________________
श. ५: उ. ६ : सू. १२८-१३४
५/१२८ 'गाहावइस्से' त्यादि गृहपतिः - गृही 'मिच्छादंसणकिरिया सिय कज्जइ' इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्कदाचित् क्रियते भवति स्यान्नो क्रियते — कदाचिन्न भवति । यदा मिथ्यादृष्टिर्गृहपतिस्तदाऽसौ भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः ।
अथ क्रियास्वेव विशेषमाह-- 'अहे' त्यादि 'अथे' ति पक्षान्तरद्योतनार्थः 'से भंडे' त्ति तद्भाण्डं 'अभिसमण्णागए' त्ति गवेषयता लब्धं भवति 'तओ' त्ति समन्वागमनात् 'से' त्ति तस्य गृहपते: 'पश्चात् ' समन्वागमानन्तरमेव 'सव्वाओ' त्ति यासां संभवोऽस्ति ता आरंभिक्यादिक्रियाः 'पयणुई भवंति' त्ति प्रतनुकीभवन्ति ह्स्वीभवन्ति अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता हस्वी भवन्तीति ।
५२०
५/ १२९ 'कइए भंड साइज्जेज्ज' त्ति क्रयिको— ग्राहको भाण्डं स्वादयेत् सत्यंकारदानतः स्वीकुर्यात् 'अणुवणीए सिय' त्ति क्रयिकाय असमर्पित्वात् 'कइयस्स णं ताओ सव्वाओ पयणुई भवंति' त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात् ।
५/१३० क्रयिकस्य भाण्डे समर्पिते महत्यास्ताः, गृहपतेस्तु प्रतनुकाः । इदं भाण्डस्यानुपनीतोपनीतभेदात् सूत्रद्वयमुक्तम् । एवं धनस्यापि वाच्यं तत्र प्रथमेवम्
५ / १३१ 'गाहावइस्स णं भंते! भंडं विक्किणमाणस्स कइए भंड साइज्जेज्जा ? धणे य से अणुवणीए सिया, कइयस्स णं भंते! ताओ धणाओ कि आरंभिया किरिया कज्जइ ? .... ? गाहावइस्स य ताओ धणाओ किं आरंभिया किरिया कज्जइ .....? गोयमा ! कइयस्स ताओ धणाओ हेट्ठिल्लाओ चत्तारि किरियाओ कज्जंति, मिच्छादंसणकिरिया भयणाए, गाहावतिस्स णं ताओ सव्वाओ पयणुई भवंति, धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात्, गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात्। एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह - 'एयंपि जहा भंडे उवणीए तहा णेयव्वं' ति द्वितीयसूत्रसमतयेत्यर्थः। चतुर्थं त्वेवमध्येयम्
५ / १३२ 'गाहावइस्स णं भंते! भंडं विक्किणमाणस्स कइए भडं साइज्जेज्जा धणे य से उवणीए सिया, गाहावइस्स णं भंते! ताओ धणाओ कि आरंभिया किरिया कज्जइ ? कइयस्स वा ताओ धणाओ कि आरंभिया किरिया कज्जइ गोयमा ! गाहावइस्स ताओ धणाओ आरंभिया..... मिच्छादंसणवत्तिया किरिया सिय कज्जइ सिय नो कज्जइ, कइयस्स णं ताओ सव्वाओ पयणुई भवंति " धने उपनीते
?
Jain Education International
भगवती वृत्ति
धनप्रत्ययत्वात्तासां गृहपतेर्महत्य:, क्रयिकस्य तु प्रतनुका: धनस्य तदानीमतदीयत्वात् एवं च प्रथमसूत्रसममिदं चतुर्थमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि। क्रियाऽधिकारादिदमाह -
५/१३३ ‘अगणी' त्यादि ‘अहुणोज्जलिए' त्ति अधुनोज्जवलितः सद्यः प्रदीप्त: 'महाकम्मतराए' त्ति विध्यायमानानलापेक्षयाऽतिशयेन महन्ति कर्माणि - ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्म्मतरः एवमन्यान्यपि, नवरं क्रिया — दाहरूपा आश्रवो— नवकर्मोपादनहेतुः वेदना – पीड़ा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधदन्या वा 'वोक्कसिज्जमाणे' त्ति व्यवकृष्यमाण: अपकर्षं गच्छन् 'अप्पकम्मतराए' त्ति अंगाराद्यवस्थामाश्रित्य अल्पशब्दः स्तोकार्थः (क्षारावस्थायां त्वभावार्थः) । क्रियाऽधिकारादेवेदमाह-
५/१३४ 'पुरिसे ण' मित्यादि 'परामुसइ' त्ति परामृशति गृणाति 'आययकण्णाययं' ति आयतः - क्षेपाय प्रसारितः कर्णायत:कर्णं यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं इषु॑ – बाणम् 'उड्डुं वेहासं' ति ऊर्ध्वमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह— विहायसि
इत्याकाशे 'उव्विहइ' त्ति ऊर्ध्वं विजहाति ऊर्ध्वं क्षिपतीत्यर्थः, 'अभिहणइ' त्ति अभिमुखमागच्छतो हन्ति 'वत्तेइ' त्ति वर्तुलीकरोति शरीरसंकोचापादनात् 'लेसेइ' त्ति श्लेषयति आत्मनि श्लिष्टान् करोति । 'संघाएइ' त्ति अन्योऽन्यं गात्रैः संहतान् करोति 'संघट्टेइ' त्ति मनाक् स्पृशति 'परितावेइ' त्ति समन्ततः पीडयति 'किलामेइ' त्ति मारणान्तिकादिसमुद्घातं नयति । 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति । 'जीवियाओ ववरोवेइ' त्ति च्युतजीवितान् करोतीति 'किरियाहिं पुट्ठे' त्ति क्रियाभिः स्पृष्टः क्रियाजन्येन कर्मणा बद्ध इत्यर्थः 'धणु' त्ति धनुः - दण्डगुणादिसमुदायः, ननु पुरुषस्य पंच क्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् धनुरादिनिर्वर्त्तकशरीराणां तु जीवानां कथं पञ्चक्रिया: ? कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसंग: तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात् । किंच यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः न्यायस्य समानत्वाद् इति। अत्रोच्यते अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति सिद्धानां तु नास्त्यसाविति
For Private & Personal Use Only
www.jainelibrary.org