________________
भगवती वृत्ति
श.५:उ.६:सू.१२४-१२७
चाल्पायुष्कता इति? उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यहेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसंगात्, तथा 'समणोवासयस्स' णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्ज असणं पाणं खाइमं साइमं पडिलाभेमाणस्स किं कज्जइ? गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ' त्ति वक्ष्यमाणवचनादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसंगात्, नन्वेवं धर्मार्थ प्राणातिपातमृषावादापासुकदानं च कर्त्तव्यमापन्नमिति । अत्रोच्यते आपद्यतां नाम भूमिकापेक्षया को दोषः? यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमक्तमेव प्रवचने दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति। यथोक्तम्“संविग्गभावियाणं लोद्धयदिटुंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धछ ।" तत्र लुब्धकदृष्टान्तभाविता आगमानभिज्ञत्वाद्यथकथंचिद्ददति संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टंभकत्वाच्चौ-चित्येन, आगमश्चैवम्"संथरणंमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं। आउरदिट्ठतेणं तं चेव हियं असंथरणे॥" तथा-"नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाण' मित्यादि, अथवेहाप्रासुकदानमल्पायुष्कतायां मुख्य कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात् , तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं वातो नानेषणीयमिति शंका कायेंति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति गंभीरार्थं चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति।।
अथ दीर्घायुष्कताकारणान्याह५/१२५ 'कहण्ण' मित्यादि भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि
तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृतः, तथा सिद्धमेव वधादिविरतेर्दीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च"अणुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य।
देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो ।।" देवगतौ च विवक्षया दीर्घमेवायु: दानं चाश्रित्येहैव वक्ष्यति 'समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जं असण-पाण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स किं कज्जइ? गोयमा! एगतंसो निज्जरा कज्जइ “त्ति यच्च निर्जराकारणं तद्विशिष्टदीर्घायुः कारणतया न विरुद्ध महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति।
अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह५/१२६ 'कहण्ण' मित्यादि प्राग्वत्रवरं श्रमणादिकं हीलनादिकरणत:
प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्याधुद्घट्टनत: कुत्सा निन्दनं-मनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् अपमाननम्-अनभ्युत्थानादिकरणम् अन्यतरेण बहूनामेकतमेन, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव मनोज्ञफलत्वात्। इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात् । वाचनान्तरे तु 'अफासुएणं अणेसणिज्जेणं' ति दृश्यते तत्र च प्रासुकादानमपि हीलनादिविशेषितमशुभदीर्घायु:कारणम् अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफासुएण' इत्याधुक्तमिति। प्राणातिपातमृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव अवज्ञादानेऽपि प्राणातिपातादेर्दृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः तेषां नरकगतिहेतुत्वात्, यदाह"मिच्छद्दिद्विमहारंभपरिग्गहो तिव्वलोभ निस्सीलो। निरयाउयं निबंधइ पावमई रोद्दपरिणामो।।"
नरकगतौ च विवक्षया दीर्घमेवायुः। ५/१२७ विपर्ययसूत्रं प्रागिव, नवरं इहापि प्रासुकाप्रासुकतया दानं न
विशेषितं, पूर्वसूत्रविपर्ययत्वाद् अस्य पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वात्, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति। पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्ताविरतस्य ' चेदं फलमवसेयम्। वाचनान्तरे तु ‘फासुएण' मित्यादि दृश्यत एवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुः सूत्रं चतुर्थं तु तद्विपक्ष इति । अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह
१. अस. प्रतौ 'कल्प्यप्राप्ताविरतस्य'
Jain Education Intenational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org