________________
श. ५ : उ. ४ : सू. ११२-उ. ६ : सू. १२४
'अभिनिव्वट्टित्ता' इति योग: 'अभिनिव्वट्टित्ता' अभिनिर्वर्त्य विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरितिप्रश्नः। ५/११३ ‘उक्कारियाभेएणं' ति इहं पुद्गलानां भेदः पञ्चधा भवति, खण्डादिभेदात्, तत्र खण्डभेद: खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत् अनुतटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, उत्कारिकाभेदेन भिद्यमानानि 'लद्धाई' ति लब्धिविशेषाद्ग्रहणविषयतां गतानि 'पत्ताई' ति तत एवं गृहीतानि 'अभिसमण्णागयाई' ति घटादिरूपेण परिणमयितुमारब्धानि ततस्तैर्घटसहस्त्रादि निर्वर्त्तयति, आहारकशरीरवत्, निर्वर्त्य च दर्शयति जनानाम्, इह चोत्कारिकाभेदग्रहणं तद्भिन्नानामेव द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति।।
॥ पंचमशते चतुर्थोद्देशकः ॥
ग्रन्थाय परिमाण ५०००
५१८
पञ्चम उद्देशकः
अनन्तरोद्देशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छद्मस्थोऽपि सेत्स्यतीति कस्याप्याशंका स्यादतस्तदपनोदाय पंचमोद्देशकस्येदमादिसूत्रम्
५/ ११५ 'छउमत्थे ण' मित्यादि 'जह पढमसए' इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिद्धयतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधर केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्धविशेषात्, स पुनरुद्देशकपातनायामुक्त एवेति।। स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रम्—तत्र च ५/ ११६ 'एवंभूयं वेयणं' ति यथाविधं कर्म निबद्धं एवंभूतामेवंप्रकारतयोत्पन्नां 'वेदनाम्' असातादिकमोंदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं न हि यथा बद्धं तथैव सर्वं कर्मानुभूयते आयुः-कर्मणा-व्यभिचारात्', तथाहि— दीर्घकालानुभवनीयस्याप्यायुः - कर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेश: सर्वजन - प्रसिद्धः स्यात् ? कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्येतेति ?
५/११७ ‘अणेवंभूयंपि’ त्ति यथा बद्धं कर्म नैवंभूता अनेवंभूता अतस्तां श्रूयते ह्यागमे कर्म्मणः स्थितिघातरसघातादय इति।
१. स प्रतौ आयुकर्मणो व्यभिचारात् क्वचितमपि
Jain Education Intemational
भगवती वृत्ति
५/ १२१ 'एवं जाव वेमाणिया ।
५/ १२२ 'संसारमंडलं नेयव्वं' त्ति एवम् उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति संभाव्यत इति । || पंचमशते पञ्चमोद्देशकः ॥
षष्ठ उद्देशकः
अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तू कर्म्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम्
५/१२४ ‘कहण्ण’ मित्यादि ‘अप्पाउयत्ताए' त्ति अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः अल्पायुष्कतया वा 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बध्नंति ? 'पाणे अइवाएत्त' त्ति प्राणान् जीवान् अतिपात्य विनाश्य ‘मुसं वइत्त' त्ति मृषावादमुक्त्वा 'तहारूवं' ति तथाविधस्वभावं भक्तिदानोचितपात्रमित्यर्थः 'समणं व' त्ति श्राम्यते— तपस्यतीति श्रमणोऽतस्तं 'माहणं व' त्ति मा हनेत्येवं योऽन्यं प्रति वक्ति, स्वयं हनननिवृत्तः सन्नसौ माहनः ब्रह्म वा ब्रह्मचर्यं कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं वा शब्दौ समुच्चये 'अफासुएणं' ति न प्रगता असव:असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः । 'अणेसणिज्जेणं' त्ति एष्यत इत्येषणीयं - कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना प्रसिद्धेन 'पडिलाभेत्त' त्ति प्रतिलभ्य लाभवन्तं कृत्वा, अथ निगमयन्नाह - 'एव' मित्यादि 'एवम्, उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:-अध्यवसायविशेषादेतत्त्रयं जघन्यायुः फलं भवति । अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनय: प्रथमवयसं भोगिनं कंचन मृतं दृष्ट्वा वक्तारो भवन्ति -नूनमनेन भवान्तरे किंचिदशुभं प्राणिघातादि चासेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये त्वाहुः - यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया । अथ नैवं निर्विशेषणत्वात्सूत्रस्य अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् अतः कथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी
For Private & Personal Use Only
www.jainelibrary.org