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात् अवगाहनाद्धा तु न क्षेत्रमात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति । अथ निगमनम्
५. "जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा ॥ " अथ द्रव्यायुर्बहुत्वं भाव्यते—
६. "संकोयविकोएण व उवरमियाएऽवगाहणाएवि ।
तेत्तियमित्ताणं चिय चिरंपि दव्वाणऽवत्थाणं ॥ "
संकोचेन विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तम्, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते-
७. "संघाय भेयओ वा दव्वोवरमे पुणाइ संखित्ते। नियमा तद्दव्वगाहणाए नासो न संदेहो ।। "
संघातेन पुद्गलानां भेदेन वा तेषामेव यः संक्षिप्तः - स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो – द्रव्यान्यथात्वं तत्र सति, न च संघातेन न संक्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात् नियमात्तेषां - द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यते८. "ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा ।
न उ दव्वं संकोयणविकोयमित्तम्मि संबद्धं ॥ "
अवगाहनाद्धा द्रव्येऽवबद्धा - नियतत्वेन संबद्धा कथं ? संकोचाद् विकोचाच्च, संकोचादि परिहृत्येत्यर्थः, अवगाहना हि द्रव्ये संकोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धेत्युच्यते, द्रुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह-न पुनर्द्रव्यं संकोचविकाचनमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, संकोचनविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते खदिरवे द्रुत्वेवदिति ।
अथ निगमनम् -
For Private & Personal Use Only
www.jainelibrary.org