________________
भगवती वृत्ति
५१७
श.५: उ.४: सू.९६-११२
व' ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावक: तस्य वचनं श्रुत्वा जानाति, स हि किल जिनस्य समीपे वाक्यान्तराणि शृण्वन् अयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्वचनश्रवणाज्जानातीति, 'केवलिउवासगस्स' त्ति केवलिनमुपास्ते यः श्रवणाऽनाकांक्षी तदुपासनमात्रपर: सन्नसौ केवल्युपासकः तस्य वच: श्रुत्वा जानाति, भावना प्राय: प्राग्वत् 'तप्पक्खियस्स' त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्र ज्ञाननिमित्ततयाऽवसेयं, न
त्वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति । ५/९७ ‘पमाणे' ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पच्चक्खें'
त्ति अक्षं-जीवम् अक्षाणि वेन्द्रियाणि प्रति-गतं प्रत्यक्षम्। 'अणुमाणे' ति अनु–लिंगग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् ‘ओवम्मे' त्ति उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सैव औपम्यम् 'आगमे' त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थमतिदेशत आह—'जहे' त्यादि, एवं चैतत्स्वरूपं-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात् तत्रेन्द्रियप्रत्यक्षं पञ्चधा-श्रोत्रादीन्द्रियभेदात् , नोइन्द्रियप्रत्यक्षं त्रिधा–अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषवदृष्टसाधर्म्यवच्चेति। तत्र पूर्ववत् पूर्वोपलब्धासाधारणलक्षणान्मात्रादि प्रमातुः पुत्रादिपरिज्ञानम्। शेषवत् यत्कार्यादिलिंगात्परोक्षार्थज्ञानं यथा मयूरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात्, विधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात्, तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति । एतस्य प्रकरणस्य सीमा कुर्वन्नाह— 'जावे' त्यादि ‘तेण परं' ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागम: ततः परं प्रशिष्याणामित्यर्थः।
केवलीतरप्रस्ताव एवेदमपरमाह५/९८ 'केवली ण' मित्यादि चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते,
चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्य: परिशटतीति। ५/१०० ‘पणीय' त्ति प्रणीतं शुभतया प्रकृष्टं 'धारेज्ज' त्ति धारयेद्
व्यापारयेदित्यर्थः। ५/१०२ ‘एवं अणंतरे' त्यादि, अस्यायमर्थः यथा वैमानिका द्विविधा
उक्ता: मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः अनन्तरोपपन्नकानां च ज्ञाननिषेधः तथा परम्परोपन्नका अपि
पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्या: अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तको उपयुक्तानुपयुक्तभेदेन द्विधा वाच्या: अनुपयुक्तानां च ज्ञाननिषेधश्चेति। .
वाचानान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते इति। ५/१०३ 'आलावं व' ति सकृज्जल्पं 'संलावं' व त्ति महर्मुहर्जल्पं
मानसिकमेवेति। ५/१०६ 'लद्धाओ' ति तदवधेर्विषयभावं गताः ‘पत्ताओ' त्ति तदवधिना
सामान्यत: प्राप्ताः परिच्छिन्ना, इत्यर्थः 'अभिसमण्णागयाओ' त्ति विशेषत: परिच्छिन्नाः यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहक भवत्येव यतो योऽपि लोकसंख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं न मनोद्रव्यग्राही भविष्यति? इष्यते च लोकसंख्येयभागावधेर्मनोद्रव्यग्राहित्वं यदाह-संखेज्ज मणोदव्वे भागो लोगपलियस्स बोद्धब्वो' त्ति ।
अनुत्तरसुराधिकारादिदमाह५/१०७ 'अमुत्तरे' त्यादि ‘उदिण्णमोह' त्ति उत्कटवेगमोहनीयाः
'उवसंतमोह' त्ति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथंचिदप्यभावात् , न तु सर्वथोपशान्तमोहा: उपशमश्रेणेस्तेषामभावात् 'नो खीणमोह' त्ति क्षपकश्रेण्या अभावादिति।।
पूर्वतनसूत्रे केवल्याधिकारादिदमाह५/१०८ 'केवली' त्यादि 'आयाणेहिं' ति 'आदीयते-गृह्यतेऽर्थः
एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति 'केवलित्वात्। ५/११० 'अस्सि समयंसि' त्ति अस्मिन् वर्तमाने समये 'ओगाहिताणं'
ति अवगाह्य आक्रम्य 'सेयकालंसिवि' त्ति एष्यत्कालेऽपि ५/१११ वीरियसजोगसद्दव्वयाए' त्ति वीर्य-वीर्यन्तरायक्षयप्रभवा शक्तिः
तत्प्रधानं सयोगं-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सद्रव्य विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ अथवा स्व-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं तत: कर्मधारयः अथवा वीर्यप्रधान: सयोगो-योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च-मन:प्रभृतिवर्गणायुक्तो वीर्यसयोगसव्व्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाई ति अस्थिराणि' 'उवकरणाई' त्ति अंगानि 'चलोवगरणट्ठयाए' त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः।
केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह५/११२ ‘घडाओ घडसहस्सं' ति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org