________________
भगवती वृत्ति
न बन्धः । पात्रादिजीवानां च न पुण्यबन्धहेतुत्वात्, तहेतोर्विवेकादेस्तेष्वभावादिति, किञ्च सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति इषुरिति - शरपत्र फलादिसमुदायः ।
५/१३५ 'अहे णं से उसू' इत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथंचिन्निमित्तभावोऽस्ति तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृत्त्वेन विवक्षणाच्चतस्रस्ता उक्ताः । बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पंचेति। अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह
५/१३६ ‘अण्णउत्थिए' त्यादि 'बहुसमाइणे' त्ति अत्यन्तमाकीर्णं मिथ्यात्वं च तद्वचनस्य विभंगज्ञानपूर्वकत्वादवसेयमिति । 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम्
५२१
५/१३८ 'एगत्तं' ति एकत्वं प्रहरणानां 'पुहुत्तं' ति पृथक्त्वं बहुत्वं प्रहरणानामेव 'जहा जीवाभिगमे' इत्यादि, आलापकश्चैवम् — 'गोयमा ! एगत्तंपि पहू विउव्वित्तए पुहुत्तंपि पहू विउव्वित्तए एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि । 'पुत्तं विव्वेमाणा मोग्गररूवाणि वा' इत्यादि, ताई संखेज्जाई नो असंखेज्जाई एवं संबद्धाइं नो असंबद्धाई सरिसाइं नो असरिसाई विउव्वंति विउव्वित्ता अण्णमण्णस्स कायं अभिहणमाणा अभिहणमाणा वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, 'ति तत्र उज्जवलां विपक्षलेशेनाप्यकलंकितां विपुलां शरीरव्यापिकां, प्रगाढां, प्रकर्षवतीं, कर्कशां कर्कशद्रव्योपमामनिष्टामित्यर्थः एवं कटुकां परुषां निष्ठुरां चेति, चण्डां रौद्रां तीव्रां झगिति शरीरव्यापिकां दुःखां असुखरूपां दुर्गां दुःखाश्रयणीयाम्, अतएव दुरधिसह्यामिति । इयं च वेदना ज्ञानाद्याराधनाविराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह
५ / १३९ - १४० 'आहाकम्मे' त्यादि 'अणवज्जे' त्ति अनवद्यमिति 'निर्दोषमिति 'मणं पहारेत्त' त्ति मानसं 'प्रधारयिता' स्थापयिता भवति 'रइयं' ति मोदकचूर्णादि पुनर्मोदकादितया रचितमौद्देशिकभेदरूपम्। ‘कंतारभत्तं' ति कान्तारम् – अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तम् एवमन्यान्यपि नवरं वार्दलिका - मेघदुर्दिनं, 'गिलाणभत्तं' ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तम्
५/१४१-१४६ आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं,
Jain Education International
श. ५ : उ. ६ : सू. १३४- उ. ७: सू. १५२
तत एवं स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीत श्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटैवेति।
आधाकर्म्मादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह
५/ १४७ 'आयरिये' त्यादि 'आयरियउवज्झाए णं' ति आचार्येण सहोपाध्याय आचार्योपाध्यायः ‘सविसयंसि' त्ति स्वविषये अर्थदानसूत्रदानलक्षणे 'गणं' ति शिष्यवर्गं 'अगिलाए' त्ति अखेदेन संगृह्णन् 'उपगृह्णन्' उपष्टम्भयन्, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः । चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति ।
परानुग्रहस्यानन्तरफलमुक्तम् अथ परोपघातस्य तदाह५/१४८ 'जे ण' मित्यादि 'अलिएणं' ति अलीकेन भूतनिह्नवरूपेण पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण | 'असब्भूएणं' ति अभूतोद्भावनरूपेण अचौरेऽपि चौरोऽयमित्यादिना, अथवा अलीकेन असत्येन तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं जानामीत्यादि। अत एवाह 'असद्भूतेन दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपि चौरोऽयमित्यादिना 'अब्भक्खाणेणं' ति आभिमुख्येनाख्यानं -- दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगार' त्ति कथं प्रकाराणि किं प्रकाराणीत्यर्थः 'तहप्पगार' त्ति अभ्याख्यानफलानीत्यर्थः ' जत्थेव ण' मित्यादि यत्रैव मानुषत्वादौ 'अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म्म ततः पश्चाद् वेदयति — निर्जरयतीत्यर्थः ।।
|| पंचमशते षष्ठोद्देशकः ॥
सप्तम उद्देशकः
षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह–
५/१५० 'परमाणु' इत्यादि, 'सिय एयइ' त्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणाम् ।
५/१५१ द्विप्रदेशिके त्रयो विकल्पाः स्यादेजनं स्यादनेजनं स्याद्देशेनैजनं देशेनानेजनं चेति, द्वयंशत्वात्तस्येति ।
५/१५२ त्रिप्रदेशिके पञ्च - आद्यास्त्रयस्त एव यकस्यापि तदीयस्यैकस्याशंस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमिति चतुर्थः तथा
For Private & Personal Use Only
www.jainelibrary.org