________________
भगवती वृत्ति
५१५
श.५:उ.४ःसू.६४-७६
दण्डादिना सह शंखपटहझल्लर्यादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एभ्य एव ये जाता: शब्दास्ते आजोड्यमाना आकुट्यमाना एव वोच्यन्तेऽतस्तान् आजोड्यमानानाकुट्यमानान् वा शब्दान् शृणोति इह च प्राकृतत्वेनशब्दशब्दस्य नपुंसकनिर्देश: अथवा 'आउडिज्जमाणाई' ति आकुट्यमानानि परस्परेणाभिहन्यमानानि 'सद्दाई' ति शब्दानि शब्दद्रव्याणि शंखादय: प्रतीता: नवरं 'संखिय' त्ति शंखिका ह्रस्व: शंख: 'खरमुहि' त्ति काहला 'पोया' महती काहला ‘परिपिरिय' त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेष: ‘पणव' त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति। 'भंभ' त्ति ढक्का 'होरंभ' त्ति रूढिगम्या 'भेरि' ति महाढक्का 'झल्लरि' त्ति वलयाकारो वाद्यविशेष: ‘दुंदुहि' त्ति देववाद्यविशेषः। अथोक्तानुक्तसंग्रहद्वारेणाह—'तताणि वे' त्यादि ततानि वीणादिवाद्यानि तज्जनितशब्दा अपि तता:, एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्"ततं वीणादिकं ज्ञेयं, विततं पटहादिकम्। घनं तु कांश्यतालादि, वंशादि शुषिरं मतम्॥" इति
'पुट्ठाई सुणेइ' इत्यादि तु प्रथमशते आहाराधिकारवदवसेयमिति। ५/६५ 'आरगयाइं ति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः ।
'पारगयाई' ति इन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूरमूलमणंतियं' ति सर्वथा दूरं-विप्रकृष्टं मूलं च निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थ दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकम्-आसन्नं तन्निषेधादनन्तिकम् 'नञोऽल्पार्थत्वात् नात्यन्तमन्तिकम् अदूरासन्नमित्यर्थः तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम् अथवा 'सव्व' त्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, 'दूरमूलं'
ति अनादिकमितिहृदयम्। 'अणंतियं' त्ति अनन्तिकमित्यर्थः ५/६७ 'मियंपि' त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्यादि। 'अमियंपि'
त्ति अनन्तमसंख्येयं वा वनस्पतिपृथिवीजीवद्रव्यादि । 'सव्वं जाणइ' इत्यादि द्रव्याद्यपेक्षयोक्तम्। अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते? इत्यत आह - 'अणंते' इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात् तथा 'निव्लुडे नाणे केवलिस्स' त्ति 'निर्वृतं निरावरणं ज्ञानं केवलिन: क्षायिकल्वात् शुद्धमित्यर्थः वाचनान्तरे तु 'निव्वुडे वितिमिरे विसद्धे' त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते। तत्र च निर्वतं निष्ठागतं 'वितिमिरं' क्षीणावरणम् अतएव विशुद्धमिति।
अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह५/६८ 'छउमत्थे' त्यादि 'उस्सुयाएज्ज' त्ति अनुत्सुक उत्सुको
भवेदुत्सकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थ : । ५/७० 'जं णं जीव' ति यस्मात् कारणाज्जीव: ‘से णं केवलिस्स
णत्थि' त्ति तत्पुनश्चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः । ५/७१ ‘एवं जाव वेमाणिए' त्ति एवमिति जीवाभिलापवन्नारकादिर्दण्डको
वाच्यो याववैमानिक इति, स चैवम्-'नेरइए णं भंते! हसमाणे वा उस्सुयमाणे वा, कइ कम्मपयडीओ बंधइ? गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि। इह च पृथिव्यादीनां हास: प्राग्भविकतत्परिणामादवसेय इति। 'पोहत्तिएहिं' ति पृथक्त्वे सूत्रेषु-बहुवचनसूत्रेषु 'जीवा णं भंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधंति? गोयमा! सत्तविहबंधगावि अट्टविहबंधगावि, इत्यादिषु 'जीवेगिदिए' त्यादि जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु ‘त्रिकभंगः' भंगत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भंगको लभ्यते, नारकदिषु तु त्रयं तथाहि- सर्व एव सप्तविधबन्धका: स्युरित्येकः, अथवा सप्तविधबन्धकाश्चाष्टविधबंधकश्चेत्येवं द्वितीयः अथवा सप्तविधबन्धकाश्चाष्टविधबन्ध-काश्चेत्येवं
तृतीयः इति अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह५/७२ 'छउमत्थे' त्यादि ‘णिद्दाएज्ज व' त्ति निद्रां-सुखप्रतिबोध
लक्षणां कुर्यात् निद्रायेत, 'पयलाएज्ज 'व' त्ति प्रचलाम्ऊर्वस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत्।
केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह५/७६ 'हरी' त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न
दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते। हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्। यदि पुन: सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते!' इति वक्ष्यदिति, तत्र हरि:-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति नाम। 'सक्कदूए' त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद् भगवान महावीरो देवानन्दागर्भात् त्रिशलागर्भे संहृत इति। 'इत्थीगभं' ति स्त्रिया: सम्बन्धी गर्भ: सजीवपुद्गलपिण्डक: स्त्रीगर्भस्तम्। 'संहरमाणे' त्ति अन्यत्र नयन् इह चतुर्भगिका तत्र गर्भाद् गर्भाशयादवधे: गर्भ-गर्भाशयान्तरं 'संहरति' प्रवेशयति गर्भ सजीवपुद्गलपिंडलक्षणमिति प्रकृतिमित्येकः। २. तथा गर्भादवधे: योनिं गर्भनिर्गमद्वारं संहरति योन्या उदरान्तरं
प्रवेशयतीत्यर्थः ३. योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः
१. अ प्रतौ जीव इत्यादि।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org