________________
श.५: उ.७: सू.१५२-१७६
५२२
भगवती वृत्ति
देशयोरेजनं देशस्य चानेजनमिति पञ्चमः। ५/१५३ एवं चतुःप्रदेशिकेऽपि नवरं षट्, तत्र षष्ठो देशयोरेजनं
देशयोरेव चानेजनमिति।
पुद्गलाधिकारादेवेदं सूत्रवृन्दम्५/१५४,१५५ ‘परमाणु' इत्यादि 'ओगाहेज्ज' त्ति अवगाहेत आश्रयेत,
छियेत द्विधाभावं यायात्, भिद्येत विदारणभावमात्र यायात् 'नो खलु तत्थ सत्यं कमइ' त्ति परमाणुत्वादन्यथा परमाणुत्वमेव
न स्यादिति। ५/१५६ ‘अत्यंगइए छिज्जेज्ज' त्ति तथाविधबादरपरिणामत्वात् 'अत्थेगइए
णो छिज्जेज्ज' त्ति सूक्ष्मपरिणामत्वात्। ५/१५७ 'उल्ले सिय' त्ति आद्रों भवेत् 'विणिहायमावज्जेज्ज' त्ति
प्रतिस्खलनमापद्येत 'परियावज्जेज्ज' पर्यापद्येत विनश्येत्। ५/१६१ 'दुपएसिए' इत्यादि यस्य स्कन्धस्य समाः प्रदेशा: स: साढ़े
यस्य तु विषमा: स समध्यः संख्येयप्रदेशिकादिस्तु स्कन्धः समप्रदेशिक: इतरश्च यत्र यः समप्रदेशिक: स सार्दोऽमध्य:
इतरस्तु विपरीत इति। ५/१६५ 'परमाणुपोग्गले णं भंते! इत्यादि 'किं देसेणं देस' मित्यादयो
नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति देशेनेत्यनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन३ सर्वेणेत्यनेन च त्रय एवेति३ स्थापना
विषयत्वात्, यदा तु द्विप्रदेशिक: परिणामसौक्ष्म्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते 'निपच्छिमएहिं तिहिं फुसई' त्ति त्रिप्रदेशिकमसौ स्पृशंस्विभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिक: प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात् , यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैकोऽवस्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणो: स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते। ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात्? नैवं यतस्तत्र द्विप्रदेशमात्र एवायववीति कस्य देशौ स्पृशति? त्रिप्रदेशिके तु त्यापेक्षया द्वयस्पर्शने एकाऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेश: साधुः स्यादिति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति
स्यादिति। ५/१६७ ‘दुपएसिए ण' मित्यादि 'ततियनवमेहिं फसई' ति यदा
द्विप्रदेशिको द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्वं स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः। 'दुपएसिओ दुपएसिय' मित्यादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा
सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति। ५/१६८ अनया दिशाऽन्येऽपि व्याख्येया इति।
पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति,
तत्र५/१६९ ‘परमाणु' इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेज्जं कालं'
ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात्। ५/१७० 'एगपएसोगाढे ण' मित्यादि क्षेत्रचिन्ता 'सेए' त्ति सैज:
सकम्प: 'तम्मि ठाणे' त्ति अधिकृत एव 'अण्णम्मि व' त्ति अधिकृतादन्यत्र 'उक्कोसेणं आवलियाए असंखेज्जइभागं' ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासंख्येयकालत्वं 'असंखेज्जपएसोगाढे'। त्ति अनन्तप्रदेशा
वगाढस्यासंभवादसंख्यातप्रदेशावगाढ इत्युक्तम्। ५/१७९ 'निरेए' त्ति निरेजः निष्पकम्पः। ५/१७५ 'परमाणुपोग्गलस्से' त्यादि परमाणोरपगते परमाणत्वे
यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदन्तरं
स्कन्धसम्बन्धकालः स चोत्कर्षतोऽसंख्यात इति। ___५/१७६ द्विप्रदेशिकस्य तु शेषस्कन्धसंबन्धकाल: परमाणुकाल
श्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतो
देशेन
देशैः देशं ।
देशं
देशान्
सर्वेण देशं देशान् सर्वं
देशान् सर्वं
सर्वं
।
अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसंभवात् , ननु यदि सर्वेण सर्वं स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनिष्पत्ति:? इति अत्रोच्यते, सर्वेण सर्वं स्पृशतीति कोऽर्थ:? स्वात्मना तावन्योऽन्यस्य लगतो, न पुनरांद्यंशेन, अर्द्धादिदेशस्य तयोरभावात् घटाद्यभावापत्तिस्तु तदैव प्रसज्येत
यदा तयोरेकत्वापत्तिः, न च तयोः सा, स्वरूपभेदात्। ५/१६६ ‘सत्तमनवमेहिं फुसइ' त्ति सर्वेण देशं सर्वेण सर्वमित्येता
भ्यामित्यर्थः तत्र यदा द्विप्रदेशिक: प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org