SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ श.५: उ.४: सू.७६-९६ ५१६ भगवती वृत्ति ४. योनेः सकाशाद्योनि 'संहरति' नयति योन्या उदरान्निष्काष्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः।। एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह-'परामुसिए' त्यादि परामृश्य परामृश्य, तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखंसुखेनेत्यर्थः। योनीत: योनिद्वारेण निष्काश्य गर्ने गर्भाशयं संहरति गर्भमिति प्रकृतम्। यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भ: स्वाभावाद्योन्यैव निर्गच्छतीति अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह५/७७ 'पभू ण' मित्यादि 'नहसिरंसि' त्ति नखाये 'साहरित्तए' त्ति संहर्तुं—प्रवेशयितुं 'नीहरित्तए' ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद् वा निर्हर्तुं निष्काशयितुं ‘आबाह' ति ईषद्बाधां 'विबाह' ति विशिष्टबाधां 'छविच्छेद' ति शरीरच्छेदं पुनः कुर्यात्, गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात्। ‘एसुहुम च णं' ति इति सूक्ष्ममिति एवं लध्विति। अनन्तरं महावीरस्य सम्बन्धि गर्भान्तरसंक्रमणलक्षण माश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह५/७८ तेण' मित्यादि ‘कुमारसमणे' त्ति षड्वर्षजातस्य तस्य प्रव्रजितत्वात् आह च'छव्वरिसो पव्वइओ निग्गंथं रोइऊण पावयणं' ति एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति। ५/७९ 'कक्खपडिग्गहरयहरणमायाए' त्ति कक्षायां प्रतिग्रहकं रजोहरणं चादायेत्यर्थः। ५/८० ‘णाविया में' त्ति नौका द्रोणिका में ममेयमिति विकल्पवन्निति गम्यते। 'नाविओ विव नावं' ति नाविक इव-नौवाहक इह 'नावं' द्रोणीम् 'अयं' ति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया बालावस्थाबलादिति 'अद्दक्खु' त्ति अद्राक्षुः दृष्टवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छु:, एतदेवाह ‘एवं खलु' इत्यादि ५/८१ 'हीलेह' त्ति जात्याधुघट्टनत: 'निंदह' त्ति मनसा 'खिंसह' त्ति जनसमक्षं 'गरहह' त्ति तत्समक्षम् 'अवमण्णह' त्ति तदुचितप्रतिपत्यकरणेन ‘परिभवह' त्ति क्वचित् पाठस्तत्र परिभव:--समस्तपूर्वोक्तपदाकरणेन 'अगिलाए' त्ति अग्लान्या अखेदेन 'संगिण्हह' त्ति संगृणीत स्वीकुरुत 'उवगिण्हह' त्ति उपगृहणीत उपष्टम्भं कुरुत एतदेवाह-'वेयावडियं' ति वैयावृत्यं कुरुतास्येति शेष: 'अंतकरे चेव' त्ति भवच्छेदकरः स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव' त्ति चरमशरीर इत्यर्थ। यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्ये पि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह५/८३ 'तेण' मित्यादि 'महाशुक्रात् सप्तमदेवलोकात् ५/८६ 'झाणंतरियाए' त्ति अन्तरस्य–विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिपूर्व स्यानारंभणमित्यर्थः अतस्तस्यां वर्तमानस्य ५/८८ 'कप्पाओ' त्ति देवलोकात् 'सग्गाओ' त्ति स्र्वगाद्, देवलोकदेशात्प्रस्तटादित्यर्थः। विमाणाओ' त्ति प्रस्तटैकदेशादिति 'वागरणाई' ति व्याक्रियन्त इति व्याकरणा:-प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः। देवप्रस्तावादिदमाह५/८९ 'देवा ण' मित्यादि ५/९२ 'से किं खाइ णं भंते! देवाइं वत्तव्वं सिय' त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः। णं वाक्यालंकारार्थः 'देवा' इति यद्वस्तु तद्वक्तव्यं स्यादिति। 'नोसंजया इ वत्तव्वं सिय' त्ति नो संयता इत्येतद्वक्तव्यं स्यात् , असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति। देवाधिकारादेवेदमाह५/९३ 'देवा ण' मित्यादि 'विसिस्सइ' त्ति विशिष्यते विशिष्टो भवतीत्यर्थः, 'अद्धमागह' त्ति भाषा किल षड्विधा भवति, यदाह"प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च । षष्ठोऽत्र भूरिभेदो, देशविशेषादपभ्रंशः॥" तत्र मागधभाषालक्षणं किंचित्किंचिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति। केवलिछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह५/९४ 'केवली' त्यादि यथा जानाति तथा छदमस्थो न जानाति, कथंचित्पुनर्जानात्यपीति एतदेव दर्शयन्नाह५/९६ 'सोच्चे' त्यादि 'केवलिस्स' त्ति केवलिन: जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगस्स १. अस प्रतौ 'व्याकरणान्याः ' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003594
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages596
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy